लघुन्यासे देवता-स्थापनम्

प्रजनने ब्रह्मा तिष्ठतु। पादयोर्विष्णुस्तिष्ठतु।
हस्तयोर्हरस्तिष्ठतु। बाह्वोरिन्द्रस्तिष्ठतु।
जठरे अग्निस्तिष्ठतु। हृदये शिवस्तिष्ठतु।
कण्ठे वसवस्तिष्ठन्तु। वक्त्रे सरस्वती तिष्ठतु।
नासिकयोर्वायुस्तिष्ठतु। नयनयोश्चन्द्रादित्यौ तिष्ठेताम्।
कर्णयोरश्विनौ तिष्ठेताम्। ललाटे रुद्रास्तिष्ठन्तु।
मूर्ध्न्यादित्यास्तिष्ठन्तु। शिरसि महादेवस्तिष्ठतु।
शिखायां वामदेवस्तिष्ठतु। पृष्ठे पिनाकी तिष्ठतु।
पुरतः शूली तिष्ठतु। पार्श्वयोः शिवाशङ्करौ तिष्ठेताम्।
सर्वतो वायुस्तिष्ठतु। ततो बहिः सर्वतोऽग्निर्ज्वालामाला-परिवृतस्तिष्ठतु।
सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु। मां रक्षन्तु।
[ सर्वान् महाजनान् सकुटुम्बं रक्षन्तु॥]
अ॒ग्निर्मे॑ वा॒चि श्रि॒तः। वाग्घृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (जिह्वा)
वा॒युर्मे᳚ प्रा॒णे श्रि॒तः। प्रा॒णो हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (नासिका)
सूर्यो॑ मे॒ चक्षु॑षि श्रि॒तः। चक्षु॒र्‌॒हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (नेत्रे)
च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः। मनो॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (वक्षः)
दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः। श्रोत्र॒ꣳ॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (श्रोत्रे)
आपो॑ मे॒ रेत॑सि श्रि॒ताः। रेतो॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (गुह्यम्)
पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता। शरी॑र॒ꣳ॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (शरीरम्)
ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः। लोमा॑नि॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (लोमानि)
इन्द्रो॑ मे॒ बले᳚ श्रि॒तः। बल॒ꣳ॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (बाहू)
प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः। मू॒र्धा हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (शिरः)
ईशा॑नो मे म॒न्यौ श्रि॒तः। म॒न्युर्‌हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (हृदयम्)
आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः। आ॒त्मा हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि।
(हृदयम्)
पुन॑र्म आ॒त्मा पुन॒रायु॒रागा᳚त्। पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा᳚त्। वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः। अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः॥ (सर्वाण्यङ्गानि संस्पृश्य स्थापनं कृत्वा मानसैराराधयेत्॥)

❀ ❀ ❀