श्री-सावित्री-व्रतम् — कामाक्षी-पूजा
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥
प्रार्थनाः समर्पयामि।
❀
प्रधान-पूजा — श्री-कामाक्षी-पूजा
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे उत्तरायणे शिशिर-ऋतौ कुम्भ-मासे (शुक्ल / कृष्ण)पक्षे ( ) शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां ( )-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
( ) शुभतिथौ श्रीपरमेश्वर-प्रीत्यर्थं कामाक्ष्याः प्रीत्यर्थं कामाक्ष्याः प्रसादेन मम दीर्घ सौमाङ्गल्य-अवाप्त्यर्थं मम भर्तुश्च अन्योन्यप्राप्त्यर्थम् अवियोगार्थं यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्रीकामाक्षी-पूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥
घण्टा-पूजा
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
षोडशोपचार-पूजा
एकाम्रनाथ-दयितां कामाक्षीं भुवनेश्वरीम्।
ध्यायामि हृदये देवीं वाञ्छितार्थप्रदायिनीम्॥
कामाक्षीं ध्यायामि।
सर्वमङ्गल-माङ्गल्ये शिवे सर्वार्थदायिनि।
आवाहयामि कुम्भेऽस्मिन् मम माङ्गल्य-सिद्धये॥
कामाक्षीम् आवाहयामि।
कामाक्षि वरदे देवि काञ्चनेन विनिर्मितम्।
भक्त्या दास्ये स्वीकुरुष्व वरदा भव चासनम्॥
कामाक्ष्यै नमः, आसनं समर्पयामि।
गङ्गादि-सर्व-तीर्थेभ्यः नदीभ्यश्च समाहृतम्।
पाद्यं सम्प्रददे देवि गृहाण त्वं शिवप्रिये॥
कामाक्ष्यै नमः, पाद्यं समर्पयामि।
कामाक्षि स्वर्ण-कलशेनाहृतं च मया शिवे।
मधुकैटभ-हन्त्रि त्वं ददाम्यर्घ्यं गृहाण भोः॥
कामाक्ष्यै नमः, अर्घ्यं समर्पयामि।
आचम्यतां महादेवि एलोशीर-सुवासितम्।
ददामि तीर्थममलं गृहीत्वा लोकरक्षके॥
कामाक्ष्यै नमः, आचमनीयं समर्पयामि।
मधुपर्कं मया देवि काञ्चीपुर-निवासिनि।
स्वीकृत्य दयया देहि चिरं मह्यं तु मङ्गलम्॥
कामाक्ष्यै नमः, मधुपर्कं समर्पयामि।
पञ्चामृतमिदं दिव्यं पञ्चपातक-नाशनम्।
पञ्चभूतात्मके देवि पाहि स्वीकृत्य शङ्करि॥
कामाक्ष्यै नमः, पञ्चामृत-स्नानं समर्पयामि।
स्नास्यतां पापनाशाय या प्रवृत्ता सुरापगा।
मयाऽर्पिता त्वं गृह्णीष्व प्रीता भव दयानिधे॥
कामाक्ष्यै नमः, स्नानं समर्पयामि।
दुकूलान्यम्बराणीह वस्त्राणि विविधानि च।
ददामि हरदेवीशि विद्याधिष्टान-पीठिके॥
कामाक्ष्यै नमः, वस्त्रं समर्पयामि।
उपवीतं मया प्रीत्यै काञ्चनेन विनिर्मितम्।
गृहीत्वा तव मे भक्तिं प्रयच्छ करुणानिधे॥
कामाक्ष्यै नमः, यज्ञोपवीतं समर्पयामि।
गन्धं सुवासितं रत्नं कुङ्कुमान्वितम् अम्बिके।
गङ्गानुजे देहि मह्यं दीर्घमङ्गल-सूत्रकम्॥
कामाक्ष्यै नमः, गन्धान् धारयामि। हरिद्राकुङ्कुमं समर्पयामि।
कार्पास-सूत्रं दास्यामि सुवर्णमणि-संयुतम्।
भूषणार्थं मयाऽऽनीतं देहि मे वरमुत्तमम्॥
कामाक्ष्यै नमः, मङ्गलसूत्रं समर्पयामि।
जातीचम्पक-पुन्नाग-केतकी-वकुलानि च।
मयाऽर्पितानि सुभगे गृहाण जननि मम॥
कामाक्ष्यै नमः, पुष्पाणि समर्पयामि।
अङ्ग-पूजा
| १. | कामाक्ष्यै नमः | पादौ पूजयामि |
| २. | कल्मषघ्न्यै नमः | गुल्फौ पूजयामि |
| ३. | विद्याप्रदायिन्यै नमः | जङ्घे पूजयामि |
| ४. | करुणामृत-सागरायै नमः | जानुनी पूजयामि |
| ५. | वरदायै नमः | ऊरू पूजयामि |
| ६. | काञ्चीनगर-वासिन्यै नमः | कटिं पूजयामि |
| ७. | कन्दर्प-जनन्यै नमः | नाभिं पूजयामि |
| ८. | पुरमथन-पुण्यकोट्यै नमः | वक्षः पूजयामि |
| ९. | महाज्ञान-दायिन्यै नमः | स्तनौ पूजयामि |
| १०. | लोकमात्रे नमः | कण्ठं पूजयामि |
| ११. | मायायै नमः | नेत्रे पूजयामि |
| १२. | मधुरवेणी-सहोदर्यै नमः | ललाटं पूजयामि |
| १३. | एकाम्र-नाथायै नमः | कर्णौ पूजयामि |
| १४. | कामकोटि-निलयायै नमः | शिरः पूजयामि |
| १५. | कामेश्वर्यै नमः | चिकुरं पूजयामि |
| १६. | कामितार्थ-दायिन्यै नमः | धम्मिल्लं पूजयामि |
| १७. | कामाक्ष्यै नमः | सर्वाण्यङ्गानि पूजयामि |
उत्तराङ्ग-पूजा
एकाम्रनाथ-दयिते काञ्चीपुर-निवासिनि।
धूपं गृहाण देवि त्वं सर्वाभीष्ट-प्रदायिनि॥
कामाक्ष्यै नमः, धूपम् आघ्रापयामि।
घृतवर्ति-समायुक्तं सर्वलोक-प्रकाशकम्।
दीपं गृह्णीष्व सुभगे वाञ्छितार्थ-प्रदायिनि॥
कामाक्ष्यै नमः, दीपं सन्दर्शयामि।
गुडापूपत्रयं देवि साढकं प्रददाम्यहम्।
नवनीतयुतं देवि मोदकापूपसंयुतम्॥
पायसं सघृतं दद्यां सफलं लड्डुकान्वितम्।
मम भर्तुस्सदा देवि गृहीत्वा प्रीतिदा भव॥
कामाक्ष्यै नमः, नैवेद्यं निवेदयामि।
पूगीफल-समायुक्तं नागवल्लिदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
कामाक्ष्यै नमः, कर्पूरताम्बूलं निवेदयामि।
कर्पूरदीपं सुभगे सर्वमङ्गल-वर्धनम्।
सर्वव्याधिहरं देवि गृह्यताम् अम्बिके शिवे॥
कामाक्ष्यै नमः, मम दीर्घसौमङ्गल्य-सिद्ध्यर्थं कर्पूर-नीराञ्जनं सन्दर्शयामि।
कान्ता कामदुघा करीन्द्रगमना कामारिवामाङ्कगा
कल्याणी कलितावतारसुभगा कस्तूरिकाचर्चिता।
कम्पातीररसालमूलनिलया कारुण्यकल्लोलिनी
कल्याणानि करोतु मे भगवती काञ्चीपुरीदेवता॥
मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे।
मङ्गलाढ्ये मङ्गलेशे मङ्गलं देहि मे भवे॥
नमो देव्यै महादेव्यै लोकमात्रे नमो नमः।
शिवायै शिवरूपिण्यै भक्ताभीष्टप्रदा भव॥
कामाक्षि काञ्चिनिलये मम माङ्गल्यवृद्धये।
नमस्करोमि देवेशि मह्यं कुरु दयां शिवे॥
कामाक्ष्यै नमः, अनन्तकोटि-प्रदक्षिण-नमस्कारान् समर्पयामि।
कामाक्षी स्वरूपस्य ब्राह्मणस्य इदमासनम् — सकलाराधनैः स्वर्चितम्।
कामाक्षी काम-वृद्ध्यर्थं मम माङ्गल्य-सिद्धये।
उपायनं प्रदास्यामि ददामोघं वरं मम॥
इदं हिरण्यं सदक्षिणाकं सताम्बूलं कामाक्षी-स्वरूपाय ब्राह्मणाय सम्प्रददे न मम॥
दोर-बन्धनम्
दोरं गृह्णामि सुभगे सहारिद्रं धराम्यहम्।
भर्तुरायुष्य-सिद्ध्यर्थं सुप्रीता भव सर्वदा॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि।॥
❀
श्री-कामाक्षी-चूर्णिका
श्री-चन्द्र-मौलीश्वराय नमः। श्री-कामाक्षी-देव्यै नमः।
जय जय श्री-काम-गिरीन्द्र-निलये!
जय जय श्री-कामकोटि-पीठ-स्थिते!
जय जय श्री-त्रिचत्वारिंशत्-कोण-श्रीचक्रान्तराल-बिन्दु-पीठोपरि-लसत्-पञ्च-ब्रह्म-मय-मञ्च-मध्य-स्थ-श्री-शिव-कामेश-वामाङ्क-निलये!
