श्री-शङ्कर-भगवत्पाद-पूजा
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥
प्रार्थनाः समर्पयामि।
❀
प्रधान-पूजा — श्री-शङ्कर-भगवत्पाद-पूजा
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
प्राणान् आयम्य।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे उत्तरायणे वसन्त-ऋतौ (मेष/वृषभ)-वैशाख-मासे शुक्लपक्षे पञ्चम्यां शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां (आर्द्रा/?)-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
पञ्चम्यां शुभतिथौ
उत्तराषाढा-नक्षत्रे धनूराशौ आविर्भूतानां श्रीमत्-शङ्कर-विजयेन्द्र-सरस्वती-श्रीपादानां, शतभिषङ्-नक्षत्रे कुम्भ-राशौ आविर्भूतानां श्रीमत्-सत्य-चन्द्रशेखरेन्द्र-सरस्वती-श्रीपादानाम् अस्माकं जगद्गुरूणां दीर्घ-आयुः-आरोग्य-सिद्ध्यर्थं,
तैः सङ्कल्पितानां सर्वेषां लोक-क्षेमार्थ-कार्याणां वेद-शास्त्रादि-सम्प्रदाय-पोषण-कार्याणां विविध-क्षेत्र-यात्रायाश्च अविघ्नतया सम्पूर्त्यर्थं
कामकोटि-गुरु-परम्परायां कामकोटि-भक्त-जनानाम् अचञ्चल-भावशुद्ध-दृढतर-भक्ति-सिद्ध्यर्थं, परस्पर-ऐकमत्य-सिद्ध्यर्थं
भारतीयानां महाजनानां विघ्न-निवृत्ति-पूर्वक-सत्कार्य-प्रवृत्ति-द्वारा ऐहिक-आमुष्मिक-अभ्युदय-प्राप्त्यर्थम्, असत्कार्येभ्यः निवृत्त्यर्थं
भारतीयानां सन्ततेः सनातन-सम्प्रदाये श्रद्धा-भक्त्योः अभिवृद्ध्यर्थं
सर्वेषां द्विपदां चतुष्पदाम् अन्येषां च प्राणि-वर्गाणाम् आरोग्य-युक्त-सुख-जीवन-अवाप्त्यर्थम्
अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम्
धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं विवेक-वैराग्य-सिद्ध्यर्थम्
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
श्रीमत्-शङ्करभगवत्पाद-प्रीत्यर्थं श्री-शङ्कर-जयन्ती-महोत्सवे यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्रीमत्-शङ्कर-भगवत्पादाचार्य-पूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥
घण्टा-पूजा
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु गुरुपूजार्थं दुरितक्षयकारकाः॥
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
षोडशोपचार-पूजा
प्रधान-पूजा
श्रुति-स्मृति-पुराणानाम् आलयं करुणालयम्।
नमामि भगवत्पाद-शङ्करं लोक-शङ्करम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्यान् ध्यायामि।
अज्ञानान्तर्गहन-पतितान् आत्म-विद्योपदेशैः
त्रातुं लोकान् भव-दव-शिखा-ताप-पापच्यमानान्।
मुक्त्वा मौनं वट-विटपिनो मूलतो निष्पतन्ती
शम्भोर्मूर्तिश्चरति भुवने शङ्कराचार्य-रूपा॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑। नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑॥
ॐ ह्रीं न॒मः शि॒वाय॑। स॒द्योजा॒तं प्र॑पद्यामि।
यमाश्रिता गिरां देवी नन्दयत्यात्म-संश्रितान्।
तमाश्रये श्रिया जुष्टं शङ्करं करुणा-निधिम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्यान् आवाहयामि।
या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑। शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय॥
ॐ ह्रीं न॒मः शि॒वाय॑। स॒द्योजा॒ताय॒ वै नमो॒ नमः॑।
श्री-गुरुं भगवत्पादं शरण्यं भक्त-वत्सलम्।
शिवं शिव-करं शुद्धम् अप्रमेयं नमाम्यहम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, आसनं समर्पयामि।
नित्यं शुद्धं निराकारं निराभासं निरञ्जनम्।
नित्य-बोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, स्वागतं व्याहरामि। पूर्ण-कुम्भं समर्पयामि।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी। तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि॥
ॐ ह्रीं न॒मः शि॒वाय॑। भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम्।
सर्व-तन्त्र-स्व-तन्त्राय सदात्माद्वैत-रूपिणे।
श्रीमते शङ्करार्याय वेदान्त-गुरवे नमः॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, पाद्यं समर्पयामि।
यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे। शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिꣳ॑सीः॒ पुरु॑षं॒ जग॑त्॥
ॐ ह्रीं न॒मः शि॒वाय॑। भ॒वोद्भ॑वाय॒ नमः॑॥
वेदान्तार्थाभिधानेन सर्वानुग्रह-कारिणम्।
यति-रूप-धरं वन्दे शङ्करं लोक-शङ्करम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, अर्घ्यं समर्पयामि।
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑वदामसि। यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त्॥
ॐ ह्रीं न॒मः शि॒वाय॑। वा॒म॒दे॒वाय॒ नमः॑।
संसाराब्धि-निषण्णाज्ञ-निकर-प्रोद्दिधीर्षया।
कृत-संहननं वन्दे भगवत्पाद-शङ्करम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, आचमनीयं समर्पयामि।
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, मधुपर्कं समर्पयामि।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक्। अहीꣴ॑श्च॒ सर्वा᳚ञ्ज॒म्भय॒-न्थ्सर्वा᳚श्च यातुधा॒न्यः॑॥
ॐ ह्रीं न॒मः शि॒वाय॑। ज्ये॒ष्ठाय॒ नमः॑।
यत्-पाद-पङ्कज-ध्यानात् तोटकाद्या यतीश्वराः।
बभूवुस्तादृशं वन्दे शङ्करं षण्मतेश्वरम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, स्नपयामि। (श्रीरुद्र-चमक-पुरुषसूक्त-उपनिषद्भिः स्नापयित्वा) स्नानानन्तरम् आचमनीयं समर्पयामि।
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑। ये चे॒माꣳ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ꣳ॒ हेड॑ ईमहे॥
ॐ ह्रीं न॒मः शि॒वाय॑। श्रे॒ष्ठाय॒ नमः॑।
नमः श्री-शङ्कराचार्य-गुरवे शङ्करात्मने।
शरीरिणां शङ्कराय शङ्कर-ज्ञान-हेतवे॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, वस्त्रं समर्पयामि।
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः। उ॒तैनं॑ गो॒पा अ॑दृश॒न्न॒दृ॑शन्नुदहा॒र्यः॑। उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः॥
ॐ ह्रीं न॒मः शि॒वाय॑। रु॒द्राय॒ नमः॑।
हर-लीलावताराय शङ्कराय वरौजसे।
कैवल्य-कलना-कल्प-तरवे गुरवे नमः॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, यज्ञोपवीतं समर्पयामि।
प्रचार्यं सर्व-लोकेषु सञ्चार्यं हृदयाम्बुजे।
विचार्यं सर्व-वेदान्तैः आचार्यं शङ्करं भजे॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, भस्मोद्धूलनं रुद्राक्ष-मालिकां च समर्पयामि।
