त्रिंशोऽध्यायः—मार्गशीर्ष-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

मार्गशीर्षे च कृष्णायाश्चतुर्थ्या वद मानद।
माहात्म्यं सर्वदं स्वामिन् येन तृप्तो भवाम्यहम्॥१॥

वसिष्ठ उवाच

इतिहासं पुरावृत्तं कथयामि सविस्तरम्।
राजा बभूव तेजस्वी हरिश्चन्द्रः प्रतापवान्॥२॥
अयोध्यायां स्थितः सोऽपि नानाधर्मपरायणः।
सदा सद्गुणसंयुक्तो यज्वा कर्मपरायणः॥३॥
यद्यच्च याचते विप्रस्तद्ददाति स हर्षतः।
तस्य पुण्येन तुल्यं तु न बभूव धरातले॥४॥
ततश्छलयितुं योगी विश्वामित्रः समाययौ।
सर्वराज्यं नृपस्यैव जगृहे दानमार्गतः॥५॥
राज्यभ्रष्टं नृपं कृत्वा परप्रान्ते गतं पुनः।
नानामिषेण तं तत्राच्छलयन् मुनिसत्तमः॥६॥
ततः सोऽपि नृपोऽत्यन्तं धर्मयुक्तो बभूव ह।
न चचालातिदुःखेन संयुक्तः परमार्थवित्॥७॥
तत्रैकदा चतुर्थी सा मार्गशीर्षे समागता।
कृष्णा नृपः क्षुधायुक्तो बभूव तृषया युतः॥८॥
छलितो मुनिनाऽत्यन्तं ततश्चन्द्रोदयोऽभवत्।
तत्रान्नं भक्षयामास राजेन्द्रो दैवयोगतः॥९॥
पञ्चम्यां बुद्धिसम्भेदो विश्वामित्रस्य चाभवत्।
तज्ज्ञात्वा विस्मितो योगी विचचार स्वचेतसि॥१०॥
ततस्तेन व्रतं तत्र ज्ञातं राज्ञा कृतं महत्।
प्रत्यक्षं वरदो भूत्वा हरिश्चन्द्रमुवाच ह॥११॥
कुरु राज्यं महाबुद्धे श‍ृणु मे परमं वचः।
तव राज्ये चतुर्थीजं व्रतं नष्टं बभूव ह॥१२॥
तेन त्वं पीडया युक्तः प्रजातोऽसि नृपाधम।
अहं सङ्क्षुभितो वाऽपि तदर्थं नात्र संशयः॥१३॥
सर्वादौ तद्व्रतं कार्यं चतुःपादप्रदं नृप।
नित्यवन्नात्र सन्देहः सर्वसिद्धिप्रदायकम्॥१४॥
त्वया नानाविधं पुण्यं कृतं विधियुतं महत्।
तत्सर्वं निष्फलं जातं व्रतहीनप्रभावतः॥१५॥
जनैः सर्वैर्महाराज नरके त्वं पतिष्यसि।
त्वया कृतं व्रतं मुख्यमधुनाऽज्ञानतो महत्॥१६॥
तेनाऽहं प्रीतिसंयुक्तः कृतो वै राजसत्तम।
तत् कुरुष्व महीपाल जनैः सौख्यमवाप्स्यसि॥१७॥
एवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं मुनिः।
सविधिं गणनाथस्य सोऽपि तं पुनरब्रवीत्॥१८॥

हरिश्चन्द्र उवाच

गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः।
व्रतस्यैव प्रभावं त्वं विधियुक्तं महामुने॥१९॥

