एकोनत्रिंशोऽध्यायः—कार्तिक-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
कार्तिके कृष्णपक्षे या चतुर्थी सङ्कटी मता।
माहात्म्यं वद तस्यास्त्वं सर्वपापहरं परम्॥१॥
वसिष्ठ उवाच
अत्र ते कथयिष्यामि चेतिहासं पुरातनम्।
महाराष्ट्रे महातेजा राजाऽभूत् कर्दमाभिधः॥२॥
वेदवेदार्थतत्त्वज्ञः स्वधर्मनिरतोऽभवत्।
लोकान् सङ्गृह्य षष्ठांशं पालयन् पुत्रकान् यथा॥३॥
अपारसेनया युक्तश्चतुरङ्गप्रमोदया।
पूर्णकोशः कुबेराभो बभौ शस्त्रास्त्रपारगः॥४॥
स्वबलेन नृपान् सर्वान् वशान् कृत्वा महाबलः।
चकार वशगां पृथ्वीं समुद्रान्तां विशेषतः॥५॥
करदा इतरे सर्वे राजानः सेवका इव।
सामन्ताश्च महाराज तस्याज्ञावशवर्तिनः॥६॥
पुण्यवान् धर्मशीलश्च नानादानपरायणः।
देवविप्राऽतिथिप्रेप्सुः स्वदारनिरतोऽभवत्॥७॥
यज्वा विनीतकस्तीर्थकारकः परवीरहा।
नानागुणयुतः सोऽपि मया वक्तुं न शक्यते॥८॥
स एव यक्ष्मणाऽत्यन्तं पीडितः पापरूपिणा।
शोकाकुलोऽभवद्राजा अस्थिशेषो बभूव ह॥९॥
नानोपायाः कृतास्तस्य शान्तये न च सोऽभवत्।
शान्तस्ततो महाराजस्तीर्थयात्रापरोऽभवत्॥१०॥
नानातीर्थानि राजाऽसौ चकार तदपि ह्यहो।
पीडया नैव मुक्तोऽभूत्ततो दुःखितमानसः॥११॥
देवार्चनरता विप्राः कृतास्तेन महात्मना।
तथाऽपि रोगसंयुक्तोऽधिको राजा बभूव ह॥१२॥
ततः शान्तिधरो राजा वैराग्ये निदधे मनः।
राज्यं त्यक्त्वा प्रधानेषु सस्त्रीकः स वनं ययौ॥१३॥
बभ्राम वनगो भूत्वा यत्र तत्र महीपतिः।
ततो मङ्कणकं विप्रमदर्शद्योगिसत्तमम्॥१४॥
तद् दृष्ट्वा निपपातोर्व्यां रुरोद भृशमेव सः।
ततस्तं मुनिमुख्योऽसौ जगाद दयया युतः॥१५॥
मङ्कणक उवाच
शृणु राजन् महाभाग येन त्वं रोगपीडितः।
अभवस्तदघं सर्वं कथयामि नृपाधम॥१६॥
मुख्यं नष्टं च राज्ये ते चतुर्थीसंज्ञितं व्रतम्।
तेन त्वं पापसंयुक्तो नरके गच्छसि ध्रुवम्॥१७॥
सर्वादौ तद्व्रतं कार्यं नित्यवद्राजसत्तम।
सर्वसिद्धिकरं पूर्णं चतुर्विधफलप्रदम्॥१८॥
तद्व्रतेन विहीनस्त्वं नानाधर्मपरायणः।
चतुःपदार्थहीनत्वान्निष्फलोऽसि नृपाधम॥१९॥
एवमुक्त्वा च माहात्म्यं चतुर्थीसम्भवं मुनिः।
श्रावयामास तस्मै तच्छ्रुत्वा सोऽपि तमब्रवीत्॥२०॥
कर्दम उवाच
धन्यं मे जन्म कर्मादि त्वदङ्घ्रियुगदर्शनात्।
व्रतस्य श्रवणाद्धन्यो कृतकृत्यो न संशयः॥२१॥
दयानिधे गणेशस्य स्वरूपं वद विस्तरात्।
सर्वदेवाधिदेवं तं भजिष्यामि निरन्तरम्॥२२॥
मङ्कणक उवाच
गणेशस्य स्वरूपं कथयितुं शक्यते न तत्।
तथाप्युपाधिसंयुक्तं वदामि शृणु कर्दम॥२३॥
पुराऽहं पत्रभक्षः संस्तपसे संस्थितोऽभवम्।
