नामैकत्रिंशोऽध्यायः—पौष-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
पौषकृष्णचतुर्थ्यास्तु माहात्म्यं वद भो गुरो।
न तृप्यामि कथां शृण्वन् सर्वसिद्धिकरीं पराम्॥१॥
वसिष्ठ उवाच
इतिहासं प्रवक्ष्यामि पुरातनभवं महान्।
राजा वीरसहो नाम बभूवे हस्तिनापुरे॥२॥
बलवान्नीतियुक्तश्चाभवच्छस्त्रास्त्रपारगः।
धर्मशीलो वदान्यः स मान्यान् मानयिता भृशम्॥३॥
नानादानरतश्चापि वान्ध्यदोषयुतोऽभवत्।
तदर्थं यत्नमास्थाय देवसेवापरोऽभवत्॥४॥
ब्राह्मणैः पुत्रकामार्थं पुत्रीयामिष्टिमाहरत्।
नैव लेभे स तदपि पुत्रं वंशविवर्धनम्॥५॥
तीर्थक्षेत्रादिकस्थाने नानाधर्मानकारयत्।
स्वयं पूजापरो भूत्वा न लेभे सन्ततिं ततः॥६॥
ततोऽतिदुःखितो राजा त्यक्त्वा राज्यं वने ययौ।
सस्त्रीको भ्रममाणः स शीतोष्णैः पीडितोऽभवत्॥७॥
महावनान्तरं गत्वा दुःखशोकसमन्वितः।
सिंहव्याघ्रादिकान् दृष्ट्वा भयहीनश्चचार ह॥८॥
तत्राऽऽजगाम योगीन्द्रस्त्रितो नाम महामुनिः।
तं दृष्ट्वा प्रणनामाऽऽदौ कृताञ्जलिपुटः स्थितः॥९॥
तेन पृष्ट उवाचाऽसौ निजं सर्वं महायशाः।
रुरोद तं महायोगी जगाद करुणायुतः॥१०॥
त्रित उवाच
राज्ये ते नृपशार्दूल सर्वसिद्धिकरं व्रतम्।
नष्टं चतुर्थीजं पूर्णं तेन वन्ध्योऽसि निश्चितम्॥११॥
सर्वादौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम्।
तदा कर्म कृतं सर्वं चतुःपादप्रदं भवेत्॥१२॥
नानाधर्मपरस्त्वं वै जनास्तथैव मानद।
फलहीनप्रभावेण पतिष्यन्ति च रौरवे॥१३॥
एवमुक्त्वा चतुर्थ्यास्तु माहात्म्यं मुनिसत्तमः।
श्रावयामास सम्पूर्णं ततस्तं त्वब्रवीन्नृपः॥१४॥
वीरसह उवाच
गणेश्वरस्य माहात्म्यं वद मे करुणानिधे।
एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा॥१५॥
त्रित उवाच
गणेशस्य स्वरूपं यद्वक्तुं शक्यं कथं भवेत्।
उपाधियुक्तं भावेन कथयामि शृणुष्व तत्॥१६॥
अहं पुरा तपोयुक्तः शापानुग्रहणे क्षमः।
एको द्वितश्च मे राजन् भ्रातरौ विद्यया युतौ॥१७॥
ताभ्यां यज्ञार्थमेवाहं गतो राज्ञो महात्मनः।
अभवं कारयित्वा तं स्वगृहे गन्तुमुत्सुकः॥१८॥
दक्षिणापशुभिर्युक्तं विपुलैर्मार्गसंस्थितम्।
भ्रातरौ लोकसंयुक्तौ कूपे क्षिप्त्वा प्रजग्मतुः॥१९॥
जलहीने हि कूपेऽहं पतितः खेदसंयुतः।
तत्र मानसिकं यज्ञं प्रचकार हितावहम्॥२०॥
आजग्मुस्तत्र देवाद्या हविर्भागार्थमादरात्।
मया सम्पूजिताः सर्वे तृप्ताः संहर्षिता बभुः॥२१॥
अमरा ईप्सितं सर्वे वरं मह्यं ददुर्नृप।
ततः कूपाच्च मां सर्वे बहिः क्षिप्त्वा प्रजग्मिरे॥२२॥
ततोऽहं याचयित्वाऽन्यं नृपं गोभिः समन्वितः।
हर्षेण स्वाश्रमं गत्वा संस्थितस्तप आचरन्॥२३॥
ततोऽतितपसा ज्ञानं सर्वगं ह्यभवत्ततः।
तपस्त्यक्त्वा च योगेन प्राभवं भूमिसाधकः॥२४॥
जडोन्मत्तपिशाचाद्या भूमयः साधिता मया।
अन्ते ब्रह्मगतोऽतिष्ठं समात्माऽहं स्वशान्तिदे॥२५॥
स्वाश्रमे हर्षयुक्तोऽहं ततो मुद्गल आगतः।
धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम्॥२६॥
योगीन्द्रैर्वन्दितो नित्यं तं दृष्ट्वा प्रणतोऽभवम्।
पूजयित्वा सुविश्रान्तं तमपृच्छं कृताञ्जलिः।
शान्तियोगं वद स्वामिन् शान्तिभ्यः शान्तिदायकम्॥२७॥