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚। अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑॥
ॐ ह्रीं न॒मः शि॒वाय॑। काला॑य॒ नमः॑।
याऽनुभूतिः स्वयं-ज्योतिः आदित्येशान-विग्रहा।
शङ्कराख्या च तं नौमि सुरेश्वर-गुरुं परम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, दिव्य-परिमल-गन्धान् धारयामि।
गन्धस्योपरि हरिद्रा-कुङ्कुमं समर्पयामि।
आनन्द-घनमद्वन्द्वं निर्विकारं निरञ्जनम्।
भजेऽहं भगवत्पादं भजतामभय-प्रदम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, दण्डं समर्पयामि।
प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम्। याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप॥
ॐ ह्रीं न॒मः शि॒वाय॑। कल॑विकरणाय॒ नमः॑।
तं वन्दे शङ्कराचार्यं लोक-त्रितय-शङ्करम्।
सत्-तर्क-नखरोद्गीर्ण-वावदूक-मतङ्गजम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, अक्षतान् समर्पयामि।
अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे। नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव॥
ॐ ह्रीं न॒मः शि॒वाय॑। बल॑विकरणाय॒ नमः॑।
नमामि शङ्कराचार्य-गुरु-पाद-सरोरुहम्।
यस्य प्रसादान्मूढोऽपि सर्व-ज्ञो भवति स्वयम्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, पुष्प-मालां समर्पयामि। पुष्पैः पूजयामि।
श्री-शङ्कर-चतुर्विंशति-नामावल्या अङ्ग-पूजा
| १. | अष्ट-वर्ष-चतुर्वेदिने नमः | पादौ पूजयामि |
| २. | द्वादशाखिल-शास्त्र-विदे नमः | गुल्फौ पूजयामि |
| ३. | सर्व-लोक-ख्यात-शीलाय नमः | जङ्घे पूजयामि |
| ४. | प्रस्थान-त्रय-भाष्य-कृते नमः | जानुनी पूजयामि |
| ५. | पद्मपादादि-सच्छिष्याय नमः | ऊरू पूजयामि |
| ६. | पाषण्ड-ध्वान्त-भास्कराय नमः | कटिं पूजयामि |
| ७. | अद्वैत-स्थापनाचार्याय नमः | गुह्यं पूजयामि |
| ८. | द्वैतादि-द्विप-केसरिणे नमः | नाभिं पूजयामि |
| ९. | व्यास-नन्दित-सिद्धान्ताय नमः | उदरं पूजयामि |
| १०. | वाद-निर्जित-मण्डनाय नमः | वक्षःस्थलं पूजयामि |
| ११. | षण्मत-स्थापनाचार्याय नमः | हृदयं पूजयामि |
| १२. | षड्-गुणैश्वर्य-मण्डिताय नमः | कण्ठं पूजयामि |
| १३. | सर्व-लोकानुग्रह-कृते नमः | स्कन्धौ पूजयामि |
| १४. | सर्व-ज्ञ-त्वादि-भूषणाय नमः | हस्तौ पूजयामि |
| १५. | श्रुति-स्मृति-पुराणार्थाय नमः | वक्त्रं पूजयामि |
| १६. | श्रुत्येक-शरण-प्रियाय नमः | चिबुकं पूजयामि |
| १७. | सकृत्-स्मरण-सन्तुष्टाय नमः | ओष्ठौ पूजयामि |
| १८. | शरणागत-वत्सलाय नमः | कपोलौ पूजयामि |
| १९. | निर्व्याज-करुणा-मूर्तये नमः | नासिकां पूजयामि |
| २०. | निरहम्भाव-गोचराय नमः | नेत्रे पूजयामि |
| २१. | संशान्त-भक्त-हृत्-तापाय नमः | कर्णौ पूजयामि |
| २२. | सर्व-ज्ञान-फल-प्रदाय नमः | ललाटं पूजयामि |
| २३. | सदसद्-वस्तु-विमुखाय नमः | शिरः पूजयामि |
| २४. | सत्ता-सामान्य-विग्रहाय नमः | सर्वाण्यङ्गानि पूजयामि |
आचार्यपरम्परानामावलिः
॥पूर्वाचार्याः॥
श्रीमते दक्षिणामूर्तये नमः
श्रीमते विष्णवे नमः
श्रीमते ब्रह्मणे नमः
श्रीमते वसिष्ठाय नमः
श्रीमते शक्तये नमः
श्रीमते पराशराय नमः
श्रीमते व्यासाय नमः
श्रीमते शुकाय नमः
श्रीमते गौडपादाय नमः
श्रीमते गोविन्द-भगवत्पादाय नमः
श्रीमते शङ्कर-भगवत्पादाय नमः
॥भगवत्पादशिष्याः॥
श्रीमते पद्मपादाचार्याय नमः
श्रीमते सुरेश्वराचार्याय नमः
श्रीमते हस्तामलकाचार्याय नमः
श्रीमते तोटकाचार्याय नमः
श्रीमते पृथिवीधवाचार्याय नमः
श्रीमते सर्वज्ञात्म-इन्द्रसरस्वत्यै नमः
अन्येभ्यः भगवत्पाद-शिष्येभ्यो नमः
॥कामकोटि-आचार्याः॥
श्रीमते शङ्कर-भगवत्पादाय नमः
श्रीमते सुरेश्वराचार्याय नमः
श्रीमते सर्वज्ञात्म-इन्द्रसरस्वत्यै नमः
श्रीमते सत्यबोध-इन्द्रसरस्वत्यै नमः
श्रीमते ज्ञानानन्द-इन्द्रसरस्वत्यै नमः
श्रीमते शुद्धानन्द-इन्द्रसरस्वत्यै नमः
श्रीमते आनन्दज्ञान-इन्द्रसरस्वत्यै नमः
श्रीमते कैवल्यानन्द-इन्द्रसरस्वत्यै नमः
श्रीमते कृपाशङ्कर-इन्द्रसरस्वत्यै नमः
श्रीमते विश्वरूप-सुरेश्वर-इन्द्रसरस्वत्यै नमः
श्रीमते शिवानन्द-चिद्घन-इन्द्रसरस्वत्यै नमः
श्रीमते सार्वभौम-चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते काष्ठमौन-सच्चिद्घन-इन्द्रसरस्वत्यै नमः
श्रीमते भैरवजिद्-विद्याघन-इन्द्रसरस्वत्यै नमः
श्रीमते गीष्पति-गङ्गाधर-इन्द्रसरस्वत्यै नमः
श्रीमते उज्ज्वलशङ्कर-इन्द्रसरस्वत्यै नमः
श्रीमते गौड-सदाशिव-इन्द्रसरस्वत्यै नमः
श्रीमते सुर-इन्द्रसरस्वत्यै नमः
श्रीमते मार्तण्ड-विद्याघन-इन्द्रसरस्वत्यै नमः
श्रीमते मूकशङ्कर-इन्द्रसरस्वत्यै नमः
श्रीमते जाह्नवी-चन्द्रचूड-इन्द्रसरस्वत्यै नमः
श्रीमते परिपूर्णबोध-इन्द्रसरस्वत्यै नमः
श्रीमते सच्चित्सुख-इन्द्रसरस्वत्यै नमः
श्रीमते कोङ्कण-चित्सुख-इन्द्रसरस्वत्यै नमः
श्रीमते सच्चिदानन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते प्रज्ञाघन-इन्द्रसरस्वत्यै नमः
श्रीमते चिद्विलास-इन्द्रसरस्वत्यै नमः
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते पूर्णबोध-इन्द्रसरस्वत्यै नमः
श्रीमते भक्तियोग-बोध-इन्द्रसरस्वत्यै नमः
श्रीमते शीलनिधि-ब्रह्मानन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते चिदानन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते भाषापरमेष्ठि-सच्चिदानन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते बहुरूप-चित्सुख-इन्द्रसरस्वत्यै नमः
श्रीमते चित्सुखानन्द-इन्द्रसरस्वत्यै नमः
श्रीमते विद्याघन-इन्द्रसरस्वत्यै नमः
श्रीमते धीरशङ्कर-इन्द्रसरस्वत्यै नमः
श्रीमते सच्चिद्विलास-इन्द्रसरस्वत्यै नमः
श्रीमते शोभन-महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते गङ्गाधर-इन्द्रसरस्वत्यै नमः
श्रीमते ब्रह्मानन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते आनन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते पूर्णबोध-इन्द्रसरस्वत्यै नमः
श्रीमते परमशिव-इन्द्रसरस्वत्यै नमः
श्रीमते सान्द्रानन्द-बोध-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते अद्वैतानन्दबोध-इन्द्रसरस्वत्यै नमः
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रचूड-इन्द्रसरस्वत्यै नमः
श्रीमते विद्यातीर्थ-इन्द्रसरस्वत्यै नमः
श्रीमते शङ्करानन्द-इन्द्रसरस्वत्यै नमः
श्रीमते अद्वैतब्रह्मानन्दाय नमः
श्रीमते विद्यारण्याय नमः
