श्री-सरस्वती-पूजा

(मूलम्—पूजा-सङ्ग्रहः (राधाकृष्ण-शास्त्रिणः))

पूर्वाङ्ग-विघ्नेश्वर-पूजा

(आचम्य)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥

ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]

अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥

अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।

अर्चना

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥

अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥

प्रार्थनाः समर्पयामि।

❀

प्रधान-पूजा — श्री-सरस्वती-पूजा

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।

सङ्कल्पः

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने वर्ष-ऋतौ (कन्या/तुला)-आश्वयुज-मासे शुक्लपक्षे नवम्यां शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां ( )-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
नवम्यां शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीत्यर्थं महानवमी-पुण्यकाले यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)

आसन-पूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥

घण्टा-पूजा

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥

कलश-पूजा

कलशाय नमः दिव्यगन्धान् धारयामि।

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥

श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥

(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)

आत्म-पूजा

आत्मने नमः, दिव्यगन्धान् धारयामि।

१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः

समस्तोपचारान् समर्पयामि।

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥

पीठ-पूजा

आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः

गुरु-ध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥

षोडशोपचार-पूजा

सरस्वतीं सत्यवासां सुधांशुसमविग्रहाम्।
स्फटिकाक्षस्रजं पद्मं पुस्तकं च शुकं करैः॥
चतुर्भिर्दधतीं देवीं चन्द्रबिम्ब-समाननाम्।
वल्लभामखिलार्थानां वल्लकीवादनप्रियाम्॥
भारतीं भावये देवीं भाषाणामधिदेवताम्।
भावितां हृदये सद्भिर्भामिनीं परमेष्ठिनः॥

अस्मिन् पुस्तक-मण्डले दुर्गालक्ष्मी-युक्तां सरस्वतीं ध्यायामि।

चतुर्भुजां चन्द्रवर्णां चतुराननवल्लभाम्।
आवाहयामि वाणि त्वामाश्रितार्ति-विनाशिनीम्॥

अस्मिन् पुस्तक-मण्डले दुर्गालक्ष्मी-युक्तां सरस्वतीमावाहयामि।

आसनं सङ्गृहाणेदमाश्रिते सकलामरैः।
आदृते सर्वमुनिभिरार्तिदे सुरवैरिणाम्॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, आसनं समर्पयामि।

पाद्यमाद्यन्तशून्यायै वेद्यायै वेदवादिभिः।
दास्यामि वाणि वरदे देवराजसमर्चिते॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, पाद्यं समर्पयामि।

अघहन्त्रि गृहाणेदम् अर्घ्यमष्टाङ्गसंयुतम्।
अम्बाखिलानां जगताम् अम्बुजासनसुन्दरि॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, अर्घ्यं समर्पयामि।

आचम्यतां तोयमिदमाश्रितार्थप्रदायिनि।
आत्मभूवदनावासे आधिहारिणि ते नमः॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, आचमनीयं समर्पयामि।

मधुपर्कं गृहाणेदं मधुसूदनवन्दिते।
मन्दस्मिते महादेवि महादेवसमर्चिते॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, मधुपर्कं समर्पयामि।

पञ्चामृतं गृहाणेदं पञ्चाननसमर्चिते।
पयोदधिघृतोपेतं पञ्चपातकनाशिनि॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, पञ्चामृतं समर्पयामि।

नमस्ते हंसवाहिन्यै नमस्ते धातृपत्निके।
गन्धोदकेन सम्पूर्णं स्नानं च प्रतिगृह्यताम्॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, गन्धोदकस्नानं समर्पयामि।

साध्वीनामग्रतो गण्ये साधुसङ्घसमादृते।
सरस्वति नमस्तुभ्यं स्नानं स्वीकुरु सम्प्रति॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।

दुकूलद्वितयं देवि दुरितापहवैभवे।
विधिप्रिये गृहाणेदं सुधानिधिसमं शिवे॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, वस्त्रं समर्पयामि।

उपवीतं गृहाणेदमुपमाशून्यवैभवे।
हिरण्यगर्भमहिषि हिरण्मयगुणैः कृतम्॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, उपवीतं समर्पयामि।

वर्णरूपे गृहाणेदं स्वर्णवर्यपरिष्कृतम्।
अर्णवोद्धृतरत्नाढ्यं कर्णभूषादिभूषणम्॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, आभरणानि समर्पयामि।

विन्यस्तं नेत्रयोः कान्त्यै सौवीराञ्जनमुत्तमम्।
सङ्गृहाण सुरश्रेष्ठे वागीश्वरि नमोऽस्तु ते॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, नेत्राञ्जनं समर्पयामि।

कुङ्कुमाञ्जन-सिन्दूर-कञ्चुकादिकमम्बिके।
सौभाग्यद्रव्यमखिलं सुरवन्द्ये गृहाण मे॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, सौभाग्यद्रव्यं समर्पयामि।

अन्धकारिप्रियाराध्ये गन्धमुत्तमसौरभम्।
गृहाण वाणि वरदे गन्धर्वपरिपूजिते॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, गन्धं समर्पयामि।

अक्षतांस्त्वं गृहाणेमान् अहतानमरार्चिते।
अक्षतेऽद्भुतरूपाढ्ये यक्षराजादिवन्दिते॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, अक्षतान् समर्पयामि।

