श्री-सरस्वती-पूजा
(मूलम्—पूजा-सङ्ग्रहः (राधाकृष्ण-शास्त्रिणः))
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
प्रधान-पूजा — श्री-सरस्वती-पूजा
प्राणान् आयम्य।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने वर्ष-ऋतौ (कन्या/तुला)-आश्वयुज-मासे शुक्लपक्षे नवम्यां शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां ( )-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
नवम्यां शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीत्यर्थं महानवमी-पुण्यकाले यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
घण्टा-पूजा
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
षोडशोपचार-पूजा
अस्मिन् पुस्तक-मण्डले दुर्गालक्ष्मी-युक्तां सरस्वतीं ध्यायामि।
अस्मिन् पुस्तक-मण्डले दुर्गालक्ष्मी-युक्तां सरस्वतीमावाहयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, आसनं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, पाद्यं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, अर्घ्यं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, आचमनीयं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, मधुपर्कं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, पञ्चामृतं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, गन्धोदकस्नानं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, वस्त्रं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, उपवीतं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, आभरणानि समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, नेत्राञ्जनं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, सौभाग्यद्रव्यं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, गन्धं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, अक्षतान् समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, पुष्पाणि समर्पयामि।
अङ्ग-पूजा
| १. | पावनायै नमः | पादौ पूजयामि |
| २. | गिरे नमः | गुल्फौ पूजयामि |
| ३. | जगद्वन्द्यायै नमः | जङ्घे पूजयामि |
| ४. | जलजासनायै नमः | जानुनी पूजयामि |
| ५. | उत्तमायै नमः | ऊरू पूजयामि |
| ६. | कमलासनप्रियायै नमः | कटिं पूजयामि |
| ७. | नानाविद्यायै नमः | नाभिं पूजयामि |
| ८. | वाण्यै नमः | वक्षः पूजयामि |
| ९. | कुरङ्गाक्ष्यै नमः | कुचौ पूजयामि |
| १०. | कलारूपिण्यै नमः | कण्ठं पूजयामि |
| ११. | भाषायै नमः | बाहून् पूजयामि |
| १२. | चिरन्तनायै नमः | चुबुकं पूजयामि |
| १३. | मुग्धस्मितायै नमः | मुखं पूजयामि |
| १४. | लोलेक्षणायै नमः | लोचने पूजयामि |
| १५. | कलायै नमः | ललाटं पूजयामि |
| १६. | वर्णरूपायै नमः | कर्णौ पूजयामि |
| १७. | करुणायै नमः | कचान् पूजयामि |
| १८. | शिवायै नमः | शिरः पूजयामि |
| १९. | सरस्वत्यै नमः | सर्वाण्यङ्गानि पूजयामि |
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, नानाविधपरिमलपत्र-पुष्पाणि समर्पयामि।
उत्तराङ्ग-पूजा
(मूलम्—व्रत-कल्प-त्रयम्)
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, धूपमाघ्रापयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, ( ) निवेदयामि।
अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
मध्ये मध्ये अमृतपानीयं समर्पयामि।
नैवेद्यानन्तरम् आचमनीयं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, कर्पूर-ताम्बूलं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, कर्पूर-नीराजनं सन्दर्शयामि।
कर्पूरनीराजनानन्तरम् आचमनीयं समर्पयामि।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि।
स्वर्णपुष्पं समर्पयामि।
प्रदक्षिणं कृत्वा।
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, नमस्कारान् समर्पयामि।
प्रार्थना
प्रार्थनाः समर्पयामि।
उपायनदानम्
ब्राह्मणपूजा।
अद्य-पूर्वोक्त-एवं-गुण-सकल-विशेषेण-विशिष्टायां अस्यां नवम्यां शुभतिथौ श्री-दुर्गा-लक्ष्मी-सरस्वती-देवतामुद्दिश्य अद्य मया अनुष्ठित-श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजान्ते
श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीत्यर्थं उपायनदानं करिष्ये।
श्री-दुर्गा-लक्ष्मी-सरस्वती-स्वरूपस्य ब्राह्मणस्य इदम् आसनम्। इमे गन्धाः। सकलाराधनैः स्वर्चितम्।
इदम् उपायनं सदक्षिणाकं सताम्बूलं श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीतिं कामयमानः श्री-दुर्गा-लक्ष्मी-सरस्वती-स्वरूपाय ब्राह्मणाय तुभ्यमहं सम्प्रददे न मम।
श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजाकाले अस्मिन् मया क्रियमाण-श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं
श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीतिं कामयमानः
मनसोद्दिष्टाय ब्राह्मणाय तुभ्यमहं सम्प्रददे नमः न मम।
अनया पूजया श्री-दुर्गा-लक्ष्मी-सरस्वत्यः प्रीयन्ताम्।
अपराध-क्षमापनम्
सर्वं तत्सद्ब्रह्मार्पणमस्तु।