पञ्चाङ्गरुद्रन्यासः रावणोक्ता पञ्चाङ्गप्रार्थना-सहितम्

ओङ्कारमन्त्रसंयुक्तं नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं तस्मै नकाराय नमो नमः॥१॥

नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑। नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑॥ या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑। शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय॥
(EAST)
कं खं गं घं ङं। यरलवशषसहोम्। ॐ नमो भगवते॑ रुद्रा॒य। पूर्वाङ्गरुद्राय नमः।

महादेवं महात्मानं महापातकनाशनम्।
महापापहरं वन्दे मकाराय नमो नमः॥२॥

अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आग॑न्वैवस्व॒तो नो॒ अभ॑यं कृणोतु।
प॒र्णं वन॒स्पते॑रिवा॒भिनः॑ शीयताꣳ र॒यिः स च॑ तान्नः॒ शची॒पतिः॑।
(SOUTH)
चं छं जं झं ञं। यरलवशषसहोम्। ॐ नमो भगवते॑ रुद्रा॒य। दक्षिणाङ्गरुद्राय नमः।

शिवं शान्तं जगन्नाथं लोकानुग्रहकारणम्।
शिवमेकं परं वन्दे शिकाराय नमो नमः॥३॥

ॐ। निध॑नपतये॒ नमः। निध॑नपतान्तिकाय॒ नमः। ऊर्ध्वाय॒ नमः। ऊर्ध्वलिङ्गाय॒ नमः। हिरण्याय॒ नमः। हिरण्यलिङ्गाय॒ नमः। सुवर्णाय॒ नमः। सुवर्णलिङ्गाय॒ नमः। दिव्याय॒ नमः। दिव्यलिङ्गाय॒ नमः। भवाय॒ नमः। भवलिङ्गाय॒ नमः। शर्वाय॒ नमः। शर्वलिङ्गाय॒ नमः। शिवाय॒ नमः। शिवलिङ्गाय॒ नमः। ज्वलाय॒ नमः। ज्वललिङ्गाय॒ नमः। आत्माय॒ नमः। आत्मलिङ्गाय॒ नमः। परमाय॒ नमः। परमलिङ्गाय॒ नमः। एतथ्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्गꣴ॑ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम्।
(WEST)
टं ठं डं ढं णं। यरलवशषसहोम्। ॐ नमो भगवते॑ रुद्रा॒य। पश्चिमाङ्गरुद्राय नमः।

वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम्।
वामे शक्तिधरं वन्दे वकाराय नमो नमः॥४॥

यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥
(NORTH)
तं थं दं धं नं। यरलवशषसहोम्। ॐ नमो भगवते॑ रुद्रा॒य। उत्तराङ्गरुद्राय नमः।

यत्र कुत्र स्थितं देवं सर्वव्यापिनमीश्वरम्।
यल्लिङ्गं पूजयेन्नित्यं यकाराय नमो नमः॥५॥

प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः। तेनान्नेना᳚ऽऽप्याय॒स्व॥ नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि।
(UPWARDS)
पं फं बं भं मं। यरलवशषसहोम्। ॐ नमो भगवते॑ रुद्रा॒य। ऊर्ध्वाङ्गरुद्राय नमः।

❀ ❀ ❀