शिवसङ्कल्पः

येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्वम्᳚।
येन॑ य॒ज्ञस्त्रा॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥१॥

येन॒ कर्मा॑णि प्र॒चर॑न्ति॒ धीरा॒ यतो॑ वा॒चा मन॑सा॒ चारु॒ यन्ति॑।
यथ्स॒म्मित॒मनु॑सं॒यन्ति॑ प्रा॒णिन॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२॥

येन॒ कर्मा᳚ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः᳚।
यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥३॥

यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑।
यस्मा॒न्न ऋ॒ते किं च॒ न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥४॥

सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या᳚न्नेनी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव।
हृत्प्रति॑ष्ठं॒ यद॑जिरं॒ जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥५॥

यस्मि॒नृचः॒ साम॒ यजूꣳ॑षि यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः।
यस्मिꣴ॑श्चि॒त्तꣳ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥६॥

यदत्र॑ ष॒ष्ठं त्रि॒शतꣳ॑ सु॒वीरं॑ य॒ज्ञस्य॑ गु॒ह्यं नव॑नाव॒माय्यम्᳚।
दश॑ पञ्च त्रि॒ꣳ॒शतं॒ यत्परं॑ च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥७॥

यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑।
दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥८॥

येने॒दं विश्वं॒ जग॑तो ब॒भूव॒ ये दे॒वापि॑ मह॒तो जा॒तवे॑दाः।
तदे॒वाग्निस्तम॑सो॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥९॥

येन॒ द्यौः पृ॑थि॒वी चा॒न्तरि॑क्षं च॒ ये पर्व॑ताः प्र॒दिशो॒ दिश॑श्च।
येने॒दं जग॒द्व्याप्तं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥१०॥

ये म॑नो॒ हृद॑यं॒ ये च॑ दे॒वा ये दि॒व्या आपो॒ ये सू᳚र्यर॒श्मिः।
ते श्रोत्रे॒ चक्षु॑षी स॒ञ्चर॑न्तं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥११॥

अचि॑न्त्यं॒ चाप्र॑मेयं॒ च॒ व्य॒क्ता॒व्यक्त॑परं च॒ यत्।
सूक्ष्मा᳚थ्सूक्ष्मत॑रं ज्ञे॒यं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥१२॥

एका॑ च द॒श श॒तं च॑ स॒हस्रं॑ चा॒युतं॑ च
नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥१३॥

ये प॑ञ्च प॒ञ्चाद॒श श॒तꣳ स॒हस्र॑म॒युतं॒ न्य॑र्बुदं च।
ते अ॑ग्निचि॒त्येष्ट॑का॒स्तꣳ शरी॑रं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥१४॥

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात्।
यस्य॒ योनिं॒ परि॒पश्य॑न्ति॒ धीरा॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥१५॥

यस्ये॒दं धीराः᳚ पु॒नन्ति॑ क॒वयो᳚ ब्र॒ह्माण॑मे॒तं त्वा॑ वृणत॒ इन्दु᳚म्।
स्था॒व॒रं जङ्ग॑मं॒ द्यौरा॑का॒शं तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥१६॥

परा᳚त्प॒रत॑रं चै॒व॒ य॒त्परा᳚च्चैव॒ यत्प॑रम्।
यत्परा᳚त्पर॑तो ज्ञे॒यं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥१७॥
परा᳚त्प॒रत॑रो ब्र॒ह्मा॒ त॒त्परा᳚त्पर॒तो ह॑रिः।
त॒त्परा॑त्पर॑तोऽधी॒श॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥१८॥
या वे॑दा॒दिषु॑ गाय॒त्री॒ स॒र्वव्या॑पी म॒हेश्व॑री।
ऋग्यजुः॑ सामा॑थर्वै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥१९॥
यो वै॑ दे॒वं म॑हादे॒वं॒ प्र॒णवं॑ पर॒मेश्व॑रम्।
यः सर्वे॑ सर्व॑वेदै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२०॥
प्रय॑तः॒ प्रण॑वोङ्का॒रं॒ प्र॒णवं॑ पुरु॒षोत्त॑मम्।
ओङ्का॑रं॒ प्रण॑वात्मा॒नं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२१॥
योऽसौ॑ स॒र्वेषु॑ वेदे॒षु॒ प॒ठ्यते᳚ ह्यज॒ इश्व॑रः।
अ॒कायो॑ निर्गु॑णो ह्या॒त्मा॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२२॥
गोभि॒र्जुष्टं॒ धने॑न॒ ह्यायु॑षा च॒ बले॑न च।
प्र॒जया॑ प॒शुभिः॑ पुष्करा॒क्षं तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२३॥
कैला॑स॒शिख॑रे र॒म्ये॒ श॒ङ्कर॑स्य शि॒वाल॑ये।
दे॒वता᳚स्तत्र॑ मोद॒न्ते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२४॥

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात्। सं बा॒हुभ्यां॒ नम॑ति॒ सम्पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एक॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२५॥

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒त्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२६॥

च॒तुरो॑ वे॒दान॑धीयी॒त॒ स॒र्वशा᳚स्त्रम॒यं वि॑दुः।
इ॒ति॒हा॒सपु॑राणा॒नां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२७॥

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑उक्षि॒तम्।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मान॑स्त॒नुवो॑ रुद्र रीरिष॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२८॥

मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒अश्वे॑षु रीरिषः।
वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्‌ह॒विष्म॑न्तो॒ नम॑सा विधेम ते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥२९॥

ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम्।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒
नम॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥३०॥

कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से।
वो॒ चेम॒ शन्त॑मꣳ हृ॒दे।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥३१॥

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
सबु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒
विव॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥३२॥

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑
ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥३३॥

य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।
यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑
ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥३४॥

यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥३५॥

ग॒न्ध॒द्वा॒रां दु॑राध॒र्॒‌षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म्।
ई॒श्वरीꣳ॑ सर्व॑भूता॒नां॒
तामि॒होप॑ह्वये॒ श्रियं तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥३६॥
य इ॒दꣳ शिव॑सङ्कल्पꣳ स॒दा ध्याय॑न्ति॒ ब्राह्म॑णाः।
ते परं॒ मोक्षं॑ गमिष्यन्ति॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु॥
हृदयाय नमः॥

❀ ❀ ❀