पञ्चाङ्गमुखन्यासः रावणोक्ता पञ्चमुखप्रार्थना-सहितम्

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि।
तन्नो॑ रुद्रः प्रचो॒दया᳚त्॥

संवर्ताग्नि-तटित्प्रदीप्त-कनक-प्रस्पर्धि-तेजोरुणं
गम्भीरध्वनि-सामवेदजनकं ताम्राधरं सुन्दरम्।
अर्धेन्दुद्युति-लोल-पिङ्गल-जटाभार-प्रबोद्धोदकं
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः॥

ॐ नमो भगवते॑ रुद्रा॒य। पूर्वाङ्गमुखाय नमः। (EAST)

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः॥
कालाभ्रभ्रमराञ्जन-द्युतिनिभं व्यावृत्तपिङ्गेक्षणं
कर्णोद्भासित-भोगिमस्तकमणि-प्रोद्भिन्नदंष्ट्राङ्कुरम्।
सर्पप्रोतकपाल-शुक्तिशकल-व्याकीर्णताशेखरं
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्वनादोदयम्॥

ॐ नमो भगवते॑ रुद्रा॒य। दक्षिणाङ्गमुखाय नमः। (SOUTH)
स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑।
भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम्। भ॒वोद्भ॑वाय॒ नमः॑॥

प्रालेयाचलमिन्दुकुन्द-धवलं गोक्षीरफेनप्रभं
भस्माभ्यङ्गमनङ्गदेहदहन-ज्वालावली-लोचनम्।
विष्णु-ब्रह्म-मरुद्गणार्चितपदं ऋग्वेदनादोदयं
वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम्॥

ॐ नमो भगवते॑ रुद्रा॒य। पश्चिमाङ्गमुखाय नमः। (WEST)
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒
नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑॥

गौरं कुङ्कुमपङ्कितं सुतिलकं व्यापाण्डुमण्डस्थलं
भ्रूविक्षेप-कटाक्षवीक्षण-लसत्-संसक्तकर्णोत्पलम्।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं
वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम्॥

ॐ नमो भगवते॑ रुद्रा॒य। उत्तराङ्गमुखाय नमः। (NORTH)
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्॥

व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं
तस्मादुत्तर-तत्त्वमक्षरमिति ध्येयं सदा योगिभिः।
ओङ्कारादि समस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं
वन्दे पञ्चममीश्वरस्य वदनं खव्यापि तेजोमयम्॥

ॐ नमो भगवते॑ रुद्रा॒य। ऊर्ध्वाङ्गमुखाय नमः। (UPWARDS)