प्रतिपूरुषम् (ब्रा॰)

(तैत्तिरीयब्राह्मणे अष्टकं – १/प्रश्नः – ६/अनुवाकः – १०)
प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑पति। जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते। एक॒मति॑रिक्तम्। ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते। एक॑कपाला भवन्ति। ए॒क॒धैव रु॒द्रं नि॒रव॑दयते। नाभिघा॑रयति। यद॑भिघा॒रये᳚त्। अ॒न्त॒र॒व॒चा॒रिणꣳ॑ रु॒द्रं कु॑र्यात्। ए॒को॒ल्मु॒केन॑ यन्ति।
तद्धि रु॒द्रस्य॑ भाग॒धेयम्᳚। इ॒मां दिशं॑ यन्ति। ए॒षा वै रु॒द्रस्य॒ दिक्। स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते। रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत। अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यं द्वि॒ष्यात्। यमे॒व द्वेष्टि॑। तम॑स्मै प॒शुं निर्दि॑शति। यदि॒ न द्वि॒ष्यात्। आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात्।
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॑। नार॒ण्यान्। च॒तु॒ष्प॒थे जु॑होति। ए॒ष वा अ॑ग्नी॒नां पड्बी॑शो॒ नाम॑। अ॒ग्नि॒वत्ये॒व जु॑होति। म॒ध्य॒मेन॑ प॒र्णेन॑ जुहोति। स्रुग्घ्ये॑षा। अथो॒ खलु॑। अ॒न्त॒मेनै॒व हो॑त॒व्यम्᳚। अ॒न्त॒त ए॒व रु॒द्रं नि॒रव॑दयते।
ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑क॒येत्या॑ह। श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा᳚। तया॒ वा ए॒ष हि॑नस्ति। यꣳ हि॒नस्ति॑। तयै॒वैनꣳ॑ स॒ह श॑मयति। भे॒ष॒जं गव॒ इत्या॑ह। याव॑न्त ए॒व ग्रा॒म्याः प॒शवः॑। तेभ्यो॑ भेष॒जं क॑रोति। अवा᳚म्ब रु॒द्रम॑दिम॒हीत्या॑ह। आ॒शिष॑मे॒वैतामाशा᳚स्ते।
त्र्य॑म्बकं यजामह॒ इत्या॑ह। मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒दिति॒ वावैतदा॑ह। उत्कि॑रन्ति। भग॑स्य लीफ्सन्ते। मूते॑ कृ॒त्वाऽऽस॑जन्ति। यथा॒ जनं॑ य॒ते॑ऽव॒सं क॒रोति॑। ता॒दृगे॒व तत्। ए॒ष ते॑ रुद्र भा॒ग इत्या॑ह नि॒रव॑त्यै। अप्र॑तीक्ष॒माय॑न्ति। अ॒पः परि॑षिञ्चति। । प्र वा ए॒ते᳚स्माल्लो॒काच्च्य॑वन्ते। ये त्र्य॑म्बकै॒श्चर॑न्ति। आ॒दि॒त्यं च॒रुं पुन॒रेत्य॒ निर्व॑पति। इ॒यं वा अदि॑तिः। अ॒स्यामे॒व प्रति॑तिष्ठन्ति।
नेत्रत्रयाय वौषट्॥

❀ ❀ ❀