आत्मरक्षा

(तैत्तिरीयब्राह्मणे अष्टकं – २/प्रश्नः – ३/अनुवाकः – ११)
ब्रह्मा᳚त्म॒न्वद॑सृजत। तद॑कामयत। समा॒त्मना॑ पद्ये॒येति॑।
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत। तस्मै॑ दश॒मꣳ हू॒तः प्रत्य॑शृणोत्। स दश॑हूतोऽभवत्। दश॑हूतो ह॒ वै नामै॒षः। तं वा ए॒तं दश॑हूत॒ꣳ॒ सन्तम्᳚। दश॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः॥
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत। तस्मै॑ सप्त॒मꣳ हू॒तः प्रत्य॑शृणोत्। स स॒प्तहू॑तोऽभवत्। स॒प्तहू॑तो ह॒ वै नामै॒षः। तं वा ए॒तꣳ स॒प्तहू॑त॒ꣳ॒ सन्तम्᳚। स॒प्तहो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः॥
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत। तस्मै॑ ष॒ष्ठꣳ हू॒तः प्रत्य॑शृणोत्। स षड्ढू॑तोऽभवत्। षड्ढू॑तो ह॒ वै नामै॒षः। तं वा ए॒तꣳ षड्ढू॑त॒ꣳ॒ सन्तम्᳚। षड्ढो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः॥
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत। तस्मै॑ पञ्च॒मꣳ हू॒तः प्रत्य॑शृणोत्। स पञ्च॑हूतोऽभवत्। पञ्च॑हूतो ह॒ वै नामै॒षः। तं वा ए॒तं पञ्च॑हूत॒ꣳ॒ सन्तम्᳚। पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः॥
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत। तस्मै॑ चतु॒र्थꣳ हू॒तः प्रत्य॑शृणोत्। स चतु॑र्‌हूतोऽभवत्। चतु॑र्‌हूतो ह॒ वै नामै॒षः। तं वा ए॒तं चतु॑र्‌हूत॒ꣳ॒ सन्तम्᳚। चतु॑र्हो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः॥
तम॑ब्रवीत्। त्वं वै मे॒ नेदि॑ष्ठꣳ हू॒तः प्रत्य॑श्रौषीः। त्वयै॑नानाख्या॒तार॒ इति॑। तस्मा॒न्नु है॑ना॒ꣴ॒श्चतु॑र्‌होतार॒ इत्याच॑क्षते। तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ꣳ॒ हृद्य॑तमः। नेदि॑ष्ठो॒ हृद्य॑तमः। नेदि॑ष्ठो॒ ब्रह्म॑णो भवति। य ए॒वं वेद॑।
आत्मने नमः॥