अष्टाङ्ग-नमस्काराः
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्।
सदा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥
[उरसा] उमामहेश्वराभ्यां नमः॥१॥
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥
[शिरसा] उमामहेश्वराभ्यां नमः॥२॥
ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
सबु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑॥
[दृष्ट्या] उमामहेश्वराभ्यां नमः॥३॥म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम्।
पि॒पृ॒तान्नो॒ भरी॑मभिः॥
[मनसा] उमामहेश्वराभ्यां नमः॥४॥
उप॑श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त्।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑सेध॒ शत्रून्॑॥
[वचसा] उमामहेश्वराभ्यां नमः॥५॥अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम॥
[पद्भ्याम्] उमामहेश्वराभ्यां नमः॥६॥या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या᳚स्ते॒ स्वाहा᳚॥
[कराभ्याम्] उमामहेश्वराभ्यां नमः॥७॥इ॒मं य॑मप्रस्त॒रमाहि सीदाऽङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः।
आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व॥
[कर्णाभ्याम्] उमामहेश्वराभ्यां नमः॥८॥
❀ ❀ ❀