अन्येभ्यः विद्यातीर्थ-शङ्करानन्द-शिष्येभ्यो नमः
श्रीमते पूर्णानन्द-सदाशिव-इन्द्रसरस्वत्यै नमः
श्रीमते व्यासाचल-महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रचूड-इन्द्रसरस्वत्यै नमः
श्रीमते सदाशिवबोध-इन्द्रसरस्वत्यै नमः
श्रीमते परमशिव-इन्द्रसरस्वत्यै नमः
श्रीमते सदाशिवब्रह्म-इन्द्रसरस्वत्यै नमः
श्रीमते विश्वाधिक-आत्मबोध-इन्द्रसरस्वत्यै नमः
श्रीमते भगवन्नाम-बोध-इन्द्रसरस्वत्यै नमः
श्रीमते अद्वैतात्मप्रकाश-इन्द्रसरस्वत्यै नमः
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते शिवगीतिमाला-चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते सुदर्शन-महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते जयेन्द्रसरस्वत्यै नमः
श्रीमते शङ्करविजयेन्द्रसरस्वत्यै नमः
श्रीमते सत्य-चन्द्रशेखरेन्द्रसरस्वत्यै नमः
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, नानाविध-परिमल-पत्र-पुष्पाणि समर्पयामि।
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त। अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑॥
ॐ ह्रीं न॒मः शि॒वाय॑। बला॑य॒ नमः॑।
संसार-सागरं घोरम् अनन्त-क्लेश-भाजनम्।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, धूपम् आघ्रापयामि।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑। तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज॥
ॐ ह्रीं न॒मः शि॒वाय॑। बल॑प्रमथनाय॒ नमः॑।
नमस्तस्मै भगवते शङ्कराचार्य-रूपिणे।
येन वेदान्त-विद्येयम् उद्धृता वेद-सागरात्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, दीपं दर्शयामि।
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚। उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने॥
ॐ ह्रीं न॒मः शि॒वाय॑। सर्व॑भूतदमनाय॒ नमः॑।
भगवत्पाद-पादाब्ज-पांसवः सन्तु सन्ततम्।
अपारासार-संसार-सागरोत्तार-सेतवः॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, अमृतं महानैवेद्यं पानीयं च निवेदयामि। मध्ये मध्ये अमृतपानीयं समर्पयामि। अमृतापिधानमसि।
हस्तप्रक्षालनं समर्पयामि। पादप्रक्षालनं समर्पयामि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑। अथो॒ य इ॑षु॒धिस्तवा॒ऽ॒ऽ॒रे अ॒स्मन्नि धे॑हि॒ तम्॥
ॐ ह्रीं न॒मः शि॒वाय॑। म॒नोन्म॑नाय॒ नमः॑।
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, ताम्बूलं समर्पयामि।
नम॑स्ते अस्तु भगवन् विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ श्रीमन्महादे॒वाय॒ नमः॑॥
अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया।
चक्षुरुन्मीलितं येन तस्मै श्री-गुरवे नमः॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, नीराजनं दर्शयामि। नीराजनानन्तरम् आचमनीयं समर्पयामि।
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, समस्तोपचारान् समर्पयामि।
यानि कानि च पापानि जन्मान्तर-कृतानि च।
तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे॥
प्रदक्षिणं कृत्वा।
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, प्रदक्षिणं करोमि।
आचार्यान् भगवत्पादान् षण्मत-स्थापकान् हितान्।
परहंसान् नुमोऽद्वैत-स्थापकान् जगतो गुरून्॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, नमस्कारान् समर्पयामि।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुरेव परं ब्रह्म तस्मै श्री-गुरवे नमः॥
अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम्।
तत्-पदं दर्शितं येन तस्मै श्री-गुरवे नमः॥
अनेक-जन्म-सम्प्राप्त-कर्म-बन्ध-विदाहिने।
आत्म-ज्ञान-प्रदानेन तस्मै श्री-गुरवे नमः॥
विशुद्ध-विज्ञान-घनं शुचिं हार्द-तमोनुदम्।
दया-सिन्धुं लोक-बन्धुं शङ्करं नौमि सद्-गुरुम्॥
देह-बुद्ध्या तु दासोऽस्मि जीव-बुद्ध्या त्वदंशकः।
आत्म-बुद्ध्या त्वमेवाहमिति मे निश्चिता मतिः॥
एकः शाखी शङ्कराख्यश्चतुर्धा
स्थानं भेजे ताप-शान्त्यै जनानाम्।
शिष्य-स्कन्धैः शिष्य-शाखैर्महद्भिः
ज्ञानं पुष्पं यत्र मोक्षः प्रसूतिः॥
गामाक्रम्य पदेऽधिकाञ्चि निबिडं स्कन्धैश्चतुर्भिस्तथा
व्यावृण्वन् भुवनान्तरं परिहरंस्तापं स-मोह-ज्वरम्।
यः शाखी द्विज-संस्तुतः फलति तत् स्वाद्यं रसाख्यं फलं
तस्मै शङ्कर-पादपाय महते तन्मस्त्रि-सन्ध्यं नमः॥
श्रीमत्-शङ्कर-भगवत्पादाचार्येभ्यो नमः, स्तोत्रं समर्पयामि।
प्रार्थनाः समर्पयामि।
गुरु-पादोदक-प्राशनम्—
अविद्या-मूल-नाशाय जन्म-कर्म-निवृत्तये।
ज्ञान-वैराग्य-सिद्ध्यर्थं गुरु-पादोदकं शुभम्॥
❀ ❀ ❀
श्री-शङ्कर-भगवत्पाद-प्रशस्ति-सङ्ग्रहः
देव-वन्दनम्
सदा बाल-रूपाऽपि विघ्नाद्रि-हन्त्री महा-दन्ति-वक्त्राऽपि पञ्चास्य-मान्या।
विधीन्द्रादि-मृग्या गणेशाभिधा मे विधत्तां श्रियं काऽपि कल्याण-मूर्तिः॥१॥
—गणेशस्तुतिः - सुब्रह्मण्यभुजङ्गं शङ्करभगवत्पादकृतम् - 1
पुस्तक-जप-वट-हस्ते वरदाभय-चिह्न-चारु-बाहु-लते।
कर्पूरामल-देहे वागीश्वरि शोधयाशु मम चेतः॥२॥
—प्रपञ्चसारः शङ्करभगवत्पादकृतः 8/70
गुरुपरम्परावन्दनम्
नारायणः पद्म-भवो वसिष्ठः शक्तिश्च तत्-पुत्र-पराशरश्च।
व्यासः शुको गौड-पदो यतीन्द्रो गोविन्द-योगीति गुरु-क्रमोऽयम्॥३॥
आद्यः श्री-शङ्कराचार्यो भगवत्पाद-संज्ञकः।
अवतीर्णः शम्भुरिति प्रथितः कालटी-पदे॥४॥
सुरेश्वरः पद्मपदो हस्तामलक-तोटकौ।
सर्वज्ञश्चेति तच्छिष्याः प्रथिता गुरु-सन्निभाः॥५॥
शङ्करः कामकोट्याख्यं पीठं काञ्च्यां व्यराजयत्।
प्रत्यस्थापयदद्वैतं पीठे सर्वज्ञके स्थितः॥६॥
आत्मानमनु सर्वज्ञं सुरेश्वर-मते स्थितम्।
गोप्तारं कामकोट्याख्य-पीठस्य व्यदधाद् गुरुः॥७॥
तदाद्येन्द्र-सरस्वत्याख्याऽविच्छिन्ना परम्परा।
पाति नो गुरु-वर्याणां शारदा-मठ-सुस्थिता॥८॥
श्री-शङ्करार्यमपरं श्री-शिवा-शिव-रूपिणम्।
पूज्य-श्री-कामकोट्याख्य-पीठ-गं तं दया-निधिम्॥९॥
अपार-करुणा-सिन्धुं ज्ञान-दं शान्त-रूपिणम्।
श्री-चन्द्रशेखर-गुरुं प्रणमामि मुदाऽन्वहम्॥१०॥
देवे देहे च देशे च भक्त्यारोग्य-सुख-प्रदम्।
बुध-पामर-सेव्यं तं श्री-जयेन्द्रं नमाम्यहम्॥११॥
नमामः शङ्करान्वाख्य-विजयेन्द्र-सरस्वतीम्।
श्री-गुरुं शिष्ट-मार्गानुनेतारं सन्मति-प्रदम्॥१२॥
गुरु-पादुका-पञ्चकम्
—गोविन्द-भगवत्-पूज्यपाद-सन्निधौ शङ्कर-भगवत्पाद-कृतम्
जगज्जनि-स्थेम-लयालयाभ्याम् अगण्य-पुण्योदय-भाविताभ्याम्।
त्रयी-शिरोजात-निवेदिताभ्यां नमो नमः श्री-गुरु-पादुकाभ्याम्॥१३॥
