पञ्चत्रिंशोऽध्यायः—चतुर्थ्युद्यापन-निरूपणम्

॥श्रीगणेशाय नमः॥

दक्ष उवाच

उद्यापनं व्रतस्यास्य वद त्वं मुनिसत्तम।
येन साङ्गं फलं सर्वं लभते व्रतकारकः॥१॥

मुद्गल उवाच

उद्यापनं प्रजानाथ व्रतस्यादौ मतं बुधैः।
अथवा वर्षमध्ये तत् कर्तव्यं व्रतकारिणा॥२॥
अथवा भाद्रमासे वै शुक्लायां च प्रजापते।
उद्यापनं प्रकर्तव्यं कृष्णायां माघमासके॥३॥
महामण्डपकं कुर्यात् कदलीस्तम्भमण्डितम्।
नानाशोभासमायुक्तं विभवे सति मानद॥४॥
वित्तशाठ्यं न कुर्यात् स यथाविभवमाचरेत्।
छत्राऽऽदर्शादिभिः शोभां दीपमालाविराजितम्॥५॥
मणिमुक्तादिकैः पूर्णं भूषणैश्च विशेषतः।
यत्र तत्र यथायोग्यं प्रकुर्याद्व्रतकारकः॥६॥
मध्याह्नसमये तस्याः शुक्लायाः कथितं प्रभो।
चन्द्रोदये च कृष्णायाश्चतुर्थ्याः पूजनं चरेत्॥७॥
गोमयेन प्रलिप्याऽथ धान्यराशिं प्रकल्पयेत्।
तन्मध्येऽष्टदलं पद्मं कुर्यात्तद्गुरुणा स्वयम्॥८॥
तत्र संस्थाप्य सौवर्णं कलशं ताम्रजं तथा।
रौप्यं वा मृन्मयं दक्ष वस्त्रयुग्मेन वेष्टयेत्॥९॥
तस्योपरि सुवर्णस्य पात्रं स्थाप्य महामतिः।
वस्त्रं ततो गणेशस्य यन्त्रं कुर्याद्विचक्षणः॥१०॥
तत्र गणपतेश्चैव मूर्तिर्धातुविनिर्मिता।
सर्वावयवसंयुक्ता भूषणै राजिता भवेत्॥११॥
द्विजोत्तमश्च संस्थाप्य पूजयेत्तां यथाविधि।
ब्राह्मणान् वरयेच्छुद्धानेकविंशतिसङ्ख्यकान्॥१२॥
गणानां त्वेति मन्त्रस्य जपं कुर्याद्विशेषतः।
ततो होमं प्रकुर्वीत सहस्रं वा तदर्धकम्॥१३॥
अष्टोत्तरशतं वाऽपि तथा जपदशांशकम्।
गीतवाद्यपुराणानि वेदाध्ययनमेव च॥१४॥
नानाशास्त्रप्रवादांश्च कुर्वन्तु ब्राह्मणास्ततः।
यत्र तत्र गणेशस्य कथाः सङ्कथयन्तु ते॥१५॥
ततः पूर्णाहुतिं कुर्याद्वसोर्धारां स पातयेत्।
बलिदानं ततः कुर्यात्ततो वायनकं चरेत्॥१६॥
एकविंशतिपक्वान्नैरेकविंशतिसङ्ख्यकैः।
नैवेद्यैर्ब्राह्मणान् सम्भोज्यार्थयेत्तान् विशेषतः॥१७॥
दक्षिणां विपुलां दत्त्वा सपत्नीकान् प्रतोषयेत्।
योषिद्भ्यः कञ्चुकीर्दद्याद् भूषणानि महामतिः॥१८॥
कृष्णायां च चतुर्थ्यां स चन्द्रायार्घ्यं प्रदापयेत्।
शुक्लायां तत्तथा दक्ष चरेच्चन्द्रार्घ्यवर्जितम्॥१९॥
आदौ स तिथये दद्यात् पश्चाद्विघ्नेश्वराय वै।
ततश्चन्द्राय तन् मन्त्रैरर्घ्यं मन्त्रसमन्वितम्॥२०॥
तिथीनां मातृरूपे त्वं देवि सर्वार्थदायिनि।
गृहाणार्घ्यं मया दत्तं चतुर्थ्यै ते नमो नमः॥२१॥
गजानन नमस्तुभ्यं नानासिद्धिप्रदायिने।
गृहाणार्घ्यं बुद्धिपते मया दत्तं शुभप्रद॥२२॥
अत्रिगोत्रसमुद्भूत गणेशप्रीतिवर्धन।
गृहाणार्घ्यं मया दत्तं रोहिण्यामृतधारक॥२३॥
कृष्णपक्षे सदा रात्रौ भोजनं स समाचरेत्।
शुक्लपक्षे च पञ्चम्यां ब्राह्मणादींस्तु भोजयेत्॥२४॥
चतुर्थ्यां जागरं कुर्यात् गणेशकथयान्वितः।
पञ्चम्यां पूर्ववत् पूज्य नैवेद्याद्यैर्महामतिः॥२५॥
दीनान्धकृपणेभ्यश्च दद्यादन्नादिकं तथा।
ब्राह्मणेभ्यो विशेषेण दक्षिणां दापयेन्नरः॥२६॥
सर्वान् सम्भोज्य दानेन तोषयेद् देवसन्निधौ।
गणेशदृढभक्तिं स याचयेत्तेभ्य आदरात्॥२७॥
ततः सोपस्करां मूर्तिं दद्यात् स्वगुरवे स्वयम्।
एकविंशतिविप्रेभ्यः कलशान् दापयेत्ततः॥२८॥
सन्तोष्योदारधीः सर्वान् स भावेन क्षमापयेत्।
ततो गणपतिं नित्यं भजेतानन्यचेतसा॥२९॥
एवमुद्यापनं कुर्याद्व्रतस्यास्य महामतिः।
स सम्पूर्णफलं भुक्त्वा ब्रह्मभूतो भविष्यति॥३०॥
वक्तुं न शक्यते दक्ष माहात्म्यं च व्रतोद्भवम्।
सोद्यापनं विशेषेण कथितं ते यथामति॥३१॥
इदं चतुर्थीजं दक्ष चरितं संश‍ृणोति चेत्।
पठेद् वा तस्य विघ्नेशो मानसेप्सितदो भवेत्॥३२॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थ्युद्यापननिरूपणं नाम पञ्चत्रिंशोऽध्यायः॥४-३५॥