विश्वामित्र उवाच

गणेश्वरस्य माहात्म्यं श‍ृणु सङ्क्षेपतो नृप।
एक एव गणेशोऽयं सर्वे तस्य गणाः स्मृताः॥२०॥
मनोवाणीमयं विश्वं तदेव गणवाचकम्।
नानाभावसमायुक्तं मया वक्तुं न शक्यते॥२१॥
मनोवाणीविहीनं यन्नानाब्रह्मप्रवाचकम्।
गणरूपं तु विज्ञेयं वेदे पश्य महीपते॥२२॥
सिद्धिर्भ्रान्तिकरी प्रोक्ता बुद्धिर्भ्रान्तिधरा नृप।
ताभ्यां क्रीडति विघ्नेशश्चित्ते चिन्तामणिः स्थितः॥२३॥
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि।
राज्यकर्ताऽपि वन्द्यस्त्वं योगिनां प्रभविष्यसि॥२४॥
चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा।
समोऽहं चित्तमुत्सृज्य चिन्तामणिर्भविष्यसि॥२५॥
एवमुक्त्वा व्रतस्यैव माहात्म्यं मुनिपुङ्गवः।
श्रावयामास तस्मै तत्ततश्चान्तर्हितोऽभवत्॥२६॥
विश्वामित्रं गतं ज्ञात्वा राजा हर्षसमन्वितः।
अयोध्यायां ययौ वेगात् प्रधानैरनुमोदितः॥२७॥
नागरैः सह राजाऽपि चकार व्रतमुत्तमम्।
शुक्लकृष्णचतुर्थीजं गणेशभजने रतः॥२८॥
सर्वत्रैवं प्रशस्तं तद् व्रतं चकार हर्षतः।
भूमिसंस्था जनाः सर्वे व्रतं चक्रुर्विशेषतः॥२९॥
नानेन सदृशं किञ्चित् सर्वदं व्रतमुत्तमम्।
ततो रोगादिभिर्हीनो बभूवे हर्षसंयुतः॥३०॥
राजा गणपतिं नित्यमभजन्नान्यचेतसा।
पुत्रे राज्यं विनिक्षिप्य सस्त्रीकश्च ययौ वनम्॥३१॥
तत्रैव गणराजं सोऽभजत् सुतपसा युतः।
शान्तिं प्राप्तो विशेषेणाऽभवद्योगी स पार्थिवः॥३२॥
अन्ते स्वानन्दगो भूत्वा गणेशे लीनतां गतः।
एवं व्रतस्य माहात्म्यं कथितं तेऽजनन्दन॥३३॥
जनाः सर्वे क्रमेणैव ब्रह्मभूता बभूविरे।
चतुर्थीव्रतजेनैव पुण्येन परमेण ते॥३४॥
अन्यच्छृणु महीपाल मालवे नगरं महत्।
कर्णा नाम च तत्राऽऽसीद्वेश्या नरविमोहिनी॥३५॥
लोकान् सा हावभावेन मोहयामास तत्क्षणात्।
नाना जनाः स्वधर्मं त्यक्त्वाऽभवन् वै तदात्मकाः॥३६॥
स्वस्वस्त्रियं परित्यज्य तन्निष्ठास्ते बभूविरे।
मद्यमांसरताः सर्वे नराधिप कृतास्तया॥३७॥
ब्राह्मणादय एवं ते भ्रष्टा जाता विशेषतः।
चौर्यादिकर्मसंयुक्ताः किं वदामि महामते॥३८॥
कथने परदोषाणां दोषी भवति मानवः।
एतादृशी तु सा वेश्या पापरूपाऽतिदारुणा॥३९॥
नानाजनैर्युता राजन्नरके कृतनिश्चया।
न विरामं चकाराऽपि नराणां मोहने कदा॥४०॥
एकदा ज्वरसंयुक्ता मार्गशीर्षे बभूव च।
चतुर्थ्यां कृष्णपक्षे साऽभवद् दाहेन पीडिता॥४१॥
पञ्चम्यां सा मृता तत्र ब्रह्मभूता बभूव ह।
व्रतस्यैव प्रभावेण पतितानां सहायिनी॥४२॥
एवं नाना जना राजन् ब्रह्मभूता बभूविरे।
तत्र ते कति वै ब्रूयां नालं वर्षायुतैरपि॥४३॥
मार्गशीर्षचतुर्थ्या यन् माहात्म्यं कथितं परम्।
पठनात् श्रवणात् सर्वसिद्धिदं भवति ह्यहो॥४४॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः॥४-३०॥