विपत्-तमः-स्तोम-विकर्तनाभ्यां विशिष्ट-सम्पत्ति-विवर्धनाभ्याम्।
नमज्जनाशेष-विशेष-दाभ्यां नमो नमः श्री-गुरु-पादुकाभ्याम्॥१४॥
समस्त-दुस्तर्क-कलङ्क-पङ्कापनोदन-प्रौढ-जलाशयाभ्याम्।
निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्री-गुरु-पादुकाभ्याम्॥१५॥
ताप-त्रयादित्य-करार्दितानां छाया-मयीभ्यामति-शीतलाभ्याम्।
आपन्न-संरक्षण-दीक्षिताभ्यां नमो नमः श्री-गुरु-पादुकाभ्याम्॥१६॥
यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः।
ताभ्यामजेशाच्युत-भाविताभ्यां नमो नमः श्री-गुरु-पादुकाभ्याम्॥१७॥
ये पादुका-पञ्चकमादरेण पठन्ति नित्यं प्रयताः प्रभाते।
तेषां गृहे नित्य-निवास-शीला श्री-देशिकेन्द्रस्य कटाक्ष-लक्ष्मीः॥१८॥
भगवत्पादकृतं गुरु-वन्दनम्
प्रज्ञा-वैशाख-वेध-क्षुभित-जल-निधेर्वेद-नाम्नोऽन्तर-स्थं
भूतान्यालोक्य मग्नान्यविरत-जनन-ग्राह-घोरे समुद्रे।
कारुण्यादुद्दधारामृतमिदममरैर्दुर्लभं भूत-हेतोः
यस्तं पूज्याभिपूज्यं परम-गुरुममुं पाद-पातैर्नतोऽस्मि॥१९॥
यत्-प्रज्ञालोक-भासा प्रतिहतिमगमत् स्वान्त-मोहान्धकारो
मज्जोन्मज्जं च घोरे ह्यसकृदुपजनोदन्वति त्रासने मे।
यत्-पादावाश्रितानां श्रुति-शम-विनय-प्राप्तिरग्र्या ह्यमोघा
तत्-पादौ पावनीयौ भव-भय-विनुदौ सर्व-भावैर्नमस्ये॥२०॥
—माण्डूक्य-कारिका-भाष्यम्
यैरिमे गुरुभिः पूर्वं पद-वाक्य-प्रमाणतः।
व्याख्याताः सर्व-वेदान्ताः तान् नित्यं प्रणतोऽस्म्यहम्॥२१॥
—तैत्तिरीयोपनिषद्भाष्यम्
विमथ्य वेदोदधितः समुद्धृतं सुरैर्महाब्धेस्तु महात्मभिर्यथा।
तथाऽमृतं ज्ञानमिदं हि यैः पुरा नमो गुरुभ्यः परमीक्षितं च यैः॥२२॥
—उपदेशसाहस्र्याम्
सर्व-वेदान्त-सिद्धान्त-गोचरं तमगोचरम्।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम्॥२३॥
अखण्डानन्द-सम्बोधो वन्दनाद् यस्य जायते।
गोविन्दं तमहं वन्दे चिदानन्द-तनुं गुरुम्॥२४॥
नमो नमस्ते गुरवे महात्मने
विमुक्त-सङ्गाय सदुत्तमाय।
नित्याद्वयानन्द-रस-स्वरूपिणे
भूम्ने सदाऽपार-दयाम्बु-धाम्ने॥२५॥
स्वाराज्य-साम्राज्य-विभूतिरेषा
भवत्-कृपा-श्री-महिम-प्रसादात्।
प्राप्ता मया श्री-गुरवे महात्मने
नमो नमस्तेऽस्तु पुनर्नमोऽस्तु॥२६॥
स्वामिन् नमस्ते नत-लोक-बन्धो
कारुण्य-सिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीय-कटाक्ष-दृष्ट्या
ऋज्व्याऽतिकारुण्य-सुधाभिवृष्ट्या॥२७॥
—विवेकचूडामणिः
वन्दे गुरूणां चरणारविन्दे
सन्दर्शित-स्वात्म-सुखावबोधे।
जनस्य ये जाङ्गलिकायमाने
संसार-हालाहल-मोह-शान्त्यै॥२८॥
—योगतारावलिः 1
श्री-गुरु-चरण-द्वन्द्वं वन्देऽहं मथित-दुस्सह-द्वन्द्वम्।
भ्रान्ति-ग्रहोपशान्तिं पांसु-मयं यस्य भसितमातनुते॥२९॥
—स्वात्मनिरूपणम् 1/1
वेदान्ताचार्यवन्दना
आदौ शिवस्ततो विष्णुः ततो ब्रह्मा ततः परम्।
वसिष्ठश्च ततः शक्तिः ततः षष्ठः पराशरः॥३०॥
ततो व्यासः शुकः पश्चाद् गौडपादाभिधस्ततः।
गोविन्दार्य-गुरुस्तस्माच्छङ्कराचार्य-संज्ञकः॥३१॥
पद्मपादः सुरेशश्च हस्तामलक-तोटकौ।
वेदान्त-शिक्षा-गुरव आचार्याः पान्तु मां सदा॥३२॥
—हुल्स्च्-कोशतः
सदाशिव-समारम्भां शङ्कराचार्य-मध्यमाम्।
अस्मदाचार्य-पर्यन्तां वन्दे गुरु-परम्पराम्॥३३॥
नारायणं पद्म-भुवं वसिष्ठं
शक्तिञ्च तत्-पुत्र-पराशरं च।
व्यासं शुकं गौड-पदं महान्तं
गोविन्द-योगीन्द्रमथास्य शिष्यम्॥३४॥
श्री-शङ्कराचार्यमथास्य पद्म-
पादं च हस्तामलकं च शिष्यम्।
तं तोटकं वार्तिक-कारमन्यान्
अस्मद्-गुरून् सन्ततमानतोऽस्मि॥३५॥
—साम्प्रदायिकश्लोकाः
मार्कण्डेय-संहितायां भगवत्पाद-प्रशंसा
श्री-शङ्कर-गुरु-चरण-स्मरणम् अभीष्टार्थ-करणमखिलानाम्।
सम्भवतु सर्वदा मम सम-रस-सुख-भाग्य-दान-निपुणतरम्॥३६॥
श्री-शङ्कराचार्य-पदारविन्द-सेवा हि सर्वेप्सित-कल्प-वल्ली।
लभ्येत जन्मान्तर-पुण्य-योगात् सुजन्मभिः शुद्ध-मनोभिषङ्गैः॥३७॥
शङ्कर-गुरु-चरणाम्बुजम् अखिल-जगन्मङ्गलं मनस्यनिशम्।
कलयामि कलि-मलापहम् अमित-सुखाधायकं बुधेन्द्राणाम्॥३८॥
लोकानुग्रह-तत्परः पर-शिवः सम्प्रार्थितो ब्रह्मणा
चार्वाकादि-मत-प्रभेद-निपुणां बुद्धिं सदा धारयन्।
कालट्याख्य-पुरोत्तमे शिव-गुरुर्विद्याधिनाथश्च यः
तत्-पत्न्यां शिव-तारके समुदितः श्री-शङ्कराख्यां वहन्॥३९॥
महात्रिपुरसुन्दरी-रमण-चन्द्रमौलीश्वर-
प्रसाद-परिलब्ध-वाङ्मय-विभूषिताशान्तरम्।
निरन्तरमुपास्महे निरुपमात्म-विद्या-नदी-
नदी-नद-पति-प्रभं मनसि शङ्करार्यं गुरुम्॥४०॥
भगवत्पाद-शिष्यैः कृताः गुरु-स्तुतयः
येषां धी-सूर्य-दीप्त्या प्रतिहतिमगमन्नाशमेकान्ततो मे
ध्वान्तं स्वान्तस्य हेतुर्जनन-मरण-सन्तान-दोलाधिरूढेः।
येषां पादौ प्रपन्नाः श्रुति-शम-विनयैर्भूषिताः शिष्य-सङ्घाः
सद्यो मुक्तौ स्थितास्तान् यति-वर-महितान् यावदायुर्नमामि॥४१॥
—श्रुतिसारसमुद्धरणं तोटकाचार्यकृतम् 188
वेदान्तोदर-वर्ति भास्वदमलं ध्वान्त-च्छिदस्मद्-धियः
दिव्यं ज्ञानमतीन्द्रियेऽपि विषये व्याहन्यते न क्वचित्।
यो नो न्याय-शलाकयैव निखिलं संसार-बीजं तमः
प्रोत्सार्याविरकार्षीद् गुरु-गुरुः पूज्याय तस्मै नमः॥४२॥
—नैष्कर्म्यसिद्धिः - श्रीसुरेश्वराचार्यकृता 4.76-77
आ शैलादुदयात् तथाऽस्त-गिरितो भास्वद्-यशोराशिभिः
व्याप्तं विश्वमनन्धकारमभवद् यस्य स्म शिष्यैरिदम्।
आराद् ज्ञान-गभस्तिभिः प्रतिहतश्चन्द्रायते भास्करः
तस्मै शङ्कर-भानवे तनु-मनोवाग्भिर्नमः स्यात् सदा॥४३॥
यत्-प्रज्ञोदधि-युक्ति-शब्दन-खज-श्रद्धैक-सन्नेत्रक-
स्थैर्य-स्तम्भ-मुमुक्षु-दुःखित-कृपा-यत्नोत्थ-बोधामृतम्।
पीत्वा जन्म-मृति-प्रवाह-विधुरा मोक्षं ययुर्मोक्षिणः
तं वन्देऽत्रि-कुल-प्रसूतममलं वेधोभिधं मद्-गुरुम्॥४४॥
—बृहदारण्यकभाष्यवार्त्तिकम् - सुरेश्वराचार्यकृतम्
नमाम्यभोगि-परिवार-सम्पदं निरस्त-भूतिमनुमार्ध-विग्रहम्।
अनुग्रमुन्मृदित-काल-लाञ्छनं विना-विनायकमपूर्व-शङ्करम्॥४५॥
यद्-वक्त्र-मानस-सरः-प्रतिलब्ध-जन्म-
भाष्यारविन्द-मकरन्द-रसं पिबन्ति।
प्रत्याशमुन्मुख-विनीत-विनेय-भृङ्गाः
तान् भाष्य-वित्तक-गुरून् प्रणमामि मूर्ध्ना॥४६॥
—पञ्चपादिका पद्मपादाचार्यकृता
वक्तारमासाद्य यमेव नित्या सरस्वती स्वार्थ-समन्विताऽऽसीत्।
निरस्त-दुस्तर्क-कलङ्क-पङ्का नमामि तं शङ्करमर्चिताङ्घ्रिम्॥४७॥
—सङ्क्षेपशारीरकं श्रीसर्वज्ञात्मेन्द्रसरस्वतीश्रीचरणैः कृतम्
सदाशिवब्रह्मेन्द्रविरचितायां जगद्गुरुरत्नमालायां भगवत्पाद-चरितम्
यदबोध-वशादहं ममेदं तदिहेत्यादिरुदेति भूरि-भेदः।
तदखण्डमनन्तमद्वितीयं परमानन्द-मयं पदं श्रयेयम्॥४८॥