पुन्नाग-जाती-मल्ल्यादि-पुष्पजातं गृहाण मे।
पुमर्थदायिनि परे पुस्तकाढ्य-कराम्बुजे॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, पुष्पाणि समर्पयामि।

अङ्ग-पूजा

१.पावनायै नमःपादौ पूजयामि
२.गिरे नमःगुल्फौ पूजयामि
३.जगद्वन्द्यायै नमःजङ्घे पूजयामि
४.जलजासनायै नमःजानुनी पूजयामि
५.उत्तमायै नमःऊरू पूजयामि
६.कमलासनप्रियायै नमःकटिं पूजयामि
७.नानाविद्यायै नमःनाभिं पूजयामि
८.वाण्यै नमःवक्षः पूजयामि
९.कुरङ्गाक्ष्यै नमःकुचौ पूजयामि
१०.कलारूपिण्यै नमःकण्ठं पूजयामि
११.भाषायै नमःबाहून् पूजयामि
१२.चिरन्तनायै नमःचुबुकं पूजयामि
१३.मुग्धस्मितायै नमःमुखं पूजयामि
१४.लोलेक्षणायै नमःलोचने पूजयामि
१५.कलायै नमःललाटं पूजयामि
१६.वर्णरूपायै नमःकर्णौ पूजयामि
१७.करुणायै नमःकचान् पूजयामि
१८.शिवायै नमःशिरः पूजयामि
१९.सरस्वत्यै नमःसर्वाण्यङ्गानि पूजयामि

दुर्गाष्टोत्तरशतनामावलिः

सत्यै नमः
साध्व्यै नमः
भवप्रीतायै नमः
भवान्यै नमः
भवमोचन्यै नमः
आर्यायै नमः
दुर्गायै नमः
जयायै नमः
आद्यायै नमः
त्रिनेत्रायै नमः१०
शूलधारिण्यै नमः
पिनाकधारिण्यै नमः
चित्रायै नमः
चण्डघण्टायै नमः
महातपसे नमः
मनसे नमः
बुद्ध्यै नमः
अहङ्कारायै नमः
चित्तरूपायै नमः
चितायै नमः२०
चित्त्यै नमः
सर्वमन्त्रमय्यै नमः
सत्तायै नमः
सत्यानन्दस्वरूपिण्यै नमः
अनन्तायै नमः
भाविन्यै नमः
भाव्यायै नमः
भव्यायै नमः
अभव्यायै नमः
सदागत्यै नमः३०
शाम्भव्यै नमः
देवमात्रे नमः
चिन्तायै नमः
रत्नप्रियायै नमः
सर्वविद्यायै नमः
दक्षकन्यायै नमः
दक्षयज्ञविनाशिन्यै नमः
अपर्णायै नमः
अनेकवर्णायै नमः
पाटलायै नमः४०
पाटलावत्यै नमः
पट्टाम्बरपरीधानायै नमः
कलमञ्जीररञ्जिन्यै नमः
अमेयविक्रमायै नमः
क्रूरायै नमः
सुन्दर्यै नमः
सुरसुन्दर्यै नमः
वनदुर्गायै नमः
मातङ्ग्यै नमः
मतङ्गमुनिपूजितायै नमः५०
ब्राह्म्यै नमः
माहेश्वर्यै नमः
ऐन्द्र्यै नमः
कौमार्यै नमः
वैष्णव्यै नमः
चामुण्डायै नमः
वाराह्यै नमः
लक्ष्म्यै नमः
पुरुषाकृत्यै नमः
विमलायै नमः६०
उत्कर्षिण्यै नमः
ज्ञानायै नमः
क्रियायै नमः
नित्यायै नमः
बुद्धिदायै नमः
बहुलायै नमः
बहुलप्रेमायै नमः
सर्ववाहनवाहनायै नमः
निशुम्भशुम्भहनन्यै नमः
महिषासुरमर्दिन्यै नमः७०
मधुकैटभहन्त्र्यै नमः
चण्डमुण्डविनाशिन्यै नमः
सर्वासुरविनाशायै नमः
सर्वदानवघातिन्यै नमः
सर्वशास्त्रमय्यै नमः
सत्यायै नमः
सर्वास्त्रधारिण्यै नमः
अनेकशस्त्रहस्तायै नमः
अनेकास्त्रधारिण्यै नमः
कुमार्यै नमः८०
एककन्यायै नमः
कैशोर्यै नमः
युवत्यै नमः
यत्यै नमः
अप्रौढायै नमः
प्रौढायै नमः
वृद्धमात्रे नमः
बलप्रदायै नमः
महोदर्यै नमः
मुक्तकेश्यै नमः९०
घोररूपायै नमः
महाबलायै नमः
अग्निज्वालायै नमः
रौद्रमुख्यै नमः
कालरात्र्यै नमः
तपस्विन्यै नमः
नारायण्यै नमः
भद्रकाल्यै नमः
विष्णुमायायै नमः
जलोदर्यै नमः१००
शिवदूत्यै नमः
कराल्यै नमः
अनन्तायै नमः
परमेश्वर्यै नमः
कात्यायन्यै नमः
सावित्र्यै नमः
प्रत्यक्षायै नमः
ब्रह्मवादिन्यै नमः१०८

॥इति श्री-दुर्गाष्टोत्तरशतनामावलिः सम्पूर्णा॥

लक्ष्म्यष्टोत्तरशतनामावलिः

ध्यानम्

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम्।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः॥
सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्॥

