हंसगायत्री
अस्य श्री-हंसगायत्री महामन्त्रस्य। अव्यक्त-परब्रह्म ऋषिः। अव्यक्त-गायत्री छन्दः। परमहंसो देवता॥
हं सां बीजम्। हं सीं शक्तिः। हं सूं कीलकम्॥
परमहंस-प्रसाद-सिद्ध्यर्थे जपे विनियोगः॥
हं सां अङ्गुष्ठाभ्यां नमः।
हं सीं तर्जनीभ्यां नमः।
हं सूं मध्यमाभ्यां नमः।
हं सैं अनामिकाभ्यां नमः।
हं सौं कनिष्ठिकाभ्यां नमः।
हं सः करतलकरपृष्ठाभ्यां नमः।
हं सां हृदयाय नमः।
हं सीं शिरसे स्वाहा।
हं सूं शिखायै वषट्।
हं सैं कवचाय हुम्।
हं सौं नेत्रत्रयाय वौषट्।
हं सः अस्त्राय फट्।
भूर्भुवस्सुवरोम् इति दिग्बन्धः॥
॥ध्यानम्॥
गमागमस्थं गमनादिशून्यं चिद्रूपदीपं तिमिरापहारम्।
पश्यामि ते सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम्॥
हंसहंसात् परमहंसः सोऽहं हंसः॥
हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि।
तन्नो॑ हंसः प्रचो॒दया᳚त्॥
(एवं त्रिः)
हंस हंसेति यो ब्रूयाद्धंसो नाम सदाशिवः।
एवं न्यासविधिं कृत्वा ततः सम्पुटमारभेत्॥
❀ ❀ ❀