सङ्क्रमण-पुण्यकाल-स्नान-सङ्कल्पः
(आचम्य)
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
आचमनम्। शुक्लाम्बरधरं + शान्तये। प्राणायामः।
श्रीराम राम राम।
श्रीहरे गोविन्द गोविन्द गोविन्द।
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम्, अद्य श्रीभगवतः विष्णोः नारायणस्य अचिन्त्यया अपरिमितया शक्त्या भ्रियमाणस्य महाजलौघस्य मध्ये
परिभ्रमताम् अनेककोटिब्रह्माण्डानाम् एकतमे
पृथिवी-अप्-तेजो-वायु-आकाश-अहङ्कार-महद्-अव्यक्तैः आवरणैः आवृते अस्मिन् महति ब्रह्माण्डकरण्डमध्ये
चतुर्दशभुवनान्तर्गते भूमण्डले जम्बू-प्लक्ष-शाक-शाल्मलि-कुश-क्रौञ्च-पुष्कराख्य-सप्तद्वीपमध्ये
जम्बूद्वीपे भारत-किम्पुरुष-हरि-इलावृत-रम्यक-हिरण्मय-कुरु-भद्राश्व-केतुमाल-नववर्षमध्ये भारतवर्षे
इन्द्र-चेरु-ताम्र-गभस्ति-नाग-सौम्य-गन्धर्व-चारण-भरत-नवखण्डमध्ये भरतखण्डे
सुमेरु-निषद-हेमकूट-हिमाचल-माल्यवत्-पारियात्रक-गन्धमादन-कैलास-विन्ध्याचलादि-अनेकपुण्यशैलानां मध्ये
दण्डकारण्य-चम्पकारण्य-विन्ध्यारण्य-वीक्षारण्य-श्वेतारण्य-वेदारण्यादि-अनेकपुण्यारण्यानां मध्ये
कर्मभूमौ रामसेतुकेदारयोः मध्ये
भागीरथी-यमुना-नर्मदा-त्रिवेणी-मलापहारिणी-गौतमी-कृष्णवेणी-तुङ्गभद्रा-कावेर्यादि-अनेकपुण्यनदी-विराजिते
इन्द्रप्रस्थ-यमप्रस्थ-अवन्तिकापुरी-हस्तिनापुरी-अयोध्यापुरी-द्वारका-मथुरापुरी-मायापुरी-काशीपुरी-काञ्चीपुर्यादि-अनेकपुण्यपुरी-विराजिते
सकलजगत्स्रष्टुः परार्धद्वयजीविनः ब्रह्मणः द्वितीयपरार्धे
पञ्चाशद्-अब्दादौ प्रथमे वर्षे प्रथमे मासे प्रथमे पक्षे प्रथमे दिवसे अह्नि द्वितीये यामे तृतीये मुहूर्ते
स्वायम्भुव-स्वारोचिष-उत्तम-तामस-रैवत-चाक्षुषाख्येषु षट्सु मनुषु अतीतेषु सप्तमे वैवस्वतमन्वन्तरे
अष्टाविंशतितमे कलियुगे प्रथमे पादे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये
( ) नाम संवत्सरे उत्तरायणे / दक्षिणायने
(ग्रीष्म / वर्ष / शरद् / हेमन्त / शिशिर / वसन्त) ऋतौ (मेष / वृषभ / मिथुन / कर्कटक / सिंह / कन्या / तुला /
वृश्चिक / धनुर् / मकर / कुम्भ / मीन) मासे (शुक्ल / कृष्ण) पक्षे ( ) शुभतिथौ
(इन्दु / भौम / बुध / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायाम्
( ) नक्षत्र ( )-योग ( )-करण-युक्तायां च
एवंगुणविशेषणविशिष्टायाम् अस्याम् ( ) शुभतिथौ
अनादि-अविद्या-वासनया प्रवर्तमाने अस्मिन् महति संसारचक्रे विचित्राभिः कर्मगतिभिः विचित्रासु योनिषु
पुनःपुनः अनेकधा जनित्वा केनापि पुण्यकर्मविशेषेण इदानीन्तन-मानुष-द्विजजन्म-विशेषं प्राप्तवतः मम
जन्माभ्यासात् जन्मप्रभृति एतत्क्षणपर्यन्तं बाल्ये कौमारे यौवने मध्यमे वयसि वार्धके च
जागृत्-स्वप्न-सुषुप्ति-अवस्थासु मनो-वाक्-कायाख्य-त्रिकरणचेष्टया कर्मेन्द्रिय-ज्ञानेन्द्रिय-व्यापारैः
सम्भावितानाम् इह जन्मनि जन्मान्तरे च ज्ञानाज्ञानकृतानां महापातकानां महापातक-अनुमन्तृत्वादीनां
समपातकानाम् उपपातकानां मलिनीकरणानां गर्ह्यधन-आदान-उपजीवनादीनाम् अपात्रीकरणानां जातिभ्रंशकराणां
विहितकर्मत्याग-निन्दितसमाचरणादीनां ज्ञानतः सकृत् कृतानाम् अज्ञानतः असकृत् कृतानां सर्वेषां पापानां
सद्यः अपनोदनार्थं महागणपत्यादिसमस्तवैदिकदेवतासन्निधौ
( )-पुण्यकाल-स्नानमहं करिष्ये। [अप उपस्पृश्य।]
(प्रोक्षण-मन्त्राः/स्नान-मन्त्राः)
स्नात्वा वस्त्रं धृत्वा कुलाचारवत् पुण्ड्रधारणं च कृत्वा आचम्य।