प्रकृत्यै नमः
विकृत्यै नमः
विद्यायै नमः
सर्वभूतहितप्रदायै नमः
श्रद्धायै नमः
विभूत्यै नमः
सुरभ्यै नमः
परमात्मिकायै नमः
वाचे नमः
पद्मालयायै नमः१०
पद्मायै नमः
शुचये नमः
स्वाहायै नमः
स्वधायै नमः
सुधायै नमः
धन्यायै नमः
हिरण्मय्यै नमः
लक्ष्म्यै नमः
नित्यपुष्टायै नमः
विभावर्यै नमः२०
अदित्यै नमः
दित्यै नमः
दीप्तायै नमः
वसुधायै नमः
वसुधारिण्यै नमः
कमलायै नमः
कान्तायै नमः
क्षमायै नमः
क्षीरोदसम्भवायै नमः
अनुग्रहप्रदायै नमः३०
बुद्धये नमः
अनघायै नमः
हरिवल्लभायै नमः
अशोकायै नमः
अमृतायै नमः
दीप्तायै नमः
लोकशोकविनाशिन्यै नमः
धर्मनिलयायै नमः
करुणायै नमः
लोकमात्रे नमः४०
पद्मप्रियायै नमः
पद्महस्तायै नमः
पद्माक्ष्यै नमः
पद्मसुन्दर्यै नमः
पद्मोद्भवायै नमः
पद्ममुख्यै नमः
पद्मनाभप्रियायै नमः
रमायै नमः
पद्ममालाधरायै नमः
देव्यै नमः५०
पद्मिन्यै नमः
पद्मगन्धिन्यै नमः
पुण्यगन्धायै नमः
सुप्रसन्नायै नमः
प्रसादाभिमुख्यै नमः
प्रभायै नमः
चन्द्रवदनायै नमः
चन्द्रायै नमः
चन्द्रसहोदर्यै नमः
चतुर्भुजायै नमः६०
चन्द्ररूपायै नमः
इन्दिरायै नमः
इन्दुशीतलायै नमः
आह्लादजनन्यै नमः
पुष्ट्यै नमः
शिवायै नमः
शिवकर्यै नमः
सत्यै नमः
विमलायै नमः
विश्वजनन्यै नमः७०
तुष्ट्यै नमः
दारिद्र्यनाशिन्यै नमः
प्रीतिपुष्करिण्यै नमः
शान्तायै नमः
शुक्लमाल्याम्बरायै नमः
श्रियै नमः
भास्कर्यै नमः
बिल्वनिलयायै नमः
वरारोहायै नमः
यशस्विन्यै नमः८०
वसुन्धरायै नमः
उदाराङ्गायै नमः
हरिण्यै नमः
हेममालिन्यै नमः
धनधान्यकर्यै नमः
सिद्ध्यै नमः
स्त्रैणसौम्यायै नमः
शुभप्रदायै नमः
नृपवेश्मगतानन्दायै नमः
वरलक्ष्म्यै नमः९०
वसुप्रदायै नमः
शुभायै नमः
हिरण्यप्राकारायै नमः
समुद्रतनयायै नमः
जयायै नमः
मङ्गलायै देव्यै नमः
विष्णुवक्षःस्थलस्थितायै नमः
विष्णुपत्न्यै नमः
प्रसन्नाक्ष्यै नमः
नारायणसमाश्रितायै नमः१००
दारिद्र्यध्वंसिन्यै नमः
देव्यै नमः
सर्वोपद्रवहारिण्यै नमः
नवदुर्गायै नमः
महाकाल्यै नमः
ब्रह्मविष्णुशिवात्मिकायै नमः
त्रिकालज्ञानसम्पन्नायै नमः
भुवनेश्वर्यै नमः१०८