जय जय श्री-विधि-हरि-हर-सुर-गण-वन्दित-चरणारविन्द-युगले!
जय जय श्री-रमा-वाणीन्द्राणी-प्रमुख-रमणी-कर-कमल-समर्पित-चरण-कमले!
जय जय श्री-निखिल-निगमागम-सकल-संवेद्यमान-विविध-वस्त्रालङ्कृत-हेम-निर्मित-अनर्घ-भूषण-भूषित-दिव्य-मूर्ते!
जय जय श्रीमद्-अनवरताभिषेक-धूप-दीप-नैवेद्यादि-नाना-विधोपचारैः परिशोभिते!
जय जय श्री-काञ्ची-नगर्यां द्वात्रिंशद्-धर्म-प्रतिपादनार्थ-स्थापित-हेम-ध्वजालङ्कृते!
जय जय श्री-सकल-मन्त्र-तन्त्र-यन्त्र-मय-परा-बिलाकाश-स्वरूपे!
जय जय श्री-काञ्ची-नगर्यां कामाक्षीति प्रख्यात-नामाङ्किते!
जय जय श्री-महात्रिपुरसुन्दरि बहु पराक्!
अपराध-क्षमापनम्
यस्य स्मृत्या च नामोक्त्या तपः-पूजा-क्रियादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
सर्वं तत्सद्ब्रह्मार्पणमस्तु।
❀
पतिव्रतामाहात्म्यपर्व
चतुर्नवत्यधिकद्विशततमोऽध्यायः॥२९४
युधिष्ठिर उवाच
नाऽऽत्मानमनुशोचामि नेमान् भ्रातॄन् महामुने।
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम्॥१॥
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम्।
जयद्रथेन च पुनर्वनाच्चापि हृता बलात्॥२॥
अस्ति सीमन्तिनी काचिद् दृष्टपूर्वाऽपि वा श्रुता।
पतिव्रता महाभागा यथेयं द्रुपदात्मजा॥३॥
मार्कण्डेय उवाच
शृणु राजन् कुलस्त्रीणां महाभाग्यं युधिष्ठिर।
सर्वमेतद् यथाप्राप्तं सावित्र्या राजकन्यया॥४॥
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः।
ब्रह्मण्यश्च महात्मा च सत्यसन्धो जितेन्द्रियः॥५॥
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः।
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः॥६॥
क्षमावाननपत्यश्च सत्यवाग् विजितेन्द्रियः।
अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान्॥७॥
अपत्योत्पादनार्थं च तीव्रं नियममास्थितः।
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः॥८॥
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम।
षष्ठे षष्ठे तदाकाले बभूव मितभोजनः॥९॥
एतेन नियमेनासीद् वर्षाण्यष्टादशैव तु।
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात्॥१०॥
रूपिणी तु तदा राजन् दर्शयामास तं नृपम्।
अग्निहोत्रात् समुत्थाय हर्षेण महताऽन्विता॥११॥
उवाच चैनं वरदा वचनं पार्थिवं तदा।
सा तमश्वपतिं राजन् सावित्री नियमे स्थितम्॥१२॥
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च।
सर्वात्मना च भक्त्या च तुष्टाऽस्मि तव पार्थिव॥१३॥
वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम्।
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन॥१४॥
अश्वपतिरुवाच
अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया।
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः॥१५॥
तुष्टाऽसि यदि मे देवि वरमेतं वृणोम्यहम्।
सन्तानं परमो धर्म इत्याहुर्मां द्विजातयः॥१६॥
सावित्र्युवाच
पूर्वमेव मया राजन्नभिप्रायमिमं तव।
ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः॥१७॥
प्रसादाच्चैव तस्मात् ते स्वयं विहितवत्यहम्।
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति॥१८॥
उत्तरं च न ते किञ्चिद् व्याहर्तव्यं कथञ्चन।
पितामहनियोगेन तुष्टा ह्येतद् ब्रवीमि ते॥१९॥
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः।
प्रसादयामास पुनः क्षिप्रमेतद् भविष्यति॥२०॥
अन्तर्हितायां सावित्र्यां जगाम स्वपुरं नृपः।
स्वराज्ये चावसद् वीरः प्रजा धर्मेण पालयन्॥२१॥
कस्मिंश्चित्तु गते काले स राजा नियतव्रतः।
ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे॥२२॥
राजपुत्र्यास्तु गर्भः स मानव्या भरतर्षभ।
व्यवर्धत तदा शुक्ले तारापतिरिवाम्बरे॥२३॥
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम्।
क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तमः॥२४॥
सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि।
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता॥२५॥
सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा।
कालेन चापि सा कन्या यौवनस्ता बभूव ह॥२६॥
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव।
प्राप्तेयं देवकन्येति दृष्ट्वा सम्मेनिरे जनाः॥२७॥
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा।
न कश्चिद् वरयामास तेजसा प्रतिवारितः॥२८॥
अथोपोष्य शिरःस्नाता देवतामभिगम्य सा।
हुत्वाऽग्निं विधिवद् विप्रान् वाचयामास पर्वणि॥२९॥
ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः।
पितुः समीपमगमद् देवी श्रीरिव रूपिणी॥३०॥
साऽभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च।
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वमास्थिता॥३१॥
यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम्।
अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत्॥३२॥
राजोवाच
पुत्रि प्रदानकालस्ते न च कश्चिद् वृणोति माम्।
स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः॥३३॥
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम।
विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम्॥३४॥
श्रुतं हि धर्मशास्त्रेषु पठ्यमानं द्विजातिभिः।
तथा त्वमपि कल्याणि गदतो मे वचः शृणु॥३५॥
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः।
मृते पितरि पुत्रश्च वाच्यो मातुररक्षिता॥३६॥
इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर।
देवतानां यथा याच्यो न भवेयं तथा कुरु॥३७॥
एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः।
व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत्॥३८॥
साऽभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी।
पितुर्वचनमाज्ञाय निर्जगामाविचारितम्॥३९॥
सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता।
तपोवनानि रम्याणि राजर्षीणां जगाम ह॥४०॥
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम्।
