उत्तरनारायणम्
अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा᳚च्च। वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑। तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति। तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚॥ वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚। आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात्। तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॑ विद्य॒तेय॑ऽनाय॥ प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः। अ॒जाय॑मानो बहु॒धा विजा॑यते।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚। मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑॥ यो दे॒वेभ्य॒ आत॑पति। यो दे॒वानां᳚ पु॒रोहि॑तः। पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः। नमो॑ रु॒चाय॒ ब्राह्म॑ये॥ रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः। दे॒वा अग्रे॒ तद॑ब्रुवन्। यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात्। तस्य॑ दे॒वा अस॒न् वशे᳚॥ ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚। अ॒हो॒रा॒त्रे पा॒र्श्वे। नक्ष॑त्राणि रू॒पम्। अ॒श्विनौ॒ व्यात्तम्᳚। इ॒ष्टं म॑निषाण। अ॒मुं म॑निषाण। सर्वं॑ मनिषाण॥
शिखायै वषट्॥