॥इति श्री-लक्ष्म्यष्टोत्तरशतनामावलिः सम्पूर्णा॥

सरस्वत्यष्टोत्तरशतनामावलिः

सरस्वत्यै नमः
महाभद्रायै नमः
महामायायै नमः
वरप्रदायै नमः
श्रीप्रदायै नमः
पद्मनिलयायै नमः
पद्माक्ष्यै नमः
पद्मवक्त्रकायै नमः
शिवानुजायै नमः
पुस्तकभृते नमः१०
ज्ञानमुद्रायै नमः
रमायै नमः
परायै नमः
कामरूपायै नमः
महाविद्यायै नमः
महापातकनाशिन्यै नमः
महाश्रयायै नमः
मालिन्यै नमः
महाभोगायै नमः
महाभुजायै नमः२०
महाभागायै नमः
महोत्साहायै नमः
दिव्याङ्गायै नमः
सुरवन्दितायै नमः
महाकाल्यै नमः
महापाशायै नमः
महाकारायै नमः
महाङ्कुशायै नमः
पीतायै नमः
विमलायै नमः३०
विश्वायै नमः
विद्युन्मालायै नमः
वैष्णव्यै नमः
चन्द्रिकायै नमः
चन्द्रवदनायै नमः
चन्द्रलेखविभूषितायै नमः
सावित्र्यै नमः
सुरसायै नमः
देव्यै नमः
दिव्यालङ्कारभूषितायै नमः४०
वाग्देव्यै नमः
वसुदायै नमः
तीव्रायै नमः
महाभद्रायै नमः
महाबलायै नमः
भोगदायै नमः
भारत्यै नमः
भामायै नमः
गोविन्दायै नमः
गोमत्यै नमः५०
शिवायै नमः
जटिलायै नमः
विन्ध्यवासायै नमः
विन्ध्याचलविराजितायै नमः
चण्डिकायै नमः
वैष्णव्यै नमः
ब्राह्म्यै नमः
ब्रह्मज्ञानैकसाधनायै नमः
सौदामिन्यै नमः
सुधामूर्त्यै नमः६०
सुभद्रायै नमः
सुरपूजितायै नमः
सुवासिन्यै नमः
सुनासायै नमः
विनिद्रायै नमः
पद्मलोचनायै नमः
विद्यारूपायै नमः
विशालाक्ष्यै नमः
ब्रह्मजायायै नमः
महाफलायै नमः७०
त्रयीमूर्त्यै नमः
त्रिकालज्ञायै नमः
त्रिगुणायै नमः
शास्त्ररूपिण्यै नमः
शुम्भासुरप्रमथिन्यै नमः
शुभदायै नमः
स्वरात्मिकायै नमः
रक्तबीजनिहन्त्र्यै नमः
चामुण्डायै नमः
अम्बिकायै नमः८०
मुण्डकायप्रहरणायै नमः
धूम्रलोचनमर्दन्यै नमः
सर्वदेवस्तुतायै नमः
सौम्यायै नमः
सुरासुरनमस्कृतायै नमः
कालरात्र्यै नमः
कलाधारायै नमः
रूपसौभाग्यदायिन्यै नमः
वाग्देव्यै नमः
वरारोहायै नमः९०
वाराह्यै नमः
वारिजासनायै नमः
चित्राम्बरायै नमः
चित्रगन्धायै नमः
चित्रमाल्यविभूषितायै नमः
कान्तायै नमः
कामप्रदायै नमः
वन्द्यायै नमः
विद्याधरसुपूजितायै नमः
श्वेताननायै नमः१००
नीलभुजायै नमः
चतुर्वर्गफलप्रदायै नमः
चतुराननसाम्राज्यायै नमः
रक्तमध्यायै नमः
निरञ्जनायै नमः
हंसासनायै नमः
नीलजङ्घायै नमः
ब्रह्मविष्णुशिवात्मिकायै नमः१०८

॥इति श्री-सरस्वत्यष्टोत्तरशतनामावलिः सम्पूर्णा॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, नानाविधपरिमलपत्र-पुष्पाणि समर्पयामि।

उत्तराङ्ग-पूजा

(मूलम्—व्रत-कल्प-त्रयम्)

गुग्गुलागरु-कस्तूरी-गोरोचन-समन्वितम्।
धूपं गृहाण देवेशि भक्तिं त्वय्यचलां कुरु॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, धूपमाघ्रापयामि।

कामधेनुसमुद्भूत-घृतवर्ति-समन्वितम्।
दीपं गृहाण कल्याणि कमलासनवल्लभे॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, अलङ्कारदीपं सन्दर्शयामि।

नैवेद्यं षड्रसोपेतं शर्करामधुसंयुतम्।
पायसान्नं च भारत्यै ददामि प्रतिगृह्यताम्॥
अपूपान् विविधान् स्वादून् शालिपिष्टोपपाचितान्।
मृदुलान् गुडसम्मिश्रान् भक्ष्यादींश्च ददामि ते॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, ( ) निवेदयामि।
अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
मध्ये मध्ये अमृतपानीयं समर्पयामि।
नैवेद्यानन्तरम् आचमनीयं समर्पयामि।

पूगीफल-समायुक्तं नागवल्लीदलैर्युतम्।
कर्पूरचूर्ण-संयुक्तं ताम्बूलं प्रतिगृह्यताम्॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, कर्पूर-ताम्बूलं समर्पयामि।

नीराजनं गृहाण त्वं जगदानन्ददायिनि।
जगत्तिमिरमार्तण्डमण्डले ते नमो नमः॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, कर्पूर-नीराजनं सन्दर्शयामि।
कर्पूरनीराजनानन्तरम् आचमनीयं समर्पयामि।

शारदे लोकमातस्त्वम् आश्रिताभीष्टदायिनि।
पुष्पाञ्जलिं गृहाण त्वं मया भक्त्या समर्पितम्॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि।
स्वर्णपुष्पं समर्पयामि।

यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे॥

प्रदक्षिणं कृत्वा।

पाहि पाहि जगद्वन्द्ये नमस्ते भक्तवत्सले।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः॥
सरस्वति नमस्तुभ्यं वरदे भक्तवत्सले।
त्राहि मां नरकाद् घोरात् ब्रह्मपत्नि नमोऽस्तु ते॥

श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, नमस्कारान् समर्पयामि।

प्रार्थना

या कुन्देन्दु-तुषारहारधवला या शुभ्रवस्त्रावृता
या वीणा-वरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥
सरस्वती सरसिजकेसरप्रभा
तपस्विनी सितकमलासनप्रिया।
घनस्तनी कमलविलोललोचना
मनस्विनी भवतु वरप्रसादिनी॥
पाशाङ्कुशधरा वाणी वीणापुस्तकधारिणी।
मम वक्त्रे वसेन्नित्यं सन्तुष्टाऽस्तु च सर्वदा॥
चतुर्दशसु विद्यासु रमते या सरस्वती।
सा देवी कृपया मह्यं जिह्वासिद्धिं करोतु च॥