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत॥४१॥
एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा।
कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह॥४२॥
॥इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि चतुर्नवत्यधिकद्विशततमोऽध्यायः॥२९४॥
पञ्चनवत्यधिकद्विशततमोऽध्यायः॥२९५
मार्कण्डेय उवाच
अथ मद्राधिपो राजा नारदेन समागतः।
उपविष्टः सभामध्ये कथायोगेन भारत॥१॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा।
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः॥२॥
नारदेन सहाऽऽसीनं सा दृष्ट्वा पितरं शुभा।
उभयोरेव शिरसा चक्रे पादाभिवादनम्॥३॥
नारद उवाच
क्व गताऽभूत्सुतेयं ते कुतश्चैवाऽऽगता नृप।
किमर्थं युवतीं भद्र न चैनां सम्प्रयच्छसि॥४॥
अश्वपतिरुवाच
कार्येण खल्वनेनैव प्रेषिताऽद्यैव चाऽऽगता।
एतस्याः शृणु देवर्षे भर्तारं योऽनया वृतः॥५॥
मार्कण्डेय उवाच
सा ब्रूहि विस्तरेणेति पित्रा सञ्चोदिता शुभा।
तदैव तस्य वचनं प्रतिगृह्येदमब्रवीत्॥६॥
आसीत् साल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः।
द्युमत्सेन इति ख्यातः पश्चाच्चान्धो बभूव ह॥७॥
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः।
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन् पूर्ववैरिणा॥८॥
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्।
महारण्यं गतश्चापि तपस्तेपे महाव्रतः॥९॥
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने।
सत्यवाननुरूपो मे भर्तेति मनसा वृतः॥१०॥
नारद उवाच
अहो बत महत्पापं सावित्र्या नृपते कृतम्।
अजानन्त्या यदनया गुणवान् सत्यवान् वृतः॥११॥
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते।
तथाऽस्य ब्राह्मणाश्चक्रुर्नामैतत् सत्यवानिति॥१२॥
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान्।
चित्रेऽपि विलिखत्यश्वांश्चित्राश्व इति चोच्यते॥१३॥
राजोवाच
अपीदानीं स तेजस्वी बुद्धिमान् वा नृपात्मजः।
क्षमावानपि वा शूरः सत्यवान् पितृवत्सलः॥१४॥
नारद उवाच
विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ।
महेन्द्र इव वीरश्च वसुधेव क्षमान्वितः॥१५॥
अश्वपतिरुवाच
अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान्।
रूपवानप्युदारो वाऽप्यथवा प्रियदर्शनः॥१६॥
नारद उवाच
साङ्कृते रन्तिदेवस्य स्वशक्त्या दानतः समः।
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा॥१७॥
ययातिरिव चोदारः सोमवत्प्रियदर्शनः।
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली॥१८॥
स वदान्यः स तेजस्वी धीमांश्चैव क्षमान्वितः।
स दान्तः स मृदुः शूरः स सत्यः संयतेन्द्रियः।
सन्मैत्रः सोऽनसूयश्च स ह्रीमान् द्युतिमांश्च सः॥१९॥
नित्यशश्चार्जवं तस्मिन् धृतिस्तत्रैव च ध्रुवा।
सङ्क्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते॥२०॥
अश्वपतिरुवाच
गुणैरुपेतं सर्वैस्तं भगवन् प्रब्रवीषि मे।
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन॥२१॥
नारद उवाच
एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति।
स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम्॥२२॥
एको दोषोऽस्ति नान्योऽस्य सोऽद्यप्रभृति सत्यवान्।
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति॥२३॥
राजोवाच
एहि सावित्रि गच्छस्व अन्यं वरय शोभने।
तस्य दोषो महानेको गुणानाक्रम्य च स्थितः॥२४॥
यथा मे भगवानाह नारदो देवसत्कृतः।
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति॥२५॥
सावित्र्युवाच
सकृदंशो निपतति सकृत्कन्या प्रदीयते।
सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत्॥२६॥
दीर्घायुरथवाऽल्पायुः सगुणो निर्गुणोऽपि वा।
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम्॥२७॥
मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते।
क्रियते कर्मणा पश्चात् प्रमाणं मे मनस्ततः॥२८॥
नारद उवाच
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव।
नैषा वारयितुं शक्या धर्मादस्मात् कथञ्चन॥२९॥
नान्यस्मिन् पुरुषे सन्ति ये सत्यवति वै गुणाः।
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव॥३०॥
राजोवाच
अविचाल्यमेतदुक्तं तथ्यं च भवता वचः।
करिष्याम्येतदेवं च गुरुर्हि भगवान् मम॥३१॥
नारद उवाच
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव।
साधयिष्याम्यहं तावत् सर्वेषां भद्रमस्तु वः॥३२॥
मार्कण्डेय उवाच
एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः।
राजाऽपि दुहितुः सज्जं वैवाहिकमकारयत्॥३३॥
॥इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि पञ्चनवत्यधिकद्विशततमोऽध्यायः॥२९५॥
षण्णवत्यधिकद्विशततमोऽध्यायः॥२९६
मार्कण्डेय उवाच
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्।
समानित्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः॥१॥
ततो वृद्धान् द्विजान् सर्वानृत्विक्सभ्यपुरोहितान्।
समाहूय दिने पुण्ये प्रययौ सह कन्यया॥२॥
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः।
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत्॥३॥
तत्रापश्यन्महाभागं सालवृक्षमुपाश्रितम्।
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा॥४॥
स राजा तस्य राजर्षेः कृत्वा पूजां यथाऽर्हतः।
वाचा सुनियतो भूत्वा चकाराऽऽत्मनिवेदनम्॥५॥
तस्यार्घ्यमासनं चैव गां चाऽऽवेद्य स धर्मवित्।
किमागमनमित्येवं राजा राजानमब्रवीत्॥६॥
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम्।
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत्॥७॥
सावित्री नाम राजर्षे कन्येयं मम शोभना।
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे॥८॥
द्युमत्सेन उवाच
च्युताः स्म राज्याद् वनवासमाश्रिताश्-
चराम धर्मं नियतास्तपस्विनः।
कथं त्वनर्हा वनवासमाश्रमे
सहिष्यति क्लेशमिमं सुता तव॥९॥
अश्वपतिरुवाच
सुखं च दुःखं च भवाभवात्मकं
यदा विजानाति सुताऽहमेव च।
न मद्विधे युज्यति वाक्यमीदृशं
