चतुस्त्रिंशोऽध्यायः—वसिष्ठ-दशरथ-संवाद-समाप्ति-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
श्रावणादिषु मासेषु लड्वादीन् यस्तु भक्षति।
तस्य विधियुतं विप्र माहात्म्यं वद सर्वदम्॥१॥
वसिष्ठ उवाच
मनोर्वैवस्वतस्यैव पुत्र इक्ष्वाकुसंज्ञकः।
राज्यलोभी कनिष्ठः सन् व्रतं चकार सिद्धिदम्॥२॥
बभक्ष श्रावणे कृष्णसङ्कष्ट्यां पञ्चखाद्यजान्।
लड्डुकान् सप्त भावेन व्रतसाधनतत्परः॥३॥
दधिभक्षणमात्रं स भाद्रे कृष्णे चकार ह।
आश्विने निर्जलं तद्वच्चकार व्रतमद्भुतम्॥४॥
कार्तिके दुग्धभुक् राजाऽतिष्ठत् स्वनियमे रतः।
मार्गशीर्षे जलं पीत्वाऽभजत्तं गणनायकम्॥५॥
पौषे गोमूत्रमात्रं तु व्रतं पीत्वा समाचरत्।
माघे शुक्लतिलान् राजा बभक्ष व्रतकारणात्॥६॥
फाल्गुने शर्करायुक्तं मानवोऽभक्षयद् घृतम्।
चैत्रे तद्वत् पञ्चगव्यं पूजयित्वा विनायकम्॥७॥
वैशाखे पद्मबीजं स बभक्ष व्रतधारकः।
ज्येष्ठे घृतं गवां भक्षंश्चकार व्रतमुत्तमम्॥८॥
आषाढे मधुमात्रं स बभक्ष नियमे रतः।
चन्द्रोदये गणेशानं पूजयित्वा विधानतः॥९॥
ततस्तस्य व्रतस्यैव प्रभावेण महामते।
सुद्युम्नो मनुपुत्रो य इलो ज्येष्ठोऽभवन्नृप॥१०॥
ततो मुनिभिराद्यं तं राजानं स चकार ह।
मनुरिक्ष्वाकुमेवं तु सार्वभौमं महाद्युतिम्॥११॥
एवं त्वसाध्यकं राजन्निच्छेद्वै यदि मानवः।
धर्ममार्गेण तत् सोऽपि लभते नात्र संशयः॥१२॥
एवं नाना जना राजन् व्रतपुण्यप्रभावतः।
लब्ध्वाऽन्ते ब्रह्मभूताश्च बभूवुर्भूमिमण्डले॥१३॥
अतस्त्वं राजशार्दूल पापरूपोऽसि साम्प्रतम्।
तव राज्ये व्रतं नष्टं नृपाधम न बुद्ध्यसे॥१४॥
जनैः सह व्रतं तस्मात् कुरुष्व त्वं भविष्यसि।
पुत्रयुक्तश्च विघ्नेशमन्ते गच्छसि निश्चितम्॥१५॥
मुद्गल उवाच
प्रणम्य तं दशरथो महाराजो जगाम ह।
स्वपुरे जनसंयुक्तश्चकार व्रतमुत्तमम्॥१६॥
ततो भूपेन सर्वत्र प्रशस्तं तद्व्रतं कृतम्।
चक्रुः सर्वजना भूमौ व्रतं गाणेश्वरं महत्॥१७॥
व्रतपुण्यप्रभावेण विष्णुः साक्षाद्बभूव ह।
चतुर्धाऽऽत्मानमाभज्य पुत्रस्तस्य महात्मनः॥१८॥
रामश्च भरतो राजा लक्ष्मणः शत्रुसूदनः।
पुत्राश्चत्वार एवं ते बभूवुर्बलसंयुताः॥१९॥
अन्ते जगाम विघ्नेशं दशरथः प्रतापवान्।
लोका दुःखविहीनाश्च ब्रह्मभूता बभूविरे॥२०॥
वसिष्ठर्षेर्दशरथस्येमं विप्रस्य धीमतः।
संवादं व्रतहेतुं तु यः शृणोति पठेन्नरः॥२१॥
तस्मै विघ्नेश्वरः साक्षाद्ददाति फलमुत्तमम्।
पुत्रपौत्रादिसंयुक्तं धनधान्यसमन्वितम्॥२२॥
नानारोगविहीनत्वमैश्वर्यादियुतं महत्।
अन्ते गणपतौ लीनं करोत्यत्र न संशयः॥२३॥
चतुर्थ्याश्चरितं पूर्णं कथितं ते प्रजापते।
श्रोतुमिच्छा पुनः किं ते वर्तते वद साम्प्रतम्॥२४॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुस्त्रिंशोऽध्यायः॥४-३४॥