पञ्चाङ्गम्
ह॒ꣳ॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्॥
प्रतद्विष्णुः॑ स्तवते वी॒र्या॑य। मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु। अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚॥
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त्॥
तथ्स॑वि॒तुर्वृ॑णीमहे। व॒यं दे॒वस्य॒ भोज॑नम्।
श्रेष्ठꣳ॑ सर्व॒धात॑मम्। तुरं॒ भग॑स्य धीमहि॥
विष्णु॒र्योनिं॑ कल्पयतु। त्वष्टा॑ रू॒पाणि॑ पिꣳशतु।
आसि॑ञ्चतु प्र॒जाप॑तिः। धा॒ता गर्भं॑ दधातु ते॥
❀ ❀ ❀