विनिश्चयेनाभिगतोऽस्मि ते नृप॥१०॥
आशां नार्हसि मे हन्तुं सौहृदात् प्रणतस्य च।
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि॥११॥
अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च।
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्ततः॥१२॥
द्युमत्सेन उवाच
पूर्वमेवाभिलषितः सम्बन्धो मे त्वया सह।
भ्रष्टराज्यस्त्वहमिति तत एतद् विचारितम्॥१३॥
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः।
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः॥१४॥
ततः सर्वान् समानाय्य द्विजानाश्रमवासिनः।
यथाविधि समुद्वाहं कारयामासतुर्नृपौ॥१५॥
दत्त्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम्।
ययौ स्वमेव भवनं युक्तः परमया मुदा॥१६॥
सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम्।
मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम्॥१७॥
गते पितरि सर्वाणि सन्न्यस्याऽऽभरणानि सा।
जगृहे वल्कलान्येव वस्त्रं काषायमेव च॥१८॥
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च।
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे॥१९॥
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः।
श्वशुरं देवसत्कारैर्वाचः संयमनेन च॥२०॥
तथैव प्रियवादेन नैषुणेन शमेन च।
रहश्चैवोपचारेण भर्तारं पर्यतोषयत्॥२१॥
एवं तत्राऽऽश्रमे तेषां तदा निवसतां सताम्।
कालस्तपस्यतां कश्चिदपाक्रामत भारत॥२२॥
सावित्र्या ग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम्।
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते॥२३॥
॥इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि षण्णवत्यधिकद्विशततमोऽध्यायः॥२९६॥
सप्तनवत्यधिकद्विशततमोऽध्यायः॥२९७
मार्कण्डेय उवाच
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन।
प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप॥१॥
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते।
यद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः॥२॥
चतुर्थेऽहनि मर्तव्यमिति सञ्चिन्त्य भामिनी।
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽभवत्॥३॥
त्रयोदश्यां चोपवासं प्रतिपत्सु च पारणम्।
आयुष्यं वर्धते भर्तुर्व्रतेनानेन भारत॥४॥
तं श्रुत्वा नियमं तस्या भृशं दुःखान्वितो नृपः।
उत्थाय वाक्यं सावित्रीमब्रवीत् परिसान्त्वयन्॥५॥
अतितीव्रोऽयमारम्भस्त्वयाऽऽरब्धो नृपात्मजे।
तिसृणां वसतीनां हि स्थानं परमदुश्चरम्॥६॥
सावित्र्युवाच
न कार्यस्तात सन्तापः पारयिष्याम्यहं व्रतम्।
व्यवसायकृतं हीदं व्यवसायश्च कारणम्॥७॥
द्युमत्सेन उवाच
व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन।
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत्॥८॥
मार्कण्डेय उवाच
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः।
तिष्ठन्ती चैव सावित्री काष्ठभूतेव लक्ष्यते॥९॥
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ।
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत॥१०॥
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम्।
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः॥११॥
व्रतं समाप्य सावित्री स्नात्वा शुद्धा यशस्विनी।
ततः सर्वान् द्विजान् वृद्धाञ्श्वश्रूं श्वशुरमेव च।
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता॥१२॥
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः।
ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः॥१३॥
एवमस्त्विति सावित्री ध्यानयोगपरायणा।
मनसा ता गिरः सर्वाः प्रत्यगृह्णात् तपस्विनी॥१४॥
तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा।
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता॥१५॥
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम्।
एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम॥१६॥
व्रतं यथोपदिष्टं तु तथा तत्पारितं त्वया।
आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम्॥१७॥
सावित्र्युवाच
अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया।
एष मे हृदि सङ्कल्पः समयश्च कृतो मया॥१८॥
मार्कण्डेय उवाच
एवं सम्भाषमाणायाः सावित्र्या भोजनं प्रति।
स्कन्धे परशुमादाय सत्यवान् प्रस्थितो वनम्॥१९॥
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि।
सह त्वया गमिष्यामि न हित्वां हातुमुत्सहे॥२०॥
सत्यवानुवाच
वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि।
व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि॥२१॥
सावित्र्युवाच
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः।
गमने च कृतोत्साहां प्रतिषेद्धुं न माऽर्हसि॥२२॥
सत्यवानुवाच
यदि ते गमनोत्साहः करिष्यामि तव प्रियम्।
मम त्वाऽऽमन्त्रय गुरून्न मां दोषः स्पृशेदयम्॥२३॥
मार्कण्डेय उवाच
साऽभिवाद्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता।
अयं गच्छति मे भर्ता फलाहारो महावनम्॥२४॥
इच्छेयमभ्यनुज्ञाता आर्यया श्वशुरेण ह।
अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः॥२५॥
गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव।
न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम्॥२६॥
संवत्सरः किञ्चिदूनो न निष्क्रान्ताऽहमाश्रमात्।
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे॥२७॥
द्युमत्सेन उवाच
यदा प्रभृति सावित्री पित्रा दत्ता स्नुषा मम।
नानयाऽभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्॥२८॥
तदेषा लभतां कामं यथाऽभिलषितं वधूः।
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि॥२९॥
मार्कण्डेय उवाच
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी।
सहभर्त्रा हसन्तीव हृदयेन विदूयता॥३०॥
सा वनानि विचित्राणि रमणीयानि सर्वशः।
मयूरगणजुष्टानि ददर्श विपुलेक्षणा॥३१॥
नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान्।
सत्यवानाह पश्येति सावित्रीं मधुरं वचः॥३२॥
निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता।
मृतमेव हि तं मेने काले मुनिवचः स्मरन्॥३३॥
अनुव्रजन्ती भर्तारं जगाम मृदुगामिनी।
द्विधेव हृदयं कृत्वा तं च कालमवेक्षती॥३४॥
॥इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि सप्तनवत्यधिकद्विशततमोऽध्यायः॥२९७॥
अष्टनवत्यधिकद्विशततमोऽध्यायः॥२९८
मार्कण्डेय उवाच
अथ भार्यासहायः स फलान्यादाय वीर्यवान्।
कठिनं पूरयामास ततः काण्ठान्यपाटयत्॥१॥
तस्य पाटयतः काष्ठं स्वेदो वै समजायत।
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना॥२॥
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः।
व्यायामेन ममानेन जाता शिरसि वेदना॥३॥
अङ्गानि चैव सावित्रि हृदयं दूयतीव च।
अस्वस्थमिव चाऽऽत्मानं लक्षये मितभाषिणि॥४॥
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम्।
भ्रमन्तीव दिशः सर्वाश्चक्रारूढं मनो मम।
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे॥५॥
सा समासाद्य सावित्री भर्तारमुपगम्य च।
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले॥६॥
ततः सा नारदवचो विमृशन्ती तपस्विनी।
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह॥७॥
हन्त प्राप्तः स कालोऽयमिति चिन्तापरा सती।
मुहूर्तादेव चापश्यत् पुरुषं रक्तवाससम्।
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम्॥८॥
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम्।
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च॥९॥
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः।
कृताञ्जलिरुवाचाऽऽर्ता हृदयेन प्रवेपती॥१०॥
दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम्।
कामया ब्रूहि देवेश कस्त्वं किं च चिकीर्षसि॥११॥
यम उवाच
पतिव्रताऽसि सावित्रि तथैव च तपोन्विता।
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम्॥१२॥
अयं ते सत्यवान् भर्ता क्षीणायुः पार्थिवात्मजः।
नेष्यामि तमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम्॥१३॥
सावित्र्युवाच
श्रूयते भगवन् दूतास्तवाऽऽगच्छन्ति मानवान्।
नेतुं किल भवान् कस्मादागतोऽसि स्वयं प्रभो॥१४॥
मार्कण्डेय उवाच
इत्युक्तः पितृराजस्तां भगवान् स्वचिकीर्षितम्।
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे॥१५॥
अयं च धर्मसंयुक्तो रूपवान् गुणसागरः।
नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः॥१६॥
ततः सत्यवतः कायात् पाशबद्धं वशङ्गतम्।
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्॥१७॥
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम्।
निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम्॥१८॥
यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः।
सावित्री चैव दुःखार्ता यममेवान्वगच्छत॥१९॥
भर्तुः शरीररक्षां च विधाय हि तपस्विनी।
भर्तारमनुगच्छन्ती तथावस्थं सुमध्यमा।
नियमव्रतसंसिद्धा महाभागा पतिव्रता॥२०॥
यम उवाच
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदैहिकम्।
कृतं भर्तुस्त्वयाऽऽनृण्यं यावद्गम्यं गतं त्वया॥२१॥
सावित्र्युवाच
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति।
मया च तत्र गन्तव्यमेष धर्मः सनातनः॥२२॥
तपसा गुरुभक्त्या च भर्तुः स्नेहाद् व्रतेन च।
तव चैव प्रसादेन न मे प्रतिहता गतिः॥२३॥
प्राहुः साप्तपदं मैत्रं बुधास्तत्त्वार्थदर्शिनः।
मित्रतां च पुरस्कृत्य किञ्चिद् वक्ष्यामि तच्छृणु॥२४॥
नानात्मवन्तस्तु वने चरन्ति
धर्मं च वासं च परिश्रमं च।
विज्ञानतो धर्ममुदाहरन्ति
तस्मात् सन्तो धर्ममाहुः प्रधानम्॥२५॥
एकस्य धर्मेण सतां मतेन
सर्वे स्म तं मार्गमनुप्रपन्नाः।
मा वै द्वितीयं मा तृतीयं च वाञ्छे
तस्मात् सन्तो धर्ममाहुः प्रधानम्॥२६॥
यम उवाच
निवर्त तुष्टोऽस्मि तवानया गिरा
स्वराक्षरव्यञ्जनहेतुयुक्तया।
वरं वृणीष्वेह विनाऽस्य जीवितं
ददानि ते सर्वमनिन्दिते वरम्॥२७॥
सावित्र्युवाच
च्युतः स्वराज्याद् वनवासमाश्रितो
विनष्टचक्षुः श्वशुरो ममाऽऽश्रमे।
स लब्धचक्षुर्बलवान् भवेन्नृपस्-
तव प्रसादाज्ज्वलनार्कसन्निभः॥२८॥
यम उवाच
ददानि तेऽहं तमनिन्दिते वरं
यथा त्वयोक्तं भविता च तत् तथा।
तवाध्वना ग्लानिमिवोपलक्षये
निवर्त गच्छस्व न ते श्रमो भवेत्॥२९॥
सावित्र्युवाच
श्रमः कुतो भर्तृसमीपतो हि मे
यतो हि भर्ता मम सा गतिर्ध्रुवा।
यतः पतिं नेष्यसि तत्र मे गतिः
सुरेश भूयश्च वचो निबोध मे॥३०॥
सतां सकृत्सङ्गतमीप्सितं परं
ततः परं मित्रमिति प्रचक्षते।
न चाफलं सत्पुरुषेण सङ्गतं
ततः सतां सन्निवसेत् समागमे॥३१॥
यम उवाच
मनोऽनुकूलं बुधबुद्धिवर्धनं
त्वया यदुक्तं वचनं हिताश्रयम्।
विना पुनः सत्यवतोऽस्य जीवितं
वरं द्वितीयं वरयस्व भामिनि॥३२॥
सावित्र्युवाच
हृतं पुरा मे श्वशुरस्य धीमतः
स्वमेव राज्यं लभतां स पार्थिवः।
जह्यात् स्वधर्मान्न च मे गुरुर्यथा
द्वितीयमेतद् वरयामि ते वरम्॥३३॥
यम उवाच
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरान्-
न च स्वधर्मात् परिहीयते नृपः।
कृतेन कामेन मया नृपात्मजे
निवर्त गच्छस्व न ते श्रमो भवेत्॥३४॥
सावित्र्युवाच
प्रजास्त्वयैता नियमेन संयता
नियम्य चैता नयसे निकामया।
ततो यमत्वं तव देव विश्रुतं
निबोध चेमां गिरमीरितां मया॥३५॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च सतां धर्मः सनातनः॥३६॥
एवं प्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः।
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते॥३७॥
यम उवाच
पिपासितस्येव भवेद् यथा पयस्-
तथा त्वया वाक्यमिदं समीरितम्।
विना पुनः सत्यवतोऽस्य जीवितं
वरं वृणीष्वेह शुभे यदिच्छसि॥३८॥
सावित्र्युवाच
ममानपत्यः पृथिवीपतिः पिता
भवत्पितुः पुत्रशतं तथौरसम्।
कुलस्य सन्तानकरं च यद्भवेत्
तृतीयमेतद् वरयामि ते वरम्॥३९॥
यम उवाच
कुलस्य सन्तानकरं सुवर्चसं
शतं सुतानां पितुरस्तु ते शुभे।
कृतेन कामेन नराधिपात्मजे
निवर्त दूरं हि पथस्त्वमागता॥४०॥
सावित्र्युवाच
न दूरमेतन्मम भर्तृसन्निधौ
मनो हि मे दूरतरं प्रधावति।