प्रार्थनाः समर्पयामि।

उपायनदानम्

ब्राह्मणपूजा।

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

अद्य-पूर्वोक्त-एवं-गुण-सकल-विशेषेण-विशिष्टायां अस्यां नवम्यां शुभतिथौ श्री-दुर्गा-लक्ष्मी-सरस्वती-देवतामुद्दिश्य अद्य मया अनुष्ठित-श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजान्ते
श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीत्यर्थं उपायनदानं करिष्ये।
श्री-दुर्गा-लक्ष्मी-सरस्वती-स्वरूपस्य ब्राह्मणस्य इदम् आसनम्। इमे गन्धाः। सकलाराधनैः स्वर्चितम्।

भारती प्रतिगृह्णातु भारतीयं ददाति च।
भारती तारिका द्वाभ्यां भारत्यै ते नमो नमः॥

इदम् उपायनं सदक्षिणाकं सताम्बूलं श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीतिं कामयमानः श्री-दुर्गा-लक्ष्मी-सरस्वती-स्वरूपाय ब्राह्मणाय तुभ्यमहं सम्प्रददे न मम।

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे॥

श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजाकाले अस्मिन् मया क्रियमाण-श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं
श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीतिं कामयमानः
मनसोद्दिष्टाय ब्राह्मणाय तुभ्यमहं सम्प्रददे नमः न मम।
अनया पूजया श्री-दुर्गा-लक्ष्मी-सरस्वत्यः प्रीयन्ताम्।

अपराध-क्षमापनम्

यस्य स्मृत्या च नामोक्त्या तपः-पूजा-क्रियादिषु।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥

सर्वं तत्सद्ब्रह्मार्पणमस्तु।

❀

सरस्वती-सहस्रनाम-स्तोत्रम्

ध्यानम्

श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-
मालालालित-कुन्तला प्रविलसन्मुक्तावलीशोभना।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा॥

श्री-नारद उवाच

भगवन् परमेशान सर्वलोकैकनायक।
कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः॥१॥
कथं देव्या महावाण्याः सतत् प्राप सुदुर्लभम्।
एतन्मे वद तत्त्वेन महायोगीश्वरप्रभो॥२॥

श्री-सनत्कुमार उवाच

साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्यमनुत्तमम्।
भयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते॥३॥
पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम्।
निर्विकारं निराभासं स्तम्भीभूतमचेतसम्॥४॥
सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम्।
आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः॥५॥
दिव्यवर्षायुतं तेन तपो दुष्करमुत्तमम्।
ततः कदाचित् सञ्जाता वाणी सर्वार्थशोभिता॥६॥
अहमस्मि महाविद्या सर्ववाचामधीश्वरी।
मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम्॥७॥
अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम्।
त्वया सृष्टं जगत् सर्वं वाणीयुक्तं भविष्यति॥८॥
इदं रहस्यं परमं मम नामसहस्रकम्।
सर्वपापौघशमनं महासारस्वतप्रदम्॥९॥
महाकवित्वदं लोके वागीशत्वप्रदायकम्।
त्वं वा परः पुमान्यस्तु स्तवेनानेन तोषयेत्॥१०॥
तस्याहं किङ्करी साक्षाद् भविष्यामि न संशयः।
इत्युक्त्वाऽन्तर्दधे वाणी तदारभ्य पितामहः॥११॥
स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान्।
वाणीयुक्तं जगत् सर्वं तदारभ्याभवन्मुने॥१२॥
तत्तेहं सम्प्रवक्ष्यामि शृणु यत्नेन नारद।
सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वरः॥१३॥

