त्रयस्त्रिंशोऽध्यायः—शमी-मूल-चतुर्थी-व्रताचरण-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
शमीमूले च यस्तिष्ठेच्चतुर्थ्यां मुनिसत्तम।
सङ्कष्ट्यां तस्य माहात्म्यं वद मे करुणानिधे॥१॥
वसिष्ठ उवाच
इतिहासं प्रवक्ष्यामि पुरातनभवं नृप।
सर्वसिद्धिकरं पूर्णं श्रवणात् पठनान्नृणाम्॥२॥
पाञ्चाले ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः।
पूर्वकर्मविपाकेन कुष्ठयुक्तो बभूव ह॥३॥
नानाक्षतसमाकीर्णः प्रस्रवत् पूयशोणितः।
कीटकैः सर्वतो व्याप्तो ह्यन्धः कुब्जोऽभवन्नृप॥४॥
तं दृष्ट्वा तादृशं पुत्रं पिता परमदुःखितः।
अत्रिं जगाम शरणं तं पप्रच्छ प्रणम्य सः॥५॥
तेनापि कथितं राजन् शमीमूले स्थितो भवेत्।
चतुर्थीं सङ्कटीं कुर्यात्तदा पापात् प्रमुच्यते॥६॥
ततः सोऽपि स्वपुत्रं तं शमीमूले महीपते।
समानाय्य बबन्धैव दाम्ना सर्वार्थसाधकः॥७॥
सूर्योदयात् समारभ्य यावच्चन्द्रोदयोऽभवत्।
तावत् तत्र महारोगी सोऽतिष्ठद्बन्धनाकुलः॥८॥
ततः पित्रा समानीतः स्वगृहे सोऽपि तत्क्षणात्।
नेत्रयुक्तो बभूवाऽथ रोगादिभिर्विवर्जितः॥९॥
कुब्जताहीनरूपं तं संस्थितं विगतज्वरम्।
तद् दृष्ट्वा परमाश्चर्यं विप्राः सर्वे विसिस्मिरे॥१०॥
ततः सोऽपि गणेशानमभजन्नित्यमादरात्।
चतुर्थ्यां कृष्णपक्षे वै शमीमूले स्म तिष्ठति॥११॥
अन्ते शान्तिसमायुक्तो ब्रह्मभूतो बभूव ह।
एवं तिष्ठेच्छमीमूले सोऽसाध्यं कुरुते वशम्॥१२॥
अन्यच्छृणु महीपाल माहात्म्यं सर्वसिद्धिदम्।
चोरः कश्चिन् महान् पापी नगरे स गतोऽभवत्॥१३॥
स्फोटयित्वा गृहं किञ्चित्तेन तत्र प्रविश्य सः।
धनं गृहीत्वा निर्यातो नरैर्दृष्टः पपाल सः॥१४॥
जनैः कोलाहलस्तत्र कृतः परमदारुणः।
श्रुत्वा राज्ञो ययुर्दूताः शस्त्रहस्ता महाबलाः॥१५॥
ज्ञात्वा वृत्तान्तमुग्रं ते धाविताः क्रोधसंयुताः।
वेगेन तं महाचौरं जघ्नुः शस्त्रप्रहारतः॥१६॥
छिन्नाङ्गं पतितं चौरं दूताः सङ्गृह्य दारुणम्।
तं बबन्धुः शमीवृक्षे ततो राजानमाययुः॥१७॥
समागता चतुर्थी सा तत्राऽकस्मान् महीपते।
कृष्णा सोऽपि महाचौरो शमीमूलस्थितोऽभवत्॥१८॥
पञ्चम्यां क्षतहीनाङ्गं चौरं सर्वत्र शोभनम्।
सञ्जातं राजदूतास्ते ज्ञात्वा राज्ञे न्यवेदयन्॥१९॥
राजा तत्र समागम्य तं प्रणम्य पुरःस्थितः।
एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम्॥२०॥
तं तत्रागृह्य निक्षिप्य गणान् शुण्डाविराजितान्।
तान् प्रणम्य स पप्रच्छ राजर्षिर्गन्तुमुत्सुकान्॥२१॥
महासेन उवाच
भो भो गणपतेर्दूताः किमनेन कृतं महत्।
वदेत करुणायुक्तास्तद्वयं करवामहै॥२२॥
गाणेशा ऊचुः
कृष्णपक्षे चतुर्थ्यां यः शमीमूले जपेन्मनुम्।
तिष्ठेत् सूर्योदयाद्यावत्तथा चन्द्रोदयो भवेत्॥२३॥
निराहारः स विघ्नेशं पूजयेत् व्रतकारकः।
पश्चाद्विप्रांश्च सम्भोज्य स्वयं भुञ्जीत वाग्यतः॥२४॥
रात्रौ जागरणं कुर्यात् पञ्चम्यां पूजनं पुनः।
प्रकुर्यात् गणराजस्य स ईप्सितमवाप्नुयात्॥२५॥
फलयुक्तः सद्य एव भवत्यत्र न संशयः।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतः स जायते॥२६॥
एवमुक्त्वा गता दूताश्चौरेण सहिता नृप।
चौरो विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह॥२७॥
ततो राजा महाभागो गणेशभजने रतः।
स चतुर्थ्यां शमीमूले तिष्ठन्नियमसंयुतः॥२८॥
ततो राजा गतिं लेभे त्रिलोक्यां व्रतपुण्यतः।
ब्रह्मादीनां सभायां स गत्वाऽतिष्ठत् स्वयेच्छया॥२९॥
पुनः स्वनगरे राजा चम्पावत्यां जगाम ह।
एवं सर्वत्रगो भूत्वा रराजे राजमण्डले॥३०॥
अन्ते सर्वजनै राजा नगरस्थैर्महामते।
जगाम विघ्नराजं तं ब्रह्मभूतो बभूव ह॥३१॥
इदं ते मुख्यमाहात्म्यं शमीमूलस्थितेर्महत्।
चतुर्थ्यां कथितं राजन् सङ्कष्ट्यां सर्वसिद्धिदम्॥३२॥
शृणुयाद्यः पठेद् वा स सद्य एव फलं लभेत्।
ईप्सितं गणराजस्य प्रसादान्नात्र संशयः॥३३॥
एवं नाना जना राजन्नान्ध्यदोषादिवर्जिताः।
बभूवुश्चरितं तेषां मया वक्तुं न शक्यते॥३४॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयस्त्रिंशोऽध्यायः॥४-३३॥