अथ व्रजन्नेव गिरं समुद्यतां
मयोच्यमानां शृणु भूय एव च॥४१॥
विवस्वतस्त्वं तनयः प्रतापवान्स्-
ततो हि वैवस्वत उच्यसे बुधैः।
समेन धर्मेण चरन्ति ताः प्रजास्-
ततस्तवेहेश्वर धर्मराजता॥४२॥
आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः।
तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति॥४३॥
सौःहृदात्सर्वभूतानां विश्वासो नाम जायते।
तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः॥४४॥
यम उवाच
उदाहृतं ते वचनं यदङ्गने
शुभे न तादृक् त्वदृते श्रुतं मया।
अनेन तुष्टोऽस्मि विनाऽस्य जीवितं
वरं चतुर्थं वरयस्व गच्छ च॥४५॥
सावित्र्युवाच
ममात्मजं सत्यवतस्तथौरसं
भवेदुभाभ्यामिह यत्कुलोद्वहम्।
शतं सुतानां बलवीर्यशालिना-
मिदं चतुर्थं वरयामि ते वरम्॥४६॥
यम उवाच
शतं सुतानां बलवीर्यशालिनां
भविष्यति प्रीतिकरं तवाबले।
परिश्रमस्ते न भवेन्नृपात्मजे
निवर्त दूरं हि पथस्त्वमागता॥४७॥
सावित्र्युवाच
सतां सदा शाश्वतधर्मवृत्तिः
सन्तो न सीदन्ति न च व्यथन्ति।
सतां सद्भिर्नाफलः सङ्गमोऽस्ति
सद्भ्यो भयन्नानुवर्तन्ति सन्तः॥४८॥
सन्तो हि सत्येन नयन्ति सूर्यं
सन्तो भूमिं तपसा धारयन्ति।
सन्तो गतिर्भूतभव्यस्य राजन्
सतां मध्ये नावसीदन्ति सन्तः॥४९॥
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाः॥५०॥
न च प्रसादः सत्पुरुषेषु मोघो
न चाप्यर्थो नश्यति नापि मानः।
यस्मादेतन्नियतं सत्सु नित्यं
तस्मात्सन्तो रक्षितारो भवन्ति॥५१॥
यम उवाच
यथा यथा भाषसि धर्मसंहितं
मनोनुकूलं सुपदं महार्थवत्।
तथा तथा मे त्वयि भक्तिरुत्तमा
वरं वृणीष्वाप्रतिमं पतिव्रते॥५२॥
सावित्र्युवाच
न तेऽपवर्गः सुकृताद्विना कृतस्-
तथा यथाऽन्येषु वरेषु मानद।
वरं वृणे जीवतु सत्यवानयं
यथा मृता ह्येवमहं पतिं विना॥५३॥
न कामये भर्तृविनाकृता सुखं
न कामये भर्तृविनाकृता दिवम्।
न कामये भर्तृविनाकृता श्रियं
न भर्तृहीना व्यवसामि जीवितुम्॥५४॥
वरातिसर्गः शतपुत्रता मम
त्वयैव दत्तो ह्रियते च मे पतिः।
वरं वृणे जीवतु सत्यवानयं
तवैव सत्यं वचनं भविष्यति॥५५॥
मार्कण्डेय उवाच
तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः।
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत्॥५६॥
[यम उवाच]
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि।
तोषितोऽहं त्वया साध्वि वाक्यैर्धर्मार्थसंहितैः॥५७॥
अरोगस्तव नेयश्च सिद्धार्थः स भविष्यति।
चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति॥५८॥
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति।
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति॥५९॥
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः।
ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः॥६०॥
पितुश्च ते पुत्रशतं भविता तव मातरि।
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः।
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः॥६१॥
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान्।
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ॥६२॥
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च।
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम्॥६३॥
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगृह्य च।
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह॥६४॥
संज्ञां च स पुनर्लब्ध्वा सावित्रीमभ्यभाषत।
प्रोष्यागत इव प्रेम्णा पुनःपुनरुदीक्ष्य वै॥६५॥
सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः।
क्व चासौ पुरुषः श्यामो योऽसौ मां सञ्चकर्ष ह॥६६॥
सावित्र्युवाच
सुचिरं त्वं प्रसुप्तोऽसि ममाङ्के पुरुषर्षभ।
गतः स भगवान् देवः प्रजासंयमनो यमः॥६७॥
विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज।
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम्॥६८॥
मार्कण्डेय उवाच
उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः।
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान्॥६९॥
फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे।
ततः पाटयतः काष्ठं शिरसो मे रुजाऽभवत्॥७०॥
शिरोभितापसन्तप्तः स्थातुं चिरमशक्नुवन्।
तवोत्सङ्गे प्रसुप्तोऽस्मि इति सर्वं स्मरे शुभे॥७१॥
त्वयोपगूढस्य च मे निद्रयाऽपहृतं मनः।
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम्॥७२॥
तद्यदि त्वं विजानासि किं तद् ब्रूहि सुमध्यमे।
स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत्॥७३॥
तमुवाचाथ सावित्री रजनी व्यवगाहते।
श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज॥७४॥
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत।
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः॥७५॥
नक्तञ्चराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः।
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने॥७६॥
एता घोरं शिवा नादान् दिशं दक्षिणपश्चिमाम्।
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम॥७७॥
सत्यवानुवाच
वनं प्रतिभयाकारं घनेन तमसा वृतम्।
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि॥७८॥
सावित्र्युवाच
अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन्।
वायुना धम्यमानोऽत्र दृश्यतेऽग्निः क्वचित् क्वचित्॥७९॥
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः।
काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः॥८०॥
यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये।
न च ज्ञास्यसि पन्थानं तमसा संवृते वने॥८१॥
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव।
वसावेह क्षपामेकां रुचितं यदि तेऽनघ॥८२॥
सत्यवानुवाच
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये।
मातापितृभ्यामिच्छामि संयोगं त्वत्प्रसादजम्॥८३॥
न कदाचिद् विकाले हि गतपूर्वोऽहमाश्रमात्।
अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम्॥८४॥