स्तोत्रम्

वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा।
वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा॥१॥
विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी।
वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी॥२॥
वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी।
विश्वाराध्या विश्वमाता विश्वधात्री विनायका॥३॥
विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी।
वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका॥४॥
वेदज्ञा वेदजननी विश्वा विश्वविभावरी।
वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी॥५॥
विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका।
व्यालघ्नी व्यालभूषाङ्गी विरजा वेदनायिका॥६॥
वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी।
विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया॥७॥
वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता।
वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा॥८॥
गौरी गुणवती गोप्या गन्धर्वनगरप्रिया।
गुणमाता गुहान्तस्था गुरुरूपा गुरुप्रिया॥९॥
गिरिविद्या गानतुष्टा गायकप्रियकारिणी।
गायत्री गिरिशाराध्या गीर्गिरीशप्रियङ्करी॥१०॥
गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी।
गीर्माता गणसंस्तुत्या गणनीयगुणान्विता॥११॥
गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका।
गुर्वी गुर्वम्बिका गुह्या गेयजा ग्रहनाशिनी॥१२॥
गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला।
गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी॥१३॥
गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता।
गरुडासनसंसेव्या गोमती गुणशालिनी॥१४॥
शारदा शाश्वती शैवी शाङ्करी शङ्करात्मिका।
श्रीः शर्वाणी शतघ्नी च शरच्चन्द्रनिभानना॥१५॥
शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी।
शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया॥१६॥
शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी।
शिवा शिवङ्करी शुद्धा शिवाराध्या शिवात्मिका॥१७॥
श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा।
शान्तिः शान्तिकरी शान्ता शान्ताचारप्रियङ्करी॥१८॥
शीललभ्या शीलवती श्रीमाता शुभकारिणी।
शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता॥१९॥
श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा।
शिवेतरघ्नी शबरी श्रवणीयगुणान्विता॥२०॥
शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका।
शमान्विता शमाराध्या शितिकण्ठप्रपूजिता॥२१॥
शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा।
सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी॥२२॥
सरस्वती च सावित्री सन्ध्या सर्वेप्सितप्रदा।
सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी॥२३॥
सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी।
सर्वाराध्या सर्वमाता सर्वदेवनिषेविता॥२४॥
सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया।
स्वरक्रमपदाकारा सर्वदोषनिषूदिनी॥२५॥
सहस्राक्षी सहस्रास्या सहस्रपदसंयुता।
सहस्रहस्ता साहस्रगुणालङ्कृतविग्रहा॥२६॥
सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी।
षड्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता॥२७॥
स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी।
संशयच्छेदिनी साङ्ख्यवेद्या सङ्ख्या सदीश्वरी॥२८॥
सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी।
सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी॥२९॥
सर्वाशुभघ्नी सुखदा सुखा संवित्स्वरूपिणी।
सर्वसम्भीषणी सर्वजगत्सम्मोहिनी तथा॥३०॥
सर्वप्रियङ्करी सर्वशुभदा सर्वमङ्गला।
सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा॥३१॥
सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा।
सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गला॥३२॥
सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता।
सर्वानन्दमयी सर्वज्ञानदा सत्यनायिका॥३३॥
सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा।
सुप्रभा सर्वदा सर्वा सर्वलोकवशङ्करी॥३४॥
सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका।
सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी॥३५॥
सुरूपिणी सुखमयी सेवकप्रियकारिणी।
स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका॥३६॥
साररूपा सरोरूपा सत्यभूता समाश्रया।
सितासिता सरोजाक्षी सरोजासनवल्लभा॥३७॥
सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता।
महादेवी महेशानी महासारस्वतप्रदा॥३८॥
महासरस्वती मुक्ता मुक्तिदा मलनाशिनी।
महेश्वरी महानन्दा महामन्त्रमयी मही॥३९॥
महालक्ष्मीर्महाविद्या माता मन्दरवासिनी।
मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा॥४०॥
महामुक्तिर्महानित्या महासिद्धिप्रदायिनी।
महासिद्धा महामाता महदाकारसंयुता॥४१॥
महा महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा।
मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी॥४२॥
मदिराक्षी मदावासा मखरूपा मखेश्वरी।
महामोहा महामाया मातॄणां मूर्ध्निसंस्थिता॥४३॥
महापुण्या मुदावासा महासम्पत्प्रदायिनी।
मणिपूरैकनिलया मधुरूपा महोत्कटा॥४४॥
महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी।
मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया॥४५॥
मा महादेवसंस्तुत्या महिषीगणपूजिता।
मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी॥४६॥
मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी।
मुख्या महानिवासा च महाभाग्यजनाश्रिता॥४७॥
महिला महिमा मृत्युहारी मेधाप्रदायिनी।
मेध्या महावेगवती महामोक्षफलप्रदा॥४८॥
महाप्रभाभा महती महादेवप्रियङ्करी।
महापोषा महर्द्धिश्च मुक्ताहारविभूषणा॥४९॥
माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा।
मनोरूपा मनःशुद्धिर्मनःशुद्धिप्रदायिनी॥५०॥
महाकारुण्यसम्पूर्णा मनोनमनवन्दिता।
महापातकजालघ्नी मुक्तिदा मुक्तभूषणा॥५१॥
मनोन्मनी महास्थूला महाक्रतुफलप्रदा।
महापुण्यफलप्राप्या मायात्रिपुरनाशिनी॥५२॥
महानसा महामेधा महामोदा महेश्वरी।
मालाधरी महोपाया महातीर्थफलप्रदा॥५३॥
महामङ्गलसम्पूर्णा महादारिद्र्यनाशिनी।
महामखा महामेघा महाकाली महाप्रिया॥५४॥
महाभूषा महादेहा महाराज्ञी मुदालया।
भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी॥५५॥
भवानी भूतिदा भूतिर्भूमिर्भूमिसुनायिका।
भूतधात्री भयहरी भक्तसारस्वतप्रदा॥५६॥
भुक्तिर्भुक्तिप्रदा भेकी भक्तिर्भक्तिप्रदायिनी।
भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा॥५७॥
भागीरथी भवाराध्या भाग्यासज्जनपूजिता।
भवस्तुत्या भानुमती भवसागरतारणी॥५८॥
भूतिर्भूषा च भूतेशी भाललोचनपूजिता।
भूता भव्या भविष्या च भवविद्या भवात्मिका॥५९॥
बाधापहारिणी बन्धुरूपा भुवनपूजिता।
भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा॥६०॥
भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा।
भुजङ्गभूषणा भीमा भीमाक्षी भीमरूपिणी॥६१॥
भाविनी भ्रातृरूपा च भारती भवनायिका।
भाषा भाषावती भीष्मा भैरवी भैरवप्रिया॥६२॥
भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका।
भास्वती भगमाला च भिक्षादानकृतोद्यमा॥६३॥
भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी।
भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी॥६४॥
भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा।
भोगवती भोगरूपा भोगमोक्षफलप्रदा॥६५॥
भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी।
ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा॥६६॥
ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी।
ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया॥६७॥
बालेन्दुशेखरा बाला बलिपूजाकरप्रिया।
बलदा बिन्दुरूपा च बालसूर्यसमप्रभा॥६८॥
ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा।
ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी॥६९॥
बन्धक्षयकरी बाधनाशनी बन्धुरूपिणी।
बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता॥७०॥
बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी।
बहुरूपा बलवती ब्रह्मजा ब्रह्मचारिणी॥७१॥
ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा।
ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता॥७२॥
बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी।
अक्षमालाऽक्षराकाराऽक्षराऽक्षरफलप्रदा॥७३॥
अनन्ताऽऽनन्दसुखदाऽनन्तचन्द्रनिभानना।
अनन्तमहिमाऽघोराऽनन्तगम्भीरसम्मिता॥७४॥
अदृष्टाऽदृष्टदाऽनन्ताऽदृष्टभाग्यफलप्रदा।
अरुन्धत्यव्ययीनाथाऽनेकसद्गुणसंयुता॥७५॥
अनेकभूषणाऽदृश्याऽनेकलेखनिषेविता।
अनन्ताऽनन्तसुखदाऽघोराऽघोरस्वरूपिणी॥७६॥
अशेषदेवतारूपाऽमृतरूपाऽमृतेश्वरी।
अनवद्याऽनेकहस्ताऽनेकमाणिक्यभूषणा॥७७॥
अनेकविघ्नसंहर्त्री ह्यनेकाभरणान्विता।
अविद्याऽज्ञानसंहर्त्री ह्यविद्याजालनाशिनी॥७८॥
अभिरूपाऽनवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा।
अकलङ्कारूपिणी च ह्यनुग्रहपरायणा॥७९॥
अम्बरस्थाऽम्बरमयाऽम्बरमालाऽम्बुजेक्षणा।
अम्बिकाऽब्जकराऽब्जस्थांऽशुमत्यंशुशतान्विता॥८०॥
अम्बुजाऽनवराऽखण्डाऽम्बुजासनमहाप्रिया।
अजरामरसंसेव्याऽजरसेवितपद्युगा॥८१॥
अतुलार्थप्रदाऽर्थैक्याऽत्युदारा त्वभयान्विता।
अनाथवत्सलाऽनन्तप्रियाऽनन्तेप्सितप्रदा॥८२॥
अम्बुजाक्ष्यम्बुरूपाऽम्बुजातोद्भवमहाप्रिया।
अखण्डा त्वमरस्तुत्याऽमरनायकपूजिता॥८३॥
अजेया त्वजसङ्काशाऽज्ञाननाशिन्यभीष्टदा।
अक्ताऽघनेना चास्त्रेशी ह्यलक्ष्मीनाशिनी तथा॥८४॥
अनन्तसाराऽनन्तश्रीरनन्तविधिपूजिता।
अभीष्टाऽमर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता॥८५॥
आस्तिकस्वान्तनिलयाऽस्त्ररूपाऽस्त्रवती तथा।
अस्खलत्यस्खलद्रूपाऽस्खलद्विद्याप्रदायिनी॥८६॥
अस्खलत् सिद्धिदाऽऽनन्दाऽम्बुजाताऽमरनायिका।
अमेयाऽशेषपापघ्न्यक्षयसारस्वतप्रदा॥८७॥
जया जयन्ती जयदा जन्मकर्मविवर्जिता।
जगत्प्रिया जगन्माता जगदीश्वरवल्लभा॥८८॥
जातिर्जया जितामित्रा जप्या जपनकारिणी।
जीवनी जीवनिलया जीवाख्या जीवधारिणी॥८९॥
जाह्नवी ज्या जपवती जातिरूपा जयप्रदा।
जनार्दनप्रियकरी जोषनीया जगत्स्थिता॥९०॥
जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी।
जीवातुलतिका जीवजन्मी जन्मनिबर्हणी॥९१॥
जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका।
जगदानन्दजननी जम्बूश्च जलजेक्षणा॥९२॥
जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा।
जटा जटावती जप्या जपकर्तृप्रियङ्करी॥९३॥
जपकृत्पापसंहर्त्री जपकृत्फलदायिनी।
जपापुष्पसमप्रख्या जपाकुसुमधारिणी॥९४॥
जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी।
जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा॥९५॥
जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी।
जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी॥९६॥
जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका।
जयलक्षणसम्पूर्णा जयदानकृतोद्यमा॥९७॥
जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी।
जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशङ्करी॥९८॥
जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना।
ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका॥९९॥
जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया।
जरामरणशून्या च जनित्री जन्मनाशिनी॥१००॥
जलजाभा जलमयी जलजासनवल्लभा।
जलजस्था जपाराध्या जनमङ्गलकारिणी॥१०१॥
कामिनी कामरूपा च काम्या कामप्रदायिनी।
कमाली कामदा कर्त्री क्रतुकर्मफलप्रदा॥१०२॥
कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी।
कञ्जाक्षी करुणारूपा केवलामरसेविता॥१०३॥
कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी।
कमला कमलावासा कमलोत्पलमालिनी॥१०४॥
कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा।
कामेश्वरी कमलिनी कामदा कामबन्धिनी॥१०५॥
कामधेनुः काञ्चनाक्षी काञ्चनाभा कलानिधिः।
क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी॥१०६॥
क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी।
क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी॥१०७॥
कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना।
कन्दर्पजननी कान्ता करुणा करुणावती॥१०८॥
क्लीङ्कारिणी कृपाकारा कृपासिन्धुः कृपावती।
करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी॥१०९॥
क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी।
कला कलावती कूर्मी कूटस्था कञ्जसंस्थिता॥११०॥
कालिका कल्मषघ्नी च कमनीयजटान्विता।
करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा॥१११॥
कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा।
कूर्मयाना कल्पलता कालकूटविनाशिनी॥११२॥
कल्पोद्यानवती कल्पवनस्था कल्पकारिणी।
कदम्बकुसुमाभासा कदम्बकुसुमप्रिया॥११३॥
कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा।
कुलमाता कुलावासा कुलाचारप्रियङ्करी॥११४॥
कुलानाथा कामकला कलानाथा कलेश्वरी।
कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका॥११५॥
कवित्वदा काव्यमाता कविमाता कलाप्रदा।
तरुणी तरुणीताता ताराधिपसमानना॥११६॥
तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा।
तर्पणी तीर्थरूपा च त्रिदशा त्रिदशेश्वरी॥११७॥
त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी।
त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका॥११८॥
त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी।
त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी॥११९॥
तमालसदृशी त्राता तरुणादित्यसन्निभा।
त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत् तत्त्वरूपिणी॥१२०॥
तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी।
त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रिगुणान्विता॥१२१॥
तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी।
तुला तुलादिरहिता तत्तद् ब्रह्मस्वरूपिणी॥१२२॥
त्राणकर्त्री त्रिपापघ्नी त्रिपदा त्रिदशान्विता।
तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी॥१२३॥
तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता।
त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा॥१२४॥
तेजस्विनी तापहारी तापोपप्लवनाशिनी।
तेजोगर्भा तपःसारा त्रिपुरारिप्रियङ्करी॥१२५॥
तन्वी तापससन्तुष्टा तपताङ्गजभीतिनुत्।
त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता॥१२६॥
त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी।
शुभा शुभावती शान्ता शान्तिदा शुभदायिनी॥१२७॥
शीतला शूलिनी शीता श्रीमती च शुभान्विता।
योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता॥१२८॥
यज्या यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा।
यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता॥१२९॥
यामिनीयप्रभा याम्या यजनीया यशस्करी।
यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता॥१३०॥
यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्तुता।
यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी॥१३१॥
योगिनी योगरूपा च योगकर्तृप्रियङ्करी।
योगयुक्ता योगमयी योगयोगीश्वराम्बिका॥१३२॥
योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता।
यन्त्रिताघौघसंहारा यमलोकनिवारिणी॥१३३॥
यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक्।
योगीश्वरी योगमाता योगसिद्धा च योगदा॥१३४॥
योगारूढा योगमयी योगरूपा यवीयसी।
यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिता॥१३५॥
युगकर्त्री युगमयी युगधर्मविवर्जिता।
यमुना यमिनी याम्या यमुनाजलमध्यगा॥१३६॥
यातायातप्रशमनी यातनानान्निकृन्तनी।
योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी॥१३७॥
योगक्षेममयी यन्त्रा यावदक्षरमातृका।
यावत्पदमयी यावच्छब्दरूपा यथेश्वरी॥१३८॥
यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता।
यावद्विद्यामयी यावद्विद्याबृन्दसुवन्दिता॥१३९॥
योगिहृत्पद्मनिलया योगिवर्यप्रियङ्करी।
योगिवन्द्या योगिमाता योगीशफलदायिनी॥१४०॥
यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता।
यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी॥१४१॥
यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियङ्करी।
यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा॥१४२॥
यजनीया यमस्तुत्या योगयुक्ता यशस्करी।
योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी॥१४३॥
योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी।
योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी॥१४४॥