कलिना बलिनाऽखिले खिलेऽपि स्खलिते श्रौत-पथेऽपथे प्रवृद्धे।
जप-होम-तपस्सु नाम-शेषेष्वपि यातेषु सुभाषितेषु शोषम्॥४९॥
जगदीक्षण-विह्वलामृतान्धो-निगद-व्यक्त-कृपा-रसानुबन्धम्।
प्रणिदिश्य गुहं पुरैव गन्तुं प्रणिबन्धुं च मखान् द्विषश्च यन्तुम्॥५०॥
अवतार्य सुरान् परांश्च पूर्वं विधि-विष्ण्विन्द्र-मुखान् विनोद-पूर्वम्।
स्वयमप्यवतीर्य सुत्युरार्या-कमितुः श्री-शिव-शर्मणो विचार्य॥५१॥
उदभूत् सदने निटाल-दृग् यो मद-भाजां सुधियां प्रमाथ-योग्ये।
शिशुरर्पयतान्मुमुक्षु-भाग्यं स शुभं शङ्कर-देशिकः सुभोग्यम्॥५२॥
प्रति-चन्द्र-भवं निवृत्ति-धर्मा श्रित-गोविन्द-मुनेरवाप्त-धर्मा।
जयतात् कृत-सूत्र-भाष्य-कर्मा स्वयमन्ते-वसतां वितीर्ण-शर्मा॥५३॥
कुहनान्त्यज-विश्वनाथ-सृष्टो द्रुहिण-व्यास-वरोदितानुशिष्टः।
ममतां मम तावदेष भिन्द्यान्नमतश्चोपरतिं ददात्वनिन्द्याम्॥५४॥
प्रविशन् बदरीमवाप्य सद्यः परमाचार्य-पदार्चनं क्रमाद् यः।
धवलाचलमाप्य योऽप्यमाद्यच्छिव-लावण्यमुदीक्ष्य तं प्रपद्ये॥५५॥
प्रतिपादित-लिङ्ग-पञ्चकेऽमुं प्रणिवर्त्याशु तिरोहिते गिरीशे।
विनिवृत्य स दिग्-जय-प्रवृत्तो विविधैः शिष्य-वरैर्विभातु चित्ते॥५६॥
अथ कान्यकुमार-सन्धि-सेतु-स्थलिनी-वैङ्कट-कालहस्ति-यातुः।
यमि-नेतुरमुष्य काञ्चि-यात्रा शमिदानीं शम-दं क्रियाद् विचित्रा॥५७॥
श्रित-निर्मल-राजसेन-चोल-क्षिति-पालोद्धृत-विप्र-देव-शालः।
वरदस्य तथाऽऽम्र-नायकस्याप्युरु-वेश्म-द्वय-कृज्जयाय मे स्यात्॥५८॥
प्रकृतिं च गुहाश्रयां महोग्रां स्व-कृते चक्र-वरे प्रवेश्य योऽग्रे।
अकृताश्रित-सौम्य-मूर्तिमार्यां सुकृतं नः स चिनोतु शङ्करार्यः॥५९॥
उपयात्सु बुधेषु सर्व-दिग्भ्यः प्रदिशन्नाशु पराभवं य एभ्यः।
विधृताखिल-वित्-पदश्च काञ्च्यामधृतार्तिः स दिशेच्छ्रियं च काञ्चित्॥६०॥
समतिष्ठिपदा-हिमाद्रि-सेव्यं क्रमशो धर्म-विचारणाय दिव्यम्।
अधि-काञ्चि च शारदा-मठं योऽभ्यधिकं नः सुखमातनोतु सोऽयम्॥६१॥
परमन्तिक-सत्-सुरेश्वराद्यैः परमाद्वैत-मतं स्फुटं प्रवेद्य।
परि-काञ्चिपुरं परे विलीनः परमायास्तु शिवाय सद्गुरुर्नः॥६२॥
कामकोटि-परम्परागतैः आचार्यैः कृताः स्तुतयः
नमस्तस्मै भगवते शङ्कराचार्य-रूपिणे।
येन वेदान्त-विद्येयमुद्धृता वेद-सागरात्॥६३॥
—विद्यारण्यमुनिविरचितायाम् अपरोक्षानुभूतिदीपिकायाम्
स्तुवन्मोह-तमः-स्तोम-भानु-भावमुपेयुषः।
स्तुमस्तान् भगवत्पादान् भव-रोग-भिषग्-वरान्॥६४॥
—सदाशिवेन्द्रसरस्वतीश्रीचरणैः कृता ब्रह्मसूत्रवृत्तिः
वेदान्तार्थाभिधानेन सर्वानुग्रह-कारिणम्।
यति-रूप-धरं वन्दे शङ्करं लोक-शङ्करम्॥६५॥
—नवपञ्चाशत्तमैः आचार्यैः श्रीभगवन्नामबोधेन्द्रसरस्वतीश्रीचरणैः कृतं हरिहराद्वैतभूषणम्
यमाश्रिता गिरां देवी नन्दयत्यात्म-संश्रितान्।
तमाश्रये श्रिया जुष्टं शङ्करं करुणा-निधिम्॥६६॥
—नवपञ्चाशत्तमैः आचार्यैः श्रीभगवन्नामबोधेन्द्रसरस्वतीश्रीचरणैः प्रणीतम् विवरणप्रमेयसङ्ग्रहात्मकम् अद्वैतभूषणम्
सर्व-तन्त्र-स्वतन्त्राय सदाऽऽत्माद्वैत-वेदिने।
श्रीमते शङ्करार्याय वेदान्त-गुरवे नमः॥६७॥
अविप्लुत-ब्रह्मचर्यान् अन्वितेन्द्र-सरस्वतीन्।
आत्त-मिथ्यावार-पथान् अद्वैताचार्य-सङ्कथान्॥६८॥
आ-सेतु-हिमवच्छैलं सदाचार-प्रवर्तकान्।
जगद्-गुरून् स्तुमः काञ्ची-शारदा-मठ-संश्रयान्॥६९॥
—पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः जगद्गुरु-परम्परा-स्तवः
गुरुर्नाम्ना महिम्ना च शङ्करो यो विराजते।
तदीयाङ्घ्रि-गलद्-रेणु-गणायास्तु नमो मम॥७०॥
—अष्टषष्टितमाचार्यैः श्रीचन्द्रशेखरेन्द्रसरस्वतीश्रीचरणैः प्रणीतम्
कामाक्षी-करुणा-रूपं कामकोटि-जगद्गुरुम्।
चिन्मूर्तिं कलये चित्ते शङ्कराचार्यमव्ययम्॥७१॥
—नवषष्टितमाचार्यैः श्रीजयेन्द्रसरस्वतीश्रीचरणैः प्रणीतम्
भजेऽहं भगवत्पादं भारतीय-शिखामणिम्।
अद्वैत-मैत्री-सद्भाव-चेतनायाः प्रबोधकम्॥७२॥
—सप्ततितमाचार्यैः श्रीशङ्करविजयेन्द्रसरस्वतीश्रीचरणैः प्रणीतम्
शङ्कर-चरित्र-ग्रन्थेषु
मेधावी निगम-पटुर्बहु-श्रुतो वा येनर्ते न कलयिता किलात्म-तत्त्वम्।
तन्नेत्रं तमसि च दिव्य-दृष्टि-दायि श्रेयो नः प्रदिशतु धाम देशिकाख्यम्॥७३॥
—पुण्यश्लोकमञ्जरी
नमामि शङ्कराचार्य-गुरु-पाद-सरोरुहम्।
यस्य प्रसादान्मूढोऽपि सर्वज्ञोऽहं सदाऽस्म्यहम्॥७४॥
वेदे ब्रह्म-समस्तदङ्ग-निचये गर्गोपमस्तत्-कथा-
तात्पर्यार्थ-विवेचने गुरु-समस्तत्-कर्म-संवर्णने।
आसीज्जैमिनिरेव तद्-वचन-ज-प्रोद्बोध-कन्दे समो
व्यासेनैव विभाति सद्गुरुरसौ श्री-शङ्कराख्यः क्षितौ॥७५॥
अद्वैतार्णव-पूर्ण-चन्द्रमभिदा-पद्माटवी-भास्करं
विद्वत्-कोटि-समर्चिताङ्घ्रि-युगलं प्रद्वेष-कक्षानलम्।
हृद्याभेद्य-समस्त-वेद-जनित-प्रोद्यद्-विवेकाङ्कुरं
स्विद्यद्-वागमृतं परात्-पर-गुरुं श्री-शङ्करं तं भजे॥७६॥
—आनन्दगिरीयशङ्करविजयः
गामाक्रम्य पदेऽधिकाञ्चि निबिडं स्कन्धैश्चतुर्भिस्तथा
व्यावृण्वन् भुवनान्तरं परिहरंस्तापं स-मोह-ज्वरम्।
यः शाखी द्विज-संस्तुतः फलति तत् स्वाद्यं रसाख्यं फलं
तस्मै शङ्कर-पादपाय महते तन्मस्त्रि-सन्ध्यं नमः॥७७॥
—व्यासाचलीयशङ्करविजयः
देशे कालडि-नाम्नि केरल-धरा-शोभा-करे सद्-द्विजे
जातः श्रीपति-मन्दिरस्य सविधे सर्वज्ञतां प्राप्तवान्।
भूत्वा षोडश-वत्सरे यति-वरो गत्वा बदर्याश्रमं
कर्ता भाष्य-निबन्धनस्य सु-कविः श्री-शङ्करः पावनः॥७८॥
—गोविन्दानन्दरचिते शङ्कराचार्यचरिते
अज्ञानान्तर्गहन-पतितान् आत्म-विद्योपदेशैः
त्रातुं लोकान् भव-दव-शिखा-ताप-पापच्यमानान्।
मुक्त्वा मौनं वट-विटपिनो मूलतो निष्पतन्ती
शम्भोर्मूर्तिश्चरति भुवने शङ्कराचार्य-रूपा॥७९॥
—नवकालिदासमाधवकविकृतः शङ्करदिग्विजयः
क्वेमे शङ्कर-सद्गुरोर्गुण-गणा दिग्-जाल-कूलङ्कषाः
कालोन्मीलित-मालती-परिमलावष्टम्भ-मुष्टिन्धयाः।
क्वाहं हन्त तथापि सद्गुरु-कृपा-पीयूष-पारम्परी-
मग्नोन्मग्न-कटाक्ष-वीक्षण-बलादस्मि प्रशस्तोऽर्हताम्॥८०॥
—सङ्क्षेपशङ्करविजये
श्रीमच्छङ्कर-सद्गुरोर्भगवतोऽगाधामसाधारणीं
वाणीं नः प्रतनीयसीं मुहुरिमां गाढुं समुत्कण्ठते।
तन्मूर्तिः प्रभुरेव भक्त-जनता-वात्सल्य-वैपुल्य-भूः
अस्मै साधु ददातु शस्त-दयया हस्तावलम्बं हरः॥८१॥
—वल्लीसहायकविकृतौ आचार्यदिग्विजये
अन्यैः वेदान्ताचार्यैः कृताः स्तुतयः
प्रचार्यं सर्व-लोकेषु सञ्चार्यं हृदयाम्बुजे।
विचार्यं सर्व-वेदान्तैः आचार्यं शङ्करं भजे॥८२॥
—नारायणीयोपनिषद्भाष्ये
भगवत्पाद-पादाब्ज-पांसवः सन्तु सन्ततम्।
अपारासार-संसार-सागरोत्तार-सेतवः॥८३॥
