लघुन्यासे श्री-रुद्रध्यानम्
अथाऽऽत्मानं शिवात्मानं श्री-रुद्र रूपं ध्यायेत्।
शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम्।
गङ्गाधरं दशभुजं सर्वाभरणभूषितम्॥
नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम्।
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम्॥
कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम्।
ज्वलन्तं पिङ्गलजटाशिखामुद्योतधारिणम्॥
वृषस्कन्धसमारूढम् उमादेहार्धधारिणम्।
अमृते नाप्लुतं शान्तं दिव्यभोगसमन्वितम्॥
दिग्देवता समायुक्तं सुरासुरनमस्कृतम्।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम्॥
सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम्।
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत्॥
अथातो रुद्र स्नानार्चनाभिषेकविधिं व्याख्यास्यामः। आदित एव तीर्थे स्नात्वा उदेत्य शुचिः
प्रयतो ब्रह्मचारी शुक्लवासा ईशानस्य प्रतिकृतिं कृत्वा तस्य दक्षिणप्रत्यग्देशे देवाभिमुखः स्थित्वा आत्मनि देवताः स्थापयेत्॥