फलश्रुतिः

इति नाम्नां सरस्वत्याः सहस्रं समुदीरितम्।
मन्त्रात्मकं महागोप्यं महासारस्वतप्रदम्॥१॥
यः पठेच्छृणुयाद् भक्त्या त्रिकालं साधकः पुमान्।
सर्वविद्यानिधिः साक्षात् स एव भवति ध्रुवम्॥२॥
लभते सम्पदः सर्वाः पुत्रपौत्रादिसंयुताः।
मूकोऽपि सर्वविद्यासु चतुर्मुख इवापरः॥३॥
भूत्वा प्राप्नोति सान्निध्यम् अन्ते धातुर्मुनीश्वर।
सर्वमन्त्रमयं सर्वविद्यामानफलप्रदम्॥४॥
महाकवित्वदं पुंसां महासिद्धिप्रदायकम्।
कस्मैचिन्न प्रदातव्यं प्राणैः कण्ठगतैरपि॥५॥
महारहस्यं सततं वाणीनामसहस्रकम्।
सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम्॥६॥

॥इति श्रीस्कान्दपुराणान्तर्गत-सनत्कुमार-संहितायां नारद-सनत्कुमार-संवादे सरस्वती-सहस्रनाम-स्तोत्रं सम्पूर्णम्॥

❀ ❀ ❀