मुद्गल उवाच
असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने।
अव्यक्तः शङ्करस्तेषां संयोगे गणपोऽभवत्॥२८॥
संयोगे मायया युक्तो गणेशो ब्रह्मनायकः।
अयोगे मायया हीनो भव ते मुनिसत्तम॥२९॥
संयोगायोगयोर्योगे योगो गाणेशसंज्ञकः।
शान्तिभ्यः शान्तिदः प्रोक्तो भज तं भक्तिसंयुतः॥३०॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं स मुद्गलः।
एकाक्षरं विधियुतं ततः सोऽन्तर्हितोऽभवत्॥३१॥
ततोऽहं गणराजं तमभजं सर्वभावतः।
तेन शान्तिसमायुक्तश्चरामि ह्यकुतोभयः॥३२॥
न गणेशात् परं ब्रह्म न गणेशात् परं तपः।
न गणेशात् परं कर्म ज्ञानं न गणपात् परम्॥३३॥
न गणेशात् परो योगो भक्तिर्न गणपात् परा।
तस्माच्च सर्वपूज्योऽयं सर्वादौ सिद्धिदायकः॥३४॥
गणेशानं परित्यज्य कर्म ज्ञानादिकं चरेत्।
तत्सर्वं निष्फलं याति भस्मनि प्रहुतं यथा॥३५॥
सर्वांस्त्यक्त्वा गणेशानं भजतेऽनन्यचेतसा।
सर्वसिद्धिं लभेत् सद्यो ब्रह्मभूतः स कथ्यते॥३६॥
एवमुक्त्वा त्रितस्तस्मै ददौ मन्त्रं दशाक्षरम्।
विधियुक्तं ततः साक्षादन्तर्धानं चकार ह॥३७॥
राजा वीरसहो राजन् हर्षतः स्वपुरं ययौ।
प्रधानैर्नागरैः सर्वैर्मानितः संस्थितोऽभवत्॥३८॥
तत्रादौ पौषगां कृष्णां चतुर्थीं तां समागताम्।
चकार स्वपुरस्थैः स विधियुक्तां सुहर्षितः॥३९॥
प्रशस्तं तद् व्रतं तेन कृतं सर्वत्र भूमिप।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि॥४०॥
ततः पुत्रं महाशूरं नीतिज्ञं धर्मसंयुतम्।
लेभे नानागुणैर्युक्तं जनाः संहर्षिता बभुः॥४१॥
रोगादिभिर्विनिर्मुक्ता हृष्टाः पुष्टाश्च तेऽभवन्।
यत्र तत्र चतुर्थीजं माहात्म्यमवदन् जनाः॥४२॥
पुत्रं राज्ये समास्थाप्य राजा निर्वृत्तिधारकः।
सस्त्रीको गणनाथं तमभजद् भावसंयुतः॥४३॥
अन्ते ब्रह्ममयः सोऽपि बभूव व्रतपुण्यतः।
क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे॥४४॥
एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम।
अन्यच्छृणु महाभाग पापनाशकरं महत्॥४५॥
गौडे कश्चिद् वणिक् पापी लोभयुक्तो बभूव ह।
द्रव्यार्थं पितरं सोऽपि जघान विषदोषतः॥४६॥
मातरं स तथा दुष्टो मार्गे नानाजनांस्तथा।
वणिजो विषयोगेन मारयामास नित्यदा॥४७॥
एवं बहुधनो जातः परस्त्रीलालसोऽभवत्।
मद्यमांसपरो दुष्टो सतीसङ्गेषु लालसः॥४८॥
नानामिषेण दुष्टः स्म सतीर्यभति वेगतः।
परस्त्रियस्ततो राज्ञा धृतोऽसौ ताडितोऽभवत्॥४९॥
निगडैर्बद्ध एवाऽसौ संस्थितो राजवेश्मनि।
दैवयोगेन पौषी सा प्राप्ता कृष्णा चतुर्थिका॥५०॥
तस्यामन्नादिभिर्हीनः स्थितो दुःखसमन्वितः।
चन्द्रोदये रक्षकैर्यद्दत्तमन्नमभक्षयत्॥५१॥
पञ्चम्यां राजदूतैः स शूलप्रोतो ममार ह।
ब्रह्मभूतः स वै जातो व्रतपुण्यप्रभावतः॥५२॥
एवमज्ञानसंयुक्ता ज्ञानयुक्ता बभूविरे।
ब्रह्मभूता व्रतस्यैव प्रभावेण महामते॥५३॥
तत्रैव कति ते राजन् कथयामि विशेषतः।
न वक्तुं शक्यते तस्मादुक्तं सङ्क्षेपतो मया॥५४॥
इदं पौषस्य सङ्कष्ट्या माहात्म्यं संशृणोति यः।
पठेद् वा तस्य शुभदं भविष्यति निरन्तरम्॥५५॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः॥४-३१॥