उत्तराङ्ग-पूजा
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त। अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑॥ ॐ ह्रीं न॒मः शि॒वाय॑। बला॑य॒ नमः॑। धूपमाघ्रापयामि॥१२॥
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑। तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज॥ ॐ ह्रीं न॒मः शि॒वाय॑। बल॑प्रमथनाय॒ नमः॑। अलङ्कारदीपं सन्दर्शयामि॥१३॥
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚। उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने॥ ॐ ह्रीं न॒मः शि॒वाय॑। सर्व॑भूतदमनाय॒ नमः॑। () निवेदयामि। मध्ये मध्ये अमृतपानीयं समर्पयामि। अमृतापिधानमसि।
हस्तप्रक्षालनं समर्पयामि। पादप्रक्षालनं समर्पयामि। निवेदनानन्तरम् आचमनीयं समर्पयामि॥१४॥
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑। अथो॒ य इ॑षु॒धिस्तवा॒ऽ॒ऽ॒रे अ॒स्मन्नि धे॑हि॒ तम्॥ ॐ ह्रीं न॒मः शि॒वाय॑। म॒नोन्म॑नाय॒ नमः॑। कर्पूरताम्बूलं समर्पयामि॥१५॥
नम॑स्ते अस्तु भगवन् विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ श्रीमन्महादे॒वाय॒ नमः॑॥ कर्पूरनीराजनं दर्शयामि॥१६॥
रक्षा
बृ॒हथ्साम॑ क्षत्र॒भृद्वृ॒द्ध वृ॑ष्णियं त्रि॒ष्टुभौजः॑ शुभि॒तमु॒ग्रवी॑रम्।
इन्द्र॒स्तोमे॑न पञ्चद॒शेन॒ मध्य॑मि॒दं वाते॑न॒ सग॑रेण रक्ष॥
रक्षां धारयामि॥
नमस्काराः
ॐ भवाय देवाय नमः।
ॐ शर्वाय देवाय नमः।
ॐ ईशानाय देवाय नमः।
ॐ पशुपतये देवाय नमः।
ॐ रुद्राय देवाय नमः।
ॐ उग्राय देवाय नमः।
ॐ भीमाय देवाय नमः।
ॐ महते देवाय नमः॥
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्॥ ॐ ह्रीं न॒मः शि॒वाय॑। मन्त्रपुष्पाञ्जलिं समर्पयामि।
शिवाय नमः। रुद्राय नमः। पशुपतये नमः। नीलकण्ठाय नमः। महेश्वराय नमः। हरिकेशाय नमः। विरूपाक्षाय नमः। पिनाकिने नमः। त्रिपुरान्तकाय नमः। शम्भवे नमः। शूलिने नमः। महादेवाय नमः। इति द्वादशनामभिर्द्वादशपुष्पाञ्जलीन् दत्त्वा॥
प्रदक्षिणनमस्कारान् कृत्वा॥
अर्घ्यप्रदानम्
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् शिवरात्रौ प्रथम-याम-पूजान्ते क्षीरार्घ्यप्रदानं करिष्ये॥
इत्यर्घ्यं दत्त्वा।
पूजानिवेदनम्
इति प्रार्थ्य॥
देवहृदयस्थं पादस्थं च पुष्पमादाय प्रणम्य देवेन दत्तमिति ध्यात्वा॥
इति मूर्ध्नि धृत्वा॥
श्री-शिवरात्रि-पुण्यकाले अस्मिन् मया क्रियमाण-श्री-सपरिवार-साम्बशिवस्य प्रथम-याम-पूजायां
यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं श्री-साम्बशिव-प्रीतिं
कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।
अनेन पूजनेन साम्बसदाशिवः प्रीयताम्।
ॐ तत्सद्ब्रह्मार्पणमस्तु।