—चित्सुखाचार्याणां भाष्यभावप्रकाशिकायाम्
उद्धृत्य वेद-पयसः कमलामिवाब्धेः
आलिङ्गिताखिल-जगत्-प्रभवैक-मूर्तिम्।
विद्यामशेष-जगतां सुख-दामदाद् यः
तं शङ्करं विमल-भाष्य-कृतं नमामि॥८४॥
—विवरणाचार्याणां पञ्चपादिकाविवरणे
यद्-भाष्याम्बुज-जात-जात-मधुर-प्रेयोमधु-प्रार्थना-
सार्थ-व्यग्र-धियः समग्र-मरुतः स्वर्गेऽपि निर्वेदिनः।
यस्मिन् मुक्ति-पथः पथीन-मुनिभिः सम्प्रार्थितः सम्बभौ
तस्मै भाष्य-कृते नमोऽस्तु भगवत्पादाभिधां बिभ्रते॥८५॥
—आनन्दगिर्याचार्याणां सूत्रभाष्यव्याख्यायां - ६
श्री-गुरुं भगवत्पादं शरण्यं भक्त-वत्सलम्।
शिवं शिव-करं शुद्धमप्रमेयं नमाम्यहम्॥८६॥
—अद्वैतसभायाः ब्रह्मविद्यापत्रिकायां प्रकाशिते अज्ञातकर्तृके गुर्वष्टके
तं वन्दे शङ्कराचार्यं लोक-त्रितय-शङ्करम्।
सत्-तर्क-नखरोद्गीर्ण-वावदूक-मतङ्गजम्॥८७॥
—तत्त्वबोधभगवत्प्रणीते तत्त्वबोधे
आनन्द-घनमद्वन्द्वं निर्विकारं निरञ्जनम्।
भजेऽहं भगवत्पादं भजतामभय-प्रदम्॥८८॥
—मनीषा-पञ्चक-व्याख्याने
यद्-भाष्योक्तेर्लव-परिजुषश्छात्र-वर्गा महान्तः
निर्भिन्दन्ति प्रबल-मतयो वादि-शैलं समस्तम्।
यैर्वेदाब्धेरमृतमिव सद्-भाष्यमापत् प्रकाशं
तत्-पादाब्जं स्फुरतु हृदये ह्युद्धृतं सर्वदा मे॥८९॥
—मनीषापञ्चरत्नलघुविवरणे
महा-मोह-पङ्के विरिञ्चाचरान्तं
प्रजा-हस्तिनं मग्नमालोक्य भाष्यैः।
जलैः क्षालयित्वाऽऽत्म-विद्या-दिवं यो
नयत्येकलं शङ्करं तं नमामि॥९०॥
—ज्ञानामृतयतेः कृतौ विद्यासुरभिसंज्ञके नैष्कर्म्यसिद्धिविवरणे
संसार-सर्प-परिदष्ट-विनष्ट-जन्तु-
सञ्जीवनाय परया कृपयोपपन्नः।
ब्रह्मावबोध-परमौषधमुद्वहन् यः
तं शङ्करं परतरं भिषजां भजामि॥९१॥
—अद्वैतबोधामृतम्
वेदान्ताम्भोगभीरा नय-मकर-कुला ब्रह्म-विद्याब्ज-षण्डा
पाषण्डोत्तुङ्ग-वृक्ष-प्रमथन-निपुणा मान-वीची-तरङ्गा।
यस्यास्योत्था सरस्वत्यखिल-भव-भय-ध्वंसिनी शङ्करस्य
गङ्गा शम्भोः कपर्दादिव निखिल-गुरोर्नौमि तत्-पाद-पद्मम्॥९२॥
—ज्ञानघनपादानां तत्त्वशुद्धौ
सूत्र-प्रग्रह-वेद-वाजिनि महन्मीमांसक-स्यन्दने
तिष्ठन् भाष्य-पिनाकमुज्ज्वल-गुणं कृत्वाऽऽत्म-धी-सायकम्।
आकृष्य प्रदहन्नशेष-विपदां मूलं पुराणां त्रयं
भूयान्नोऽभिनवः पुरारिरशुभस्योच्छित्तये शङ्करः॥९३॥
—रामानन्दस्य ऋजु-विवरण-व्याख्यायाम्
यद्-भाष्य-सागर-ज-युक्ति-मणीन् प्रकीर्णान्
प्राप्याधुना कतिपयान् कवयो भवन्ति।
तस्मै नमो जन-मनोब्ज-दिवाकराय
कृत्स्नागमार्थ-निलयाय यतीश्वराय॥९४॥
—बोधनिधि-कृते उपदेश-प्रकरण-विवरणे
वेदान्तार्थं गभीरं ह्यति-सुगमतया बोधयामीति विष्णुः
व्यासात्माऽसूत्रयत् तद् दुरधिगममभूद् वादि-दुर्बुद्धि-भेदात्।
भिन्दन् दुर्बुद्धि-भेदं य इह करुणयाऽभाष्ययद् भाष्यमेतत्
तं वन्दे सर्व-वन्द्यं त्रि-जगति भगवत्पाद-संज्ञं महेशम्॥९५॥
—रामानन्दसरस्वतीकृतविवरणोपन्यासे
त्रि-वर्गेणाक्रान्ते जनन-मरणादि-व्रण-भुवा
जनेऽस्मिन् सर्वस्मिंस्तिमिर-परिणाहैक-शरणे।
निषेक्तुं निध्यातोऽमृतमग-पतिः शङ्कर इति
स्व-नाम व्याख्यातुं जयति कुहना-भिक्षुरनिशम्॥९६॥
—अभिनवद्राविडाचार्य-श्रीबालकृष्णानन्दसरस्वतीनां शारीरकमीमांसाभाष्यवार्तिके
श्री-सम्बन्धमुदीक्ष्य वाचक-पदे यान् शार्ङ्गिणं वैष्णवाः
चन्द्रोत्तंस-पदास्पदत्व-कलनाच्छम्भुं च शैवा विदुः।
आनन्दाद्वय-शोभमान-परम-प्रेमास्पदं योगिनः
तान् पादाम्बुज-रेणु-धूत-तमसो वन्दे सदा श्री-गुरून्॥९७॥
—गङ्गाधरसरस्वत्याख्यभिक्षुणा रचितायाम् आत्मसाम्राज्यसिद्धिव्याख्यायाम्
नमः श्री-शङ्कराचार्य-गुरवे शङ्करात्मने।
शरीरिणां शङ्कराय शङ्कर-ज्ञान-हेतवे॥९८॥
—नृसिंहाश्रमविरचितायां तत्वबोधिन्याख्यायां सङ्क्षेपशारीरकटीकायाम्
याऽनुभूतिः स्वयं-ज्योतिरादित्येशान-विग्रहा।
शङ्कराख्या च तं नौमि सुरेश्वर-गुरुं परम्॥९९॥
—नृसिंहप्रज्ञमुनिकृते बृहदारण्यकभाष्यवार्तिकन्यायतत्त्वविवरणे
संसाराब्धि-निषण्णाज्ञ-निकर-प्रोज्जिहीर्षया।
कृत-संहननं वन्दे शङ्करं लोक-शङ्करम्॥१००॥
—विज्ञानवासयतिरचितायां पञ्चपादिकाव्याख्यायाम्
वेदान्तार्थ-तदाभास-क्षीर-नीर-विवेकिनम्।
नमामि भगवत्पादं पर-हंस-धुरन्धरम्॥१०१॥
—अमलानन्दसरस्वतीनां वेदान्तकल्पतरौ
नाना-भाष्यादृता सा सगुण-फल-गतिर्वैध-विद्या-विशेषैः
तत्-तद्-देशाप्ति-रम्या सरिदिव सकला यत्र यात्यंश-भूयम्।
तस्मिन्नानन्द-सिन्धावतिमहति फले भाव-विश्रान्ति-मुद्रा
शास्त्रस्योद्घाटिता यैः प्रणमत हृदि तान् नित्यमाचार्य-पादान्॥१०२॥
—अप्पयदीक्षितानां न्यायरक्षामणौ
प्रचण्ड-पाखण्ड-विखण्डनोद्यतं त्रयी-शिरोर्थ-प्रतिपादने रतम्।
बुधैर्नुतं योग-कलाभिरावृतं नमामि तं शङ्कर-देशिकं ततम्॥१०३॥
—सच्चिदानन्दसरस्वतीकृतायाम् आर्याव्याख्यायाम्
दृष्ट्वा यो दिव्य-दृष्टिः कलि-युग-समये “मन्द-भाग्या मनुष्याः
तस्मात् तन्त्र-प्रपञ्चः सुर-यजन-विधिर्मत्-कृतो निष्फलः स्यात्”।
इत्याविर्भूय पृथ्व्यां पुनरपि कृतवांस्तन्त्र-सारं गिरीशः
तं वन्दे शङ्कराख्यं महिततम-मनः-प्रार्थनीयार्थ-रूपम्॥१०४॥
—प्रपञ्चसारसम्बन्धदीपिकायाम्
येनाद्वन्द्वमखण्डमक्षय-पदं प्रादर्शि तापापहं
भाष्य-ग्रन्थि-निबन्धनैः श्रुति-शिरोवाक्यार्थ-विद्योतिभिः।
नित्यो यत्र समस्त-सद्-गुण-गणस्तं शङ्कराचार्य-गीर्
विख्यातं मुनि-मौलि-लालित-पद-द्वन्द्वं सदा संश्रये॥१०५॥
—रामतीर्थस्वामिरचितायाम् अन्वयार्थप्रकाशिकाख्यायां सङ्क्षेपशारीरकव्याख्यायाम्
वेदान्त-व्रात-नीरं शत-पथ-कथित-न्याय-रत्न-प्रपूरं
पारावारं सुतारं निगम-मुख-षडङ्गात्म-सद्-ग्राह-घोरम्।
कारं-कारं सुगाहं श्रुत-मत-मथितैर्ब्रह्म-विद्यामृतं यः
प्रादादादाय तस्मादशरण-शरणं शङ्करं तं नमामः॥१०६॥
—आनन्दपूर्णरचितायां न्यायकल्पलतिकानाम्न्यां सुरेश्वरवार्तिकटीकायाम्
वेदान्तार्थ-विभासकाय गुरवे शान्ताय सन्न्यासिने
नाना-वादि-नगेन्द्र-सङ्घ-पवये योगीन्द्र-वन्द्याय च।
मोह-ध्वान्त-दिवाकराय भगवत्पादाभिधां बिभ्रते
तस्मै भाष्य-कृते नमोऽस्तु सततं पूर्णाय बोधात्मने॥१०७॥
—तैत्तिरीयभाष्यटीकायाम्
ये वेदान्त-सुधोदधिं सुमनसां निःश्रेयसाय स्वयं
निर्मथ्योदहरन्निरूपण-गुणावृत्तेन चेतोमथा।
अद्वैतामृतमासुरानुशयिनामास्वादनीयेतरत्
तानाऽऽस्माक-गुरोरुपैमि भगवत्पादादिमान् देशिकान्॥१०८॥
—कृष्णानन्दयतिकृतौ सिद्धान्तसिद्धाञ्जने
काले शिवः क्रम-वशात् कलि-दोष-दुष्टे
यः सम्प्रदाय-रहितं तदपेक्ष्य भूयः।
क्षोण्यामवातरदशेष-जगद्धितार्थी
श्री-शङ्कराख्यममलं गुरुमाश्रये तम्॥१०९॥
—नारायणकृतौ प्रपञ्चसारार्थदीपे
वेदाद्यागम-दुग्ध-सिन्धु-मथनात् तन्मेय-मन्थाद्रिणा
