द्वात्रिंशोऽध्यायः—मलमास-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

मलमासे च सङ्कष्ट्याश्चतुर्थ्यां वद मानद।
माहात्म्यं प्रीतिदं पूर्णं न तृप्तोऽहं कृपानिधे॥१॥

वसिष्ठ उवाच

आन्ध्रदेशे महाराजो बभूवे रैवतान्तरे।
धर्मदत्त इति ख्यातो नानाधर्मपरायणः॥२॥
यज्वा विनीतकोऽत्यन्तं नीतिज्ञोऽखिलतोषकृत्।
षष्ठांशग्राहकः सोऽपि प्रजापालनतत्परः॥३॥
जलोदरयुतोऽकस्मादभवन् मानदायकः।
सार्वभौमोऽतिपापेन गृहीतः सर्वशास्त्रवित्॥४॥
नानोपायाः कृतास्तस्य शान्तये नृपसत्तम।
तथाऽपि रोगनिर्मुक्तो न बभूव महीपतिः॥५॥
तुलादानादिकान्येव महादानानि पीडितः।
चकार रोगयुक्तस्तदप्यत्यन्तमजायत॥६॥
परिभ्रमन् स तीर्थानि चकार विधिसंयुतः।
देवताऽऽराधनं राजा नाऽभवद्रोगवर्जितः॥७॥
ततोऽतिदुःखितो राजा जलेनैवात्मघातनम्।
विषेण कर्तुमुद्युक्तो नानाजनैः सुविह्वलैः॥८॥
ततोऽकस्मान् महायोगी चाष्टावक्रः समाययौ।
तद्गृहे तं नमस्कृत्य पूजयामास बान्धवैः॥९॥
भोजितं तं प्रणम्यैव कृत्वा करपुटं नृपः।
धर्मदत्त उवाचाऽसौ विनयावनतोऽभवत्॥१०॥

धर्मदत्त उवाच

धन्योऽस्म्यनुगृहीतोऽस्मि सफलो मे भवोऽभवत्।
तव दर्शनतो विप्र साक्षाद्योगीश्वरस्य तु॥११॥
आत्मघातेऽहमुद्युक्तस्तत्र ते दर्शनं महत्।
प्राप्तं पुण्यसमूहेन नरको न भविष्यति॥१२॥

वसिष्ठ उवाच

एवं वदन्तमानन्दयुक्तो योगीन्द्रसत्तमः।
उवाच तं महाराजं दयया करुणानिधिः॥१३॥

अष्टावक्र उवाच

किमर्थं देहघाते त्वमुद्यतोऽसि महामते।
रोगदुःखविनिर्मुक्तो भविष्यसि न संशयः॥१४॥
तव राज्ये महीपाल चतुर्थीमुख्यकव्रतम्।
नष्टं तेन महोग्रेण पापेन संयुतो भवान्॥१५॥
राजा राष्ट्रकृतं पापं त्वया प्राप्तं तथैव तत्।
त्वमपि व्रतसंहीनः पतितोऽसि नृपाधम॥१६॥
सर्वादौ तद्व्रतं कार्यं चतुर्वर्गफलप्रदम्।
तदा कर्म कृतं राजन् फलयुक्तं भवेत् किल॥१७॥
त्वया धर्मयुतं कर्म कृतं नानाविधं तथा।
चतुःपदार्थहीनं तद्बभूव ह जनैः कृतम्॥१८॥
सर्वैः सह जनै राजन्नरके त्वं पतिष्यसि।
तदर्थं व्रतराजं तत् कुरु सर्वसमन्वितः॥१९॥
एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः।
श्रावयामास तस्मै स करुणायुतचेतसा॥२०॥
श्रुत्वा मुख्यं स माहात्म्यं धर्मदत्तः सुविस्मितः।
उवाच तं हि योगीन्द्रं हर्षयुक्तेन चेतसा॥२१॥

धर्मदत्त उवाच

पूर्वपुण्यं महन् मेऽस्ति कथनाय न शक्यते।
मयेदृशं व्रतं विप्र श्रुतं तेन महाद्भुतम्॥२२॥
अधुना विघ्नराजस्य स्वरूपं मे दयानिधे।
कथयस्व सदा देवं भजिष्यामि महाप्रभुम्॥२३॥
न सामान्यं चरित्रं तत्तस्य देवाधिपस्य यत्।
यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत्॥२४॥