दिवाऽपि मयि निष्क्रान्ते सन्तप्येते गुरू मम।
विचिनोति हि मां तातः सहैवाऽऽश्रमवासिभिः॥८५॥
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा।
उपालब्धश्च बहुशश्चिरेणाऽऽगच्छसीति हि॥८६॥
का त्ववस्था तयोरद्य मदर्थमिति चिन्तये।
तयोरदृश्ये मयि च महद्दुःखं भविष्यति॥८७॥
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ।
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ॥८८॥
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक।
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम्॥८९॥
वृद्धयोरन्धयोर्दृष्टिस्त्वयि वंशः प्रतिष्ठितः।
त्वयि पिण्डश्च कीर्तिश्च सन्तानश्चावयोरिति॥९०॥
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल।
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः॥९१॥
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम।
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी॥९२॥
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः।
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे॥९३॥
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम।
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम्॥९४॥
नाऽऽत्मानमनुशोचामि यथाऽहं पितरं शुभे।
भर्तारं चाप्यनुगतां मातरं भृशदुःखिताम्॥९५॥
मत्कृते न हि तावद्य सन्तापं परमेष्यतः।
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह॥९६॥
तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम्।
परमं दैवतं तौ मे पूजनीयौ सदा मया।
तयोस्तु मे सदाऽस्त्येवं व्रतमेतत् पुरातनम्॥९७॥
मार्कण्डेय उवाच
एवमुक्त्वा स धर्मात्मा गुरुभक्तो गुरुप्रियः।
उच्छ्रित्य बाहू दुःखार्तः सुस्वरं प्ररुरोद ह॥९८॥
ततोऽब्रवीत् तथा दृष्ट्वा भर्तारं शोककर्शितम्।
प्रमृज्याश्रूणि पाणिभ्यां सावित्री धर्मचारिणी॥९९॥
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि।
श्वश्रूश्वशुरभर्तॄणां मम पुण्याऽस्तु शर्वरी॥१००॥
न स्मराम्युक्तपूर्वं वै स्वैरेष्वप्यनृतां गिरम्।
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम॥१०१॥
सत्यवानुवाच
कामये दर्शनं पित्रोर्याहि सावित्रि मा चिरम्।
अपि नाम गुरू तौ हि पश्येयं ध्रियमाणकौ॥१०२॥
पुरा मातुः पितुर्वाऽपि यदि पश्यामि विप्रियम्।
न जीविष्ये वरारोहे सत्येनाऽऽत्मानमालभे॥१०३॥
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि।
मम प्रियं वा कर्तव्यं गच्छावाश्रममन्तिकात्॥१०४॥
मार्कण्डेय उवाच
सावित्री तत उत्थाय केशान् संयम्य भामिनी।
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै॥१०५॥
उत्ताय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना।
सर्वा दिशः समालोक्य कठिने दृष्टिमादधे॥१०६॥
तमुवाचाथ सावित्री श्वः फलानि हरिष्यसि।
योगक्षेमार्थमेतं ते नेष्यामि परशुं त्वहम्॥१०७॥
कृत्त्वा कठिनभारं सा वृक्षशाखावलम्बिनम्।
गृहीत्वा परशुं भर्तुः सकाशे पुनरागमत्॥१०८॥
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य च।
दक्षिणेन परिष्वज्य जगाम गजगामिनी॥१०९॥
सत्यवानुवाच
अभ्यासगमनाद्भीरु पन्थानो विदिता मम।
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये॥११०॥
आगतौ स्वः पथा येन फलान्यवचितानि च।
यथाऽऽगतं शुभे गच्छ पन्थानं मा विचारय॥१११॥
पलाशखण्डे चैतस्मिन् पन्था व्यावर्तते द्विधा।
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च॥११२॥
स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ।
ब्रुवन्नेव त्वरायुक्तः सम्प्रायादाश्रमं प्रति॥११३॥
॥इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि अष्टनवत्यधिकद्विशततमोऽध्यायः॥२९८॥
एकोनत्रिशततमोऽध्यायः॥२९९
मार्कण्डेय उवाच
एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः।
लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह॥१॥
स सर्वानाश्रमान् गत्वा शैब्यया सह भार्यया।
पुत्रहेतोः परामार्तिं जगाम भरतर्षभ॥२॥
तावाश्रमान्नदीश्चैव वनानि च सरांसि च।
तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः॥३॥
श्रुत्वा शब्दं तु यं कञ्चिदुन्मुखौ सुतशङ्कया।
सावित्रीसहितोऽभ्येति सत्यवानित्यभाषताम्॥४॥
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः।
कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः॥५॥
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः।
परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम्॥६॥
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः।
आश्वासितोऽपि चित्रार्थैः पूर्वराजकथाश्रयैः॥७॥
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया।
बाल्यवृत्तानि पुत्रस्य सावित्र्या दर्शनानि च।
शोकं जग्मतुरन्योन्यं स्मरन्तौ भृशदुःखितौ॥८॥
हा पुत्र हा साध्वि वधु क्वासि क्वासीत्यरोदताम्।
ब्राह्मणः सत्यवाक्येषामुवाचेदं तयोर्वचः॥९॥
सुवर्चा उवाच
यथाऽस्य भार्या सावित्री तपसा च दमेन च।
आचारेण च संयुक्ता तथा जीवति सत्यवान्॥१०॥
गौतम उवाच
वेदाः साङ्गा मयाऽधीतास्तपो मे सञ्चितं महत्।
कौमारब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः॥११॥
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे।
वायुभक्षोपवासश्च कृतो मे विधिवत् सदा॥१२॥
अनेन तपसा वेद्मि सर्वं परचिकीर्षितम्।
सत्यमेतन्निबोधध्वं ध्रियते सत्यवानिति॥१३॥
शिष्य उवाच
उपाध्यायस्य मे वक्राद् यथा वाक्यं विनिःसृतम्।
नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान्॥१४॥
ऋषय ऊचुः
यथाऽस्य भार्या सावित्री सर्वैरेव सुलक्षणैः।
अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान्॥१५॥
भारद्वाज उवाच
यथाऽस्य भार्या सावित्री तपसा च दमेन च।
आचारेण च संयुक्ता तथा जीवति सत्यवान्॥१६॥
दाल्भ्य उवाच
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम्।
गताऽऽहारमकृत्वैव तथा जीवति सत्यवान्॥१७॥
आपस्तम्ब उवाच
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः।