दिव्याभोग-विचार-वासुकि-वशादाश्रित्य धैर्यं परम्।
ब्रह्मोद्बोध-सुधां विधाय दयया मर्त्यानमर्त्यानमी
कुर्वन्तो गुरवो जयन्ति जगतां लक्ष्मीश-वद् रक्षकाः॥११०॥
—वरदराजपण्डितकृतौ खण्डनमण्डने
यदीय-वाक्-सूर्य-रुचि-प्रणाशितः
हृदन्ध-कारो नमतामशेषतः।
महात्मनः शिष्य-हिते सदा रतान्
नमामि तान् शङ्कर-पूज्य-देशिकान्॥१११॥
—शङ्कुकविरचिते कैवल्यनवनीते
यद्-वक्त्राम्बुज-निस्सृतं परमकं श्री-सूत्र-भाष्यामृतं
पीत्वा मादृश-जीव-भङ्ग-निचया नन्दन्ति मोक्षाङ्गणे।
नाना-वादि-मदेभ-भञ्जन-महा-व्यग्रोग्र-कण्ठीरवान्
वन्दे व्यास-मुनीन्द्र-शङ्कर-मुखान् सद्-देशिकांस्तानहम्॥११२॥
—अमरेश्वरशास्त्रिरचिते अज्ञानध्वान्तचण्डभास्करे
यो लोकोपकृति-प्रविष्ट-हृदयो जित्वाऽतिबाह्यं मतं
श्रीमच्छङ्कर-शब्द-पूर्व-भगवत्पादाभिधानं गतम्।
सद्-वेदान्त-रहस्य-वत् स्फुटितवान् गोप्यं रहो-मानवं
तं वन्दे भगवन्तमन्तक-रिपुं सर्वान्तराय-च्छिदम्॥११३॥
—कामेश्वरसूरिकृतायाम् अरुणामोदिनीनाम्न्यां सौन्दर्यलहरीव्याख्यायाम्
अखिल-पर-हंस-देशिकमागम-गूढार्थ-दर्शकं प्राज्ञम्।
स्वानन्द-पूर्ण-सागरमनिशमहं नौमि शङ्कराचार्यम्॥११४॥
—नागनाथरचिते आत्मबोधप्रकरणे
विष्णवे व्यास-रूपाय ब्रह्म-सूत्र-कृते नमः।
महेशाय च तद्-भाष्य-कृते शङ्कर-रूपिणे॥११५॥
—अल्लालसूरिरचिते भामतीतिलके
हर-लीलावताराय शङ्कराय वरौजसे।
कैवल्य-कलना-कल्प-तरवे गुरवे नमः॥११६॥
—उमामहेश्वररचितायां तत्त्वचन्द्रिकायाम्
यत्-पादाब्ज-प्रभव-विमल-श्री-परागालि-भास्वान्
मत्-स्वान्त-स्थं प्रणुदति तमः-पुञ्जमत्यन्त-चण्डम्।
यत्-कारुण्य-प्लव-परिजुषा तारितोऽनेन तूर्णं
संसाराब्धिः प्रणतिरनिशं स्याद् गुरूणां पदाब्जे॥११७॥
—सीतारामसूरिरचिते वेदान्तकौस्तुमे
पाराशर्य-वचोविलास-मसृणैः सूत्रैः क्रमेणाततैः
अत्यस्तैः प्रकटीचकार भगवान् यो भाष्य-संज्ञं पटम्।
अज्ञानोद्भव-जाड्य-नाश-करणं स्वानन्द-दं सेविनां
तं वन्देऽखिल-योगि-वन्द्य-चरणं श्री-शङ्करं शं-करम्॥११८॥
—कमलाकरदेवकृतौ आनन्दविलासे
योऽयं दैवत-सार्वभौम-विभवो विश्वाधिको रुद्र इ
त्याद्यैराद्य-वचोभिरद्वयपरैरद्यापि संस्तूयते।
अद्वैतात्म-विबोधनाय विदुषामिच्छा-समङ्गीकृत-
श्रीमच्छङ्कर-देशिकेन्द्र-वपुषं श्री-शङ्करं भावये॥११९॥
—शङ्कराचार्याष्टके
शङ्कर-वाङ्महिमा
अधिगत-भिदा पूर्वाचार्यानुपेत्य सहस्र-धा
सरिदिव मही-भागान् सम्प्राप्य शौरि-पदोद्गता।
जयति भगवत्पाद-श्रीमन्मुखाम्बुज-निर्गता
जनन-हरणी सूक्तिर्ब्रह्माद्वयैक-परायणा॥१२०॥
—अप्पय्यदीक्षितानां सिद्धान्तलेशसङ्ग्रहे
संसाराध्वनि ताप-भानु-किरण-प्रोद्भूत-दाह-व्यथा-
खिन्नानां जल-काङ्क्षया मरु-भुवि श्रान्त्या परिभ्राम्यताम्।
अत्यासन्न-सुखाम्बुधिं सुख-करं ब्रह्माद्वयं दर्शय-
न्त्येषा शङ्कर-भारती विजयते निर्वाण-सन्दायिनी॥१२१॥
—विवेकचूडामणौ
जय-घोषः
श्री-शङ्कराचार्य-वर्य ब्रह्म-ज्ञान-प्रदायक।
अज्ञान-तिमिरादित्य सुज्ञानाब्धि-सुधाकर॥१२२॥
ज्ञान-मुद्राञ्चित-कर शिष्य-हृत्-ताप-हारक।
कम्र-मुक्ति-गृह-द्वार-कवाट-घ्न-पदाम्बुज॥१२३॥
(स्वामिन् ! जय ! विजयी भव !)
षण्मत-स्थापनाचार्य त्रयी-मार्ग-प्रकाशक।
प्रसन्न-वदनाम्भोज परमार्थ-प्रकाशक॥१२४॥
ज्ञानात्मकैक-दण्डाढ्य कमण्डलु-लसत्-कर।
काषाय-वसनोपेत भस्मोद्धूलित-विग्रह॥१२५॥
(स्वामिन् ! जय ! विजयी भव !)
श्रीमत्-कैलास-निलय-सच्छिवांशावतारक।
कालटी-क्षेत्र-निवसदार्याम्बा-गर्भ-संश्रित॥१२६॥
शिवादि-गुरु-वंशाम्बुनिधि-राकेश-सन्निभ।
पितृ-दत्तान्वर्थ-भूत-शङ्कराख्या-समुज्ज्वल॥१२७॥
(स्वामिन् ! जय ! विजयी भव !)
अभ्यस्त-वेद-वेदाङ्ग निखिलागम-पारग।
दरिद्र-ब्राह्मणी-दत्त-भिक्षामलक-तोषित॥१२८॥
स्वर्णामलक-सद्वृष्टि-प्रसादानन्दित-द्विज।
अष्ट-वर्ष-चतुर्-वेदिन् द्वादशाखिल-शास्त्र-ग॥१२९॥
(स्वामिन् ! जय ! विजयी भव !)
सरिद्-वर्त्मातप-श्रान्त-मातृ-दुःखापनोदक।
नक्र-ग्रह-व्याज-मातृ-मत-पारमहंस्यक॥१३०॥
चिन्तना-मात्र-सान्निध्य-करणाश्वासिताम्बक।
सोमोद्भवा-तटी-कॢप्त-सौम्य-गोविन्द-सेवन॥१३१॥
(स्वामिन् ! जय ! विजयी भव !)
गोविन्दार्य-मुखावाप्त-महावाक्य-चतुष्टय।
योग-सिद्धि-गृहीतेन्दुभवा-पूर-कमण्डलो॥१३२॥
गुर्वनुज्ञात-विश्वेश-दिदृक्षा-गमनोत्सुक।
चण्डालाकार-विश्वेश-प्रश्नानुप्रश्न-हर्षित॥१३३॥
(स्वामिन् ! जय ! विजयी भव !)
विश्वेशानुग्रहावाप्त-भाष्य-ग्रथन-नैपुण।
भाष्य-स्फुट-श्रुतिशिरो-मत-तत्त्वाभिलापक॥१३४॥
यदूद्वह-प्रोक्त-गीता-याथातथ्य-विवेचक।
ब्रह्मसूत्रार्थ-संवाद-हृष्यत्-सत्यवती-सुत॥१३५॥
(स्वामिन् ! जय ! विजयी भव !)
मन्दाकिनी-झरी-रम्य-भाष्य-पावित-भूतल।
भाष्य-सार-प्रकरण-कृत-जिज्ञासु-तोषण॥१३६॥
सौन्दर्य-लहरी-मुख्य-बहु-स्तोत्र-विधायक।
योगजाग्नि-कृत-स्वाम्बा-यज्ञ-स्थापित-सत्पथ॥१३७॥
(स्वामिन् ! जय ! विजयी भव !)
त्रिरधीतात्मीय-भाष्य-सनन्दन-समाश्रय।
कुकूलानल-कूट-स्थ-कुमारिल-कृतानते॥१३८॥
कर्मैक-पथिकोद्दण्ड-मण्डनान्त्याश्रम-प्रद।
कञ्ज-योन्यवतार-श्री-सुरेश्वर-सुदेशिक॥१३९॥
(स्वामिन् ! जय ! विजयी भव !)
यथावत्-तत्त्व-विज्ञातृ-हस्तामलक-सद्गुरो।
तोटकाभिव्यक्त-भक्ति-तत्त्व-ज्ञानाढ्य-शिष्यक॥१४०॥
पृथ्वीधवादि-शिष्यौघ-शिरोधृत-पद-द्वय।
शारदा-स्थापना-पूत-ऋश्यशृङ्ग-गिरि-स्थल॥१४१॥
(स्वामिन् ! जय ! विजयी भव !)
ककुब्जय-महायात्रा-पवित्रित-महीतल।
रामेश्वरादि-मेर्वन्त-प्रतिष्ठापित-सन्मत॥१४२॥
अद्वैत-स्थापनाचार्य भगवत्पाद-संज्ञक।
वेद-वेदान्त-सम्प्रोक्त-रक्षार्थ-मठ-कल्पन॥१४३॥
(स्वामिन् ! जय ! विजयी भव !)
कैलास-यात्रा-सम्प्राप्त-चन्द्रमौलि-प्रपूजक।
नेपाल-केदार-वर-सिद्धि-लिङ्ग-निधायक॥१४४॥
चिदम्बर-सभा-न्यस्त-मोक्ष-लिङ्ग यतीश्वर।
तुङ्गा-भद्रा-सङ्ग-भूमि-भोग-लिङ्ग-समर्चन॥१४५॥
(स्वामिन् ! जय ! विजयी भव !)
श्रीचक्रात्मक-ताटङ्क-पोषिताम्बा-मनोरथ।
काञ्च्यां श्रीचक्र-राजाख्य-यन्त्र-स्थापन-दीक्षित॥१४६॥
भेरी-पटह-वाद्यादि-राज-लक्षण-लक्षित।
सर्वज्ञ-पीठाध्यारोह-लुप्त-सार्वज्ञ्य-संशय॥१४७॥
(स्वामिन् ! जय ! विजयी भव !)
वादार्थागत-सर्वज्ञ-बाल-सन्न्यास-दायक।
शारदा-मठ-मेरु-श्री-योगलिङ्गाभिषेचन॥१४८॥
सोपान-पञ्चकोद् घोष-कृत-शिष्यानुशासन।
सत्यव्रत-समाख्यात-काञ्च्यन्तरित-विग्रह॥१४९॥
(स्वामिन् ! जय ! विजयी भव !)
काञ्चीपुराभरण-कामद-कामकोटि-पीठाभिषिक्त वर-देशिक-सार्वभौम।
सार्वज्ञ्य-शक्त्यधिगताखिल-मन्त्र-तन्त्र-चक्र-प्रतिष्ठिति-विजृम्भित-चातुरीक॥१५०॥
(स्वामिन् ! जय ! विजयी भव !)