अष्टावक्र उवाच

धर्मदत्त महाभाग श‍ृणु त्वं गणपस्य यत्।
यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत्॥२५॥
निर्गुणं गजवाच्यं यद्ब्रह्म मस्तकमेव च।
तस्य देहः सगुणकं ब्रह्म योगे गजाननः॥२६॥
सिद्धिर्भ्रान्तिस्वरूपा सा बुद्धिर्भ्रान्तिधराऽभवत्।
ताभ्यां क्रीडति विघ्नेशो मायाभ्यां परमार्थतः॥२७॥
स्वसंवेद्येन योगेन लभ्यते दर्शनं महत्।
तेन स्वानन्दवासी स कथ्यते योगिभिः प्रभुः॥२८॥
संयोगेऽयं गकारः सो योगेऽयं च णकारकः।
तयोः स्वामी गणेशानः शान्तियोगेन लभ्यते॥२९॥
पञ्चधा चित्तवृत्तिर्या तस्यां मोहस्तु पञ्चधा।
समोहं चित्तमुत्सृज्य लभ्यते चित्तचालकः॥३०॥
तेनाऽयं गणनाथस्तु चिन्तामणिरिति स्मृतः।
तं भजस्व महाभाग तदा शान्तो भविष्यसि॥३१॥
एवमुक्त्वा ददौ तस्मै मन्त्रं मालात्मकं प्रभुः।
सविधिं धर्मदत्ताय ततः सोऽन्तर्हितोऽभवत्॥३२॥
राजाऽपि हर्षसंयुक्तो बभूवातितरां ततः।
धन्यमात्मानमेवं स्म मन्यते भाग्यगौरवात्॥३३॥
तत्रादौ मलमासे या चतुर्थी कृष्णपक्षगा।
समागता जनै राजा तां चकार विधानतः॥३४॥
ततस्तेन व्रतं मुख्यं तत् सर्वत्र प्रकाशितम्।
ततो जना व्रतं चक्रुर्भूमिस्था यत्र तत्र ते॥३५॥
ततो रोगविनिर्मुक्तो धर्मदत्तो बभूव ह।
जनाः सर्वे तथा हृष्टा बभूवू रोगवर्जिताः॥३६॥
नित्यं गणपतिं राजाऽभजच्चानन्यमानसः।
गणेशप्रीतये नानादानानि स ददौ सदा॥३७॥
ततो राज्ये स्वपुत्रं स संस्थाप्यैकान्तसंस्थितः।
सस्त्रीको गणनाथं तमभजद्ध्यानमार्गतः॥३८॥
अन्ते जगाम विघ्नेशं तल्लीनः स बभूव ह।
जनाः सर्वे क्रमेणैते ब्रह्मभूता बभूविरे॥३९॥
एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम्।
कथितं ते महीपाल श‍ृण्वन्यत्त्वं कथानकम्॥४०॥
गान्धारदेशवासीयः क्षत्रियः पापकारकः।
बभूव स परद्रव्यहारकश्चौर्यमार्गतः॥४१॥
द्यूतमद्यरतो नित्यं परस्त्रीलम्पटोऽभवत्।
गोमांसभक्षणे सक्तो मिथ्यावाक् साक्ष्यपूरकः॥४२॥
नानाभेदैः सुदुर्बुद्धिः कलहं यत्र तत्र वै।
चकार सर्वदा राजन् हिंसाकर्मपरायणः॥४३॥
ततो राज्ञा महापापी वने निष्कासितो बलात्।
जघान मार्गगांस्तत्र जन्तून्नानाविधान् खलः॥४४॥
द्विजादीनां वधे सक्तः स्त्रीबालवधकारकः।
एवं नानाविधं पापं नित्यमेव चकार सः॥४५॥
ततो द्रव्ययुतोऽत्यन्तं बुभुजे भोगमुत्तमम्।
हृदीप्सितं स दुष्टात्मा नानाचौरसमन्वितः॥४६॥
कदाचित् पर्वतद्रोणीं मलमासे स आश्रितः।
चतुर्थ्यां कृष्णपक्षस्य हिंसार्थं लोभसंयुतः॥४७॥
ततो मानवमेकं तु मार्गस्थं स ददर्श ह।
निःसृत्याधावदत्यन्तं शस्त्रहस्तो वधाय वै॥४८॥
पपाल क्रूरकर्माणं दृष्ट्वा तं सोऽपि भीतितः।
क्रोशमात्रं ततो दुष्टः पपात पदव्युत्क्रमात्॥४९॥
पतितं तं समाज्ञाय नरः क्रोधसमन्वितः।
पाषाणेन महादुष्टं मारयामास मस्तके॥५०॥
मस्तकः स्फुटितस्तत्र क्षत्रियस्य नराधिप।
तेन स व्याकुलोऽत्यन्तं गतचेष्टो बभूव ह॥५१॥
रात्रौ चन्द्रोदये किञ्चित् सावधानोऽभवत् कुधीः।
पायसं भक्षयामास स्वल्पं दुःखसमन्वितः॥५२॥
ततो ममार पञ्चम्यां गतः स्वानन्दके पुरे।
तत्र दृष्ट्वा गणेशानं ब्रह्मभूतो बभूव ह॥५३॥
एवं व्रतप्रभावेण पापकर्मा स क्षत्रियः।
ब्रह्मभूतो बभूवाऽपि किं पुनर्ज्ञानतः कृतम्॥५४॥
नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान्।
ब्रह्मभूता बभूवुश्च कथितुं तन्न शक्यते॥५५॥
इदं कृष्णचतुर्थ्या यन् माहात्म्यं मलमासके।
श‍ृणोति यस्तु पठति स ईप्सितमवाप्नुयात्॥५६॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मलमासकृष्णपक्षचतुर्थीमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः॥४-३२॥