पार्थिवीं चैव वृद्धिं ते तथा जीवति सत्यवान्॥१८॥
धौम्य उवाच
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः।
दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान्॥१९॥
मार्कण्डेय उवाच
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः।
तांस्तान् विगणयन् सर्वांस्ततः स्थिर इवाभवत्॥२०॥
ततो मुहूर्तात् सावित्री भर्त्रा सत्यवता सह।
आजगामाऽऽश्रमं रात्रौ प्रहृष्टा प्रविवेश ह॥२१॥
दृष्ट्वा चोत्पतिताः सर्वे हर्षं जग्मुश्च ते द्विजाः।
कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदताम्॥२२॥
ब्राह्मणा ऊचुः
पुत्रेण सङ्गतं त्वां तु चक्षुष्मन्तं निरीक्ष्य च।
सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते॥२३॥
समागमेन पुत्रस्य सावित्र्या दर्शनेन च।
चक्षुषश्चाऽऽत्मनो लाभात् त्रिभिर्दिष्ट्या विवर्धसे॥२४॥
सर्वैरस्माभिरुक्तं यत् तथा तन्नात्र संशयः।
भूयोभूयः समृद्धिस्ते क्षिप्रमेव भविष्यति॥२५॥
मार्कण्डेय उवाच
ततोऽग्निं तत्र सञ्ज्वाल्य द्विजास्ते सर्व एव हि।
उपासाञ्चक्रिरे पार्थ द्युमत्सेनं महीपतिम्॥२६॥
शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः।
सर्वैस्तैरभ्यनुज्ञाता विशोका समुपाविशन्॥२७॥
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः।
जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम्॥२८॥
प्रागेव नाऽऽगतं कस्मात् सभार्येण त्वया विभो।
विरात्रे चाऽऽगतं कस्मात् को नु बन्धस्तवाभवत्॥२९॥
सन्तापितः पिता माता वयं चैव नृपात्मज।
कस्मादिति न जानीमस्तत् सर्वं वक्तुमर्हिसि॥३०॥
सत्यवानुवाच
पित्राऽहमभ्यनुज्ञातः सावित्रीसहितो गतः।
अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः॥३१॥
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये।
तावत्कालं न च मया सुप्तपूर्वं कदाचन॥३२॥
सर्वेषामेव भवतां सन्तापो मा भवेदिति।
अतो विरात्रागमनं नान्यदस्तीह कारणम्॥३३॥
गौतम उवाच
अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः।
नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति॥३४॥
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम्।
त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा॥३५॥
त्वमत्र हेतुं जानीषे तस्मात् सत्यं निरुच्यताम्।
रहस्यं यदि ते नास्ति किञ्चिदत्र वदस्व नः॥३६॥
सावित्र्युवाच
एवमेतद् यथा वेत्थ सङ्कल्पो नान्यथा हि वः।
न हि किञ्चिद्रहस्यं मे श्रूयतां तथ्यमेव यत्॥३७॥
मृत्युर्मे पत्युराख्यातो नारदेन महात्मना।
स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम्॥३८॥
सुप्तं चैनं यमः साक्षादुपागच्छत् सकिङ्करः।
स एनमनयद् बद्ध्वा दिशं पितृनिषेविताम्॥३९॥
अस्तौषं तमहं देवं सत्येन वचसा विभुम्।
पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम॥४०॥
चक्षुषी च स्वराज्यञ्च द्वौ वरौ श्वशुरस्य मे।
लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम्॥४१॥
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान्।
भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम्॥४२॥
एतत् सर्वं मयाऽऽख्यातं कारणं विस्तरेण वः।
यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम॥४३॥
ऋषय ऊचुः
निमज्जमानं व्यसनैरभिद्रुतं
कुलं नरेन्द्रस्य तमोमये ह्रदे।
त्वया सुशीलव्रतपुण्यया कुलं
समुद्धृतं साध्वि पुनः कुलीनया॥४४॥
मार्कण्डेय उवाच
तथा प्रशस्य ह्यभिपूज्य चैव
वरस्त्रियं तामृषयः समागताः।
नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा
शिवेन जग्मुर्मुदिताः स्वमालयम्॥४५॥
॥इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि एकोनत्रिशततमोऽध्यायः॥२९९॥
त्रिशततमोऽध्यायः॥३००
मार्कण्डेय उवाच
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले।
कृतपौर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः॥१॥
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः।
द्युमत्सेनाय नातृप्यन् कथयन्तः पुनः पुनः॥२॥
ततः प्रकृतयः सर्वाः साल्वेभ्योऽभ्यागता नृपम्।
आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम्॥३॥
तं मन्त्रिणा हतं प्रोच्य ससहायं सबान्धवम्।
न्यवेदयन्यथावृत्तं विद्रुतं च द्विषद्बलम्॥४॥
ऐकमत्यं च सर्वस्य जनस्य स्वं नृपं प्रति।
सचक्षुर्वाऽप्यचक्षुर्वा स नो राजा भवत्विति॥५॥
अनेन निश्चयेनेह वयं प्रस्थापिता नृप।
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम्॥६॥
प्रयाहि राजन् भद्रं ते घुष्टस्ते नगरे जयः।
अध्यास्स्व चिररात्राय पितृपैतामहं पदम्॥७॥
मार्कण्डेय उवाच
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषाऽन्वितम्।
मूर्ध्ना निपतिताः सर्वे विस्मयोत्फुल्ललोचनाः॥८॥
ततोऽभिवाद्य तान् वृद्धान् द्विजानाश्रमवासिनः।
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति॥९॥
शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा।
नरयुक्तेन यानेन प्रययौ सेनया वृता॥१०॥
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः।
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन्॥११॥
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्।
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम्॥१२॥
भ्रातृणां सोदराणां च तथैवास्याभवच्छतम्।
मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम्॥१३॥
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च।
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात् समुद्धृतम्॥१४॥
तथैवैषा हि कल्याणी द्रौपदी शीलसम्मता।
तारयिष्यति वः सर्वान् सावित्रीव कुलाङ्गना॥१५॥
वैशम्पायन उवाच
एवं स पाण्डवस्तेन अनुनीतो महात्मना।
विशोको विज्वरो राजन् काम्यके न्यवसत् तदा॥१६॥
यश्चेदं शृणुयाद् भक्त्या सावित्र्याख्यानमुत्तमम्।
स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः॥१७॥
॥इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि त्रिशततमोऽध्यायः॥३००॥
पतिव्रतामाहात्म्यपर्व समाप्तम्॥१९॥
❀ ❀ ❀