अप्रतिरथम्
(तैत्तिरीयसंहितायां काण्डः – ४/प्रश्नः – ६/अनुवाकः – ४)
आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम्। स॒ङ्क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयत् सा॒कमिन्द्रः॑। स॒ङ्क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚। तदिन्द्रे॑ण जयत॒ तथ्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚। स इषु॑हस्तैः॒ सनि॑ष॒ङ्गिभि॑र्व॒शी सꣴस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑। स॒ꣳ॒सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हुश॒ध्यू᳚र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚।
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हाऽमित्राꣳ॑ अप॒बाध॑मानः। प्र॒भ॒ञ्जन्थ्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम्। गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा। इ॒मꣳ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रꣳ॑ सखा॒योऽनु॒ सꣳ र॑भध्वम्। ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः। अ॒भिवी॑रो अ॒भिस॑त्त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित्। अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑।
दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्यो᳚ऽस्माक॒ꣳ॒ सेना॑ अवतु॒ प्र यु॒थ्सु। इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑। दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे᳚। इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ꣳ॒ शर्ध॑ उ॒ग्रम्। म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात्। अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु। उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत् सत्त्व॑नां माम॒कानां॒ महाꣳ॑सि। उद्वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑। उप॒ प्रेत॒ जय॑ता नरः स्थि॒रा वः॑ सन्तु बा॒हवः॑। इन्द्रो॑ वः॒ शर्म॑ यच्छत्त्वनाधृ॒ष्या यथाऽस॑थ। अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सꣳशिता।
गच्छा॒मित्रा॒न् प्रवि॑श॒ मैषां॒ कं च॒नोच्छि॑षः। मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॑ना॒भिव॑स्ताम्। उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒ त्वामनु॑ मदन्तु दे॒वाः। यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व। इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु॥
कवचाय हुम्॥