❀ ❀ ❀
अयं पद्यसङ्ग्रहः
* श्रीमच्चन्द्रशेखरेन्द्रसरस्वतीश्रीपादानां षष्ट्यब्दपूर्त्यवसरे प्रकाशिते ब्रह्मसूत्रभाष्यपुस्तके
* श्रीशङ्करभक्तजनसभया प्रकाशिते अद्वैताक्षरमालिकायाः द्वितीयसंस्करणपुस्तके
* शिमिऴि-वेङ्कट-राधाकृष्णशास्त्रिभिः सङ्कलितायां श्रीशङ्करभगवत्पादप्रशस्तिमञ्जर्यां च
सङ्गृहीतानि आचार्यप्रशस्तिरूपाणि पद्यानि आधृत्य सङ्कलितः
जय जय शङ्कर हर हर शङ्कर
जय जय शङ्कर हर हर शङ्कर।
काञ्ची-शङ्कर कामकोटि-शङ्कर
हर हर शङ्कर जय जय शङ्कर॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद् यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
अनेन पूजनेन श्रीमत्-शङ्कर-भगवत्पादाचार्याः प्रीयन्ताम्।
ॐ तत् सद् ब्रह्मार्पणमस्तु।
❀ ❀ ❀
श्रीमच्चिद्विलासीय-शङ्करविजयविलासे श्रीमत्-शङ्कर-भगवत्पाद-अवतार-घट्टः
पञ्चमोऽध्यायः
व्यराजत तदार्याम्बा शिवैकायत्तचेतना।
दृष्ट्वा शिवगुरुर्यज्वा भार्यामार्यां च गर्भिणीम्॥३४॥
वृषाचलेशं सततं स्मरन्नेकाग्रचेतसा।
दयालुतां स्तुवन् शम्भोर्दीनेष्वपि महत्स्वपि॥३५॥
ववृधे स पयोराशिः पूर्णेन्दोरिव दर्शनात्।
ततः सा दशमे मासि सम्पूर्णशुभलक्षणे॥३६॥
दिवसे माधवर्तौ च स्वोच्चस्थे ग्रहपञ्चके।
मध्याह्ने चाभिजिन्नाममुहूर्ते चार्द्रया युते॥३७॥
उदयाचलवेलेव भानुमन्तं महौजसम्।
प्रासूत तनयं साध्वी गिरिजेव षडाननम्॥३८॥
जयन्तमिव पौलोमी व्यासं सत्यवती यथा।
तदैवाग्रे निरीक्ष्येयमनुभूयेव वेदनाम्॥३९॥
चतुर्भुजमुदाराङ्गं त्रिणेत्रं चन्द्रशेखरम्।
दुर्निरीक्ष्यैः स्वतेजोभिर्भासयन्तं दिशो दश॥४०॥
दिवाकरकराकारैर्गौरैरीषद्विलोहितैः।
एवमाकारमालोक्य विस्मिता विह्वला भिया॥४१॥
किं किं किमिदमाश्चर्यमन्यदेव मदीप्सितम्।
परं त्वन्यत् समुद्भूतमिति चिन्ताभृति स्वयम्॥४२॥
उद्वीक्षन्त्यां प्रणमितुं तस्यां कुतुकतायुजि।
ससृजुः पुष्पवर्षाणि देवा भुव्यन्तरिक्षगाः॥४३॥
कह्लारकलिकागन्धबन्धुरो मरुदाववौ।
दिशः प्रकाशिताकाशाः सा धरा सादरा बभौ॥४४॥
प्रायः प्रदक्षिणज्वाला जज्वलुर्यज्ञपावकाः।
प्रसन्नमभवच्चित्तं सतां प्रतपतामपि॥४५॥
इत्थमन्यद्विलोक्यापि प्रश्रिता विनयान्विता।
वृषाचलेशं निश्चित्य प्रादुर्भूतमतन्द्रिता॥४६॥
स्वामिन् दर्शय मे लीला बालभावक्रमोचिताः।
इत्थं सा प्रार्थयामास साध्वी भूयो महेश्वरम्॥४७॥
ततः किशोरवत्सोऽपि किञ्चिद्विचलिताधरः।
ताडयन् चरणौ हस्तौ रुरोदैव क्षणादसौ॥४८॥
आर्या साऽपि तदैवासीन्मायामोहितमानसा।
जगन्मोहकरी माया महेशितुरनीदृशी॥४९॥
तत्रत्यास्तु जना नार्यो नाविन्दन् वृत्तमीदृशम्।
बालकं मेनिरे प्रोद्यदिन्दुबिम्बमिवोज्ज्वलम्॥५०॥
तत्रत्या वृद्धनार्योऽपि यथोचितमथाचरन्।
ततः श्रुत्वा पिता सोऽपि निधिं प्राप्येव निर्धनः॥५१॥
मुमुदे नितरां चित्ते वित्तेशं नाभ्यलक्षत।
आविर्भावं तु जानाति शम्भोर्नाबोधयच्च सा॥५२॥
स्नात्वा शिवगुरुर्यज्वा यज्वनामग्रणीस्ततः।
विप्रानाकारयामास पुरन्ध्रीरपि सर्वतः॥५३॥
तदोत्सवो महानासीत् पुरे सद्मनि सन्ततम्।
धान्यराशिं मखिभ्योऽसौ विद्भ्यो भूयः प्रदत्तवान्॥५४॥
धनानि भूरि विप्रेभ्यो वेदविद्भ्यो दिदेश सः।
वासांसि भूयो दिव्यानि सफलानि प्रदत्तवान्॥५५॥
पुरन्ध्रीणां च नीरन्ध्रं वस्तुजातान्यदादसौ।
घटोघ्नीर्बहुशो गाश्च सालङ्काराः सदक्षिणाः॥५६॥
वृषाचलेशः सततं प्रीयतामित्यसौ ददौ।
ततः शिवगुरुर्यज्वा ब्राह्मणान् पूर्वतोऽधिकम्॥५७॥
सन्तर्प्य बन्धुभिः सार्धं मुदितो न्यवसत् सुधीः।
बालभावे विशालाक्षमतिविस्तृतवक्षसम्॥५८॥
आजानुलम्बितभुजं सुविशालनिटालकम्।
आरक्तोपान्तनयनविनिन्दितसरोरुहम्॥५९॥
मुखकान्तिपराभूतराकाहिमकराकृतिम्।
भासा गौर्या प्रसृतया प्रोद्यन्तमिव भास्करम्॥६०॥
शङ्खचक्रध्वजाकाररेखाचिह्नपदाम्बुजम्।
द्वात्रिंशल्लक्षणोपेतं विद्युदाभकलेवरम्॥६१॥
प्रमोदं दृष्टमात्रेण दिशन्तं तं स्तनन्धयम्।
पायम्पायं दृशा प्रेम्णा श्रीकृष्णमिव गोपिका॥६२॥
प्रपेदे न क्षणं तृप्तिं चकोरीव सुधाकरम्।
तादृशं बालकं दृष्ट्वा त्वार्याम्बा शुभलक्षणम्।
तिष्ठति स्म सुखेनैव लालयन्ती तनूभवम्॥६३॥
॥इति श्रीचिद्विलासीयश्रीशङ्करविजयविलासे श्रीशङ्करभगवत्पादाचार्याणाम् अवतारघट्टः सम्पूर्णः॥
काञ्च्यां सर्वज्ञपीठारोहण-घट्टः
पञ्चविंशोऽध्यायः
श्रीचक्रपश्चाद्भागे तु कामाक्षीं ज्ञानरूपिणीम्॥४४॥
प्रतिष्ठाप्य च पूजायै ब्राह्मणान् विनियुज्य च।
एकाम्रेश्वरपूजार्थं विप्रानादिश्य भूयसः॥४५॥
श्रीमद्वरदराजस्य नमस्यायै नियुज्य च।
सर्वज्ञपीठमारोढुमुत्सेहे देशिकोत्तमः॥४६॥
ततोऽशरीरिणी वाणी नभोमार्गाद् व्यजृम्भत।
भो यतिन् भवता सर्वविद्यास्वपि विशेषतः॥४७॥
कृत्वा प्रसङ्गं विद्वद्भिः जित्वा तान् अखिलानपि।
सर्वज्ञपीठमारोढुम् उचितं ननु भूतले॥४८॥
इति वाचं समाकर्ण्य किमेतदिति विस्मितः।
किञ्चिदालोचयन्नास्त किं करोमीति मानसे॥४९॥
ताम्रपर्णीसरित्तीरवासिनो विबुधास्तदा।
षड्दर्शिनीसुधावार्धिपारदृश्वगुणोन्नताः॥५०॥
आगत्य तं देशिकेन्द्रं प्रणिपत्येदमूचिरे।
भिदा सत्यमिवाभाति त्वया त्वैक्यं निगद्यते॥५१॥
देवभेदो मूर्तिभेदः प्रत्यक्षेणात्र लक्ष्यते।
स्वर्गादिफलभेदश्च सर्वशास्त्रविनिश्चितः॥५२॥
तत्प्रत्यक्षं च मिथ्येति कथयस्यधुना यते।
इति ब्रुवत्सु विद्वत्सु शङ्कराचार्यदेशिकः॥५३॥
शृणुतात्रोत्तरं विप्राः ब्रह्मैकं तु सनातनम्।
इन्द्रोपेन्द्रधनेन्द्राद्यास्तद्विभूतय एव हि॥५४॥
मृदि कुम्भो यथा भाति कनके कङ्कणं यथा।
जले वीचिर्यथा भाति तथेदं च विभाव्यते॥५५॥
यां देवतां भजन्ते ये तत्सारूप्यं प्रयान्ति ते।
ये वा पुण्यं चरन्तीह ते स्वर्गे फलभोगिनः॥५६॥
एको देव इति श्रुत्या जगत् सर्वं तदाकृतिः।
तद्भिन्नमन्यन्नास्त्येव वेदान्तैकविनिश्चितम्॥५७॥
तस्मादखण्डमात्मानमद्वयानन्दलक्षणम्।
ज्ञात्वा गुरुप्रसादेन मुक्ता भवत नान्यथा॥५८॥
श्रुतिस्मृतिपुराणोक्तैः वचनैरिति देशिकः।
भेदवादरतान् विप्रान् आधायाद्वैतपारगान्॥५९॥
ततस्ततो विपश्चिद्भिः प्रणतश्चातिभक्तितः।
गीतवादित्रनिर्घोषैः जयवादसमुज्ज्वलैः॥६०॥
आरुरोहाथ सर्वज्ञपीठं देशिकपुङ्गवः।
पुष्पवृष्टिः पपाताथ ववुर्वाताः सुगन्धयः॥६१॥
॥इति श्रीचिद्विलासीयश्रीशङ्करविजयविलासे श्रीशङ्करभगवत्पादाचार्याणां काञ्च्यां सर्वज्ञपीठारोहणघट्टः सम्पूर्णः॥
❀ ❀ ❀