बहुकाले गते हस्तो विद्धो मे कण्टकेन च॥२४॥
तदा पत्ररसस्तस्मादस्रवत् किञ्चिदप्यहो।
दृष्ट्वा विस्मितचित्तोऽहं नृत्यं चाकरवं तदा॥२५॥
अहो देहाद्गतं कुत्र रुधिरं मे स्वभावजम्।
पत्रभक्षणभावेन रसः स्रवति हस्ततः॥२६॥
ततो नृत्यस्य वेगेन कम्पितं स चराचरम्।
मदीयतपसा युक्तं देवाः शङ्करमाययुः॥२७॥
शङ्करः सर्वदेवैश्चागत्य मामब्रवीद् वचः।
किं नृत्यसि महाभाग पश्य मे कौतुकं महत्॥२८॥
इत्युक्त्वा त्रुटिका तेन कृता तत्र रसस्य मे।
भस्मरूपं कृतं भूपाऽभवं तेनातिविस्मितः॥२९॥
त्यक्त्वा नृत्यं महेशानं प्रणम्य स्तुतवान् क्षणात्।
अन्तर्धाय स्वमात्मानं शङ्करः स गतोऽभवत्॥३०॥
मया मनसि राजेन्द्र सन्धृतं शङ्करात् परम्।
विद्यते न तथा कर्तुमन्यथा कर्तुमीश्वरः॥३१॥
दर्शयित्वा तपोरूपमतो भस्म कृतं महत्।
रसस्य सर्वगः सोऽपि ब्रह्माकारः प्रदृश्यते॥३२॥
त्यक्त्वा विष्णुं महेशस्य भजने निरतोऽभवम्।
क्रमेण योगयुक्तोऽहं तपस्त्यक्त्वा शमे रतः॥३३॥
जडादिका मया योगभूमयः क्रमितास्ततः।
क्रमेण सहजे संस्थोऽभवं वै मोहवर्जितः॥३४॥
यत्र तत्र महीदेशे भ्रान्तोऽहं योगधारकः।
सहजं ब्रह्म मोहेन हीनं दृष्टं मया ततः॥३५॥
स्वाधीनं सहजं ब्रह्म न योग्यं शान्तिदे परे।
तेनाऽहं ब्रह्मणि भ्रान्तः सूर्यं च शरणं गतः॥३६॥
प्रणम्य सौरमार्गेण स्तोत्रेण प्रस्तुतो मया।
प्रसन्नो माऽवदत् तत्र वरं वरय चेप्सितम्॥३७॥
ततोऽहमवदं सूर्यं वद शान्तिप्रदं प्रभो।
सहजं मोहहीनत्वात् स्वाधीनं नैव शान्तिदम्॥३८॥
ततो मामब्रवीत् सूर्यः प्रसन्नो भक्तियन्त्रितः।
गणेशं भज भावेन तदा शान्तिमवाप्स्यसि॥३९॥
असच्छक्तिश्च सत् सूर्यः समो विष्णुर्महामुने।
सहजः शङ्करः प्रोक्तस्तेषां योगे गणेश्वरः॥४०॥
चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः।
अयोगः पञ्चभिर्हीनस्तत्र निर्मायिको बभौ॥४१॥
संयोगे मायया युक्तो योगे मायाविवर्जितः।
तयोर्योगे शान्तिदः स गणेशो ब्रह्मनायकः॥४२॥
चित्तरूपा महाबुद्धिः पञ्चधा परिकीर्तिता।
चित्तमोहप्रदा सिद्धिस्ताभ्यां क्रीडति विघ्नपः॥४३॥
चित्तं मोहयुतं विप्र त्यक्त्वा योगेन शान्तिदम्।
चिन्तामणिं भजस्व त्वं योगिवन्द्यो भविष्यसि॥४४॥
एवमुक्त्वा ददौ मन्त्रं प्रभुर्मह्यं षडक्षरम्।
स विधिं तं नमस्कृत्य स्वाश्रमेऽहं समागमम्॥४५॥
तत्र विघ्नेश्वरं भक्त्या भजं तं नित्यमादरात्।
ततः स्वल्पेन शान्तिस्थोऽभवं योगस्य सेवया॥४६॥
तथाऽपि गणराजं सम्पूज्य मन्त्रपरायणः।
अभजं तेन सन्तुष्टः प्रत्यक्षं प्रययौ स्वयम्॥४७॥
मया सