षोडशोपचार-पूजा
अस्मिन् बिम्बे श्री-साम्ब-परमेश्वरं ध्यायामि।
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑। नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑॥ ॐ ह्रीं न॒मः शि॒वाय॑। स॒द्योजा॒तं प्र॑पद्यामि। आवाहयामि॥१॥
या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑। शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय॥ ॐ ह्रीं न॒मः शि॒वाय॑। स॒द्योजा॒ताय॒ वै नमो॒ नमः॑। आसनं समर्पयामि॥२॥
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी। तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि॥ ॐ ह्रीं न॒मः शि॒वाय॑। भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम्। पादयोः पाद्यं समर्पयामि॥३॥
यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे। शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिꣳ॑सीः॒ पुरु॑षं॒ जग॑त्॥ ॐ ह्रीं न॒मः शि॒वाय॑। भ॒वोद्भ॑वाय॒ नमः॑॥ अर्घ्यं समर्पयामि॥४॥
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑वदामसि। यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त्॥ ॐ ह्रीं न॒मः शि॒वाय॑। वा॒म॒दे॒वाय॒ नमः॑। आचमनीयं समर्पयामि॥५॥
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक्। अहीꣴ॑श्च॒ सर्वा᳚ञ्ज॒म्भय॒-न्थ्सर्वा᳚श्च यातुधा॒न्यः॑॥ ॐ ह्रीं न॒मः शि॒वाय॑। ज्ये॒ष्ठाय॒ नमः॑। मधुपर्कं समर्पयामि॥६॥
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑। ये चे॒माꣳ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ꣳ॒ हेड॑ ईमहे॥ ॐ ह्रीं न॒मः शि॒वाय॑। श्रे॒ष्ठाय॒ नमः॑। स्नानं समर्पयामि।
रुद्रम्। चमकम्। पुरुषसूक्तम्॥
स्नानानन्तरम् आचमनीयं समर्पयामि॥७॥
साक्षतजलेन तर्पणं कार्यम्॥
ॐ भवं देवं तर्पयामि। ॐ शर्वं देवं तर्पयामि। ॐ ईशानं देवं तर्पयामि। ॐ पशुपतिं देवं तर्पयामि। ॐ रुद्रं देवं तर्पयामि। ॐ उग्रं देवं तर्पयामि। ॐ भीमं देवं तर्पयामि। ॐ महान्तं देवं तर्पयामि॥
ॐ भवस्य देवस्य पत्नीं तर्पयामि। ॐ शर्वस्य देवस्य पत्नीं तर्पयामि। ॐ ईशानस्य देवस्य पत्नीं तर्पयामि। ॐ पशुपतेर्देवस्य पत्नीं तर्पयामि। ॐ रुद्रस्य देवस्य पत्नीं तर्पयामि। ॐ उग्रस्य देवस्य पत्नीं तर्पयामि। ॐ भीमस्य देवस्य पत्नीं तर्पयामि। ॐ महतो देवस्य पत्नीं तर्पयामि॥
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः। उ॒तैनं॑ गो॒पा अ॑दृश॒न्न॒दृ॑शन्नुदहा॒र्यः॑। उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः॥ ॐ ह्रीं न॒मः शि॒वाय॑। रु॒द्राय॒ नमः॑। वस्त्रोत्तरीयं समर्पयामि॥८॥
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚। अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑॥ ॐ ह्रीं न॒मः शि॒वाय॑। काला॑य॒ नमः॑। यज्ञोपवीताभरणानि समर्पयामि॥९॥
प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम्। याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप॥ ॐ ह्रीं न॒मः शि॒वाय॑। कल॑विकरणाय॒ नमः॑। दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि अक्षतान् समर्पयामि॥१०॥
अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे। नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव॥ ॐ ह्रीं न॒मः शि॒वाय॑। बल॑विकरणाय॒ नमः॑। पुष्पैः पूजयामि॥११॥
ॐ भवाय देवाय नमः। ॐ शर्वाय देवाय नमः।
ॐ ईशानाय देवाय नमः। ॐ पशुपतये देवाय नमः।
ॐ रुद्राय देवाय नमः। ॐ उग्राय देवाय नमः।
ॐ भीमाय देवाय नमः। ॐ महते देवाय नमः॥
ॐ भवस्य देवस्य पत्न्यै नमः। ॐ शर्वस्य देवस्य पत्न्यै नमः।
ॐ ईशानस्य देवस्य पत्न्यै नमः। ॐ पशुपतेर्देवस्य पत्न्यै नमः।
ॐ रुद्रस्य देवस्य पत्न्यै नमः। ॐ उग्रस्य देवस्य पत्न्यै नमः।
ॐ भीमस्य देवस्य पत्न्यै नमः। ॐ महतो देवस्य पत्न्यै नमः॥