शतरुद्रीयम् (ब्रा॰)
(तैत्तिरीयब्राह्मणे काठके प्रश्नः – २/अनुवाकः – २)
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः। त्वꣳ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे।
त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यः। त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚।
देवा॑ दे॒वेषु॑ श्रयध्वम्। प्रथ॑मा द्वि॒तीये॑षु श्रयध्वम्।
द्विती॑यास्तृ॒तीये॑षु श्रयध्वम्। तृती॑याश्चतु॒र्थेषु॑ श्रयध्वम्।
च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयध्वम्। प॒ञ्च॒माः ष॒ष्ठेषु॑ श्रयध्वम्॥
ष॒ष्ठाः स॑प्त॒मेषु॑ श्रयध्वम्। स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयध्वम्।
अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयध्वम्। न॒व॒मा द॑श॒मेषु॑ श्रयध्वम्।
द॒श॒मा ए॑काद॒शेषु॑ श्रयध्वम्। ए॒का॒द॒शा द्वा॑द॒शेषु॑ श्रयध्वम्।
द्वा॒द॒शास्त्र॑योद॒शेषु॑ श्रयध्वम्। त्र॒यो॒द॒शाश्च॑तुर्द॒शेषु॑ श्रयध्वम्।
च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयध्वम्। प॒ञ्च॒द॒शाः षो॑ड॒शेषु॑ श्रयध्वम्॥
षो॒ड॒शाः स॑प्तद॒शेषु॑ श्रयध्वम्। स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयध्वम्। अ॒ष्टा॒द॒शा ए॑कान्नवि॒ꣳ॒शेषु॑ श्रयध्वम्। ए॒का॒न्न॒वि॒ꣳ॒शा वि॒ꣳ॒शेषु॑ श्रयध्वम्। वि॒ꣳ॒शा ए॑कवि॒ꣳ॒शेषु॑ श्रयध्वम्। ए॒क॒वि॒ꣳ॒शा द्वा॑वि॒ꣳ॒शेषु॑ श्रयध्वम्। द्वा॒वि॒ꣳ॒शास्त्र॑योवि॒ꣳ॒शे॑षु श्रयध्वम्। त्र॒यो॒वि॒ꣳ॒शाश्च॑तुर्वि॒ꣳ॒शेषु॑ श्रयध्वम्। च॒तु॒र्वि॒ꣳ॒शाः प॑ञ्चवि॒ꣳ॒शेषु॑ श्रयध्वम्। प॒ञ्च॒वि॒ꣳ॒शाः ष॑ड्वि॒ꣳ॒शेषु॑ श्रयध्वम्॥
ष॒ड्वि॒ꣳ॒शाः स॑प्तवि॒ꣳ॒शेषु॑ श्रयध्वम्। स॒प्त॒वि॒ꣳ॒शा अ॑ष्टावि॒ꣳ॒शेषु॑ श्रयध्वम्।
अ॒ष्टा॒वि॒ꣳ॒शा ए॑कान्नत्रि॒ꣳ॒शेषु॑ श्रयध्वम्। ए॒का॒न्न॒त्रि॒ꣳ॒शास्त्रि॒ꣳ॒शेषु॑ श्रयध्वम्।
त्रि॒ꣳ॒शा ए॑कत्रि॒ꣳ॒शेषु॑ श्रयध्वम्। ए॒क॒त्रि॒ꣳ॒शा द्वा᳚त्रि॒ꣳ॒शेषु॑ श्रयध्वम्।
द्वा॒त्रि॒ꣳ॒शास्त्र॑यस्त्रि॒ꣳ॒शेषु॑ श्रयध्वम्। देवा᳚स्त्रिरेकादशा॒स्त्रिस्त्र॑यस्त्रिꣳशाः।
उत्त॑रे भवत। उत्त॑रवर्त्मान॒ उत्त॑रसत्वानः।
यत्का॑म इ॒दं जु॒होमि॑। तन्मे॒ समृ॑ध्यताम्।
व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्। भूर्भुवः॒ स्वः॑ स्वाहा᳚॥
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः॥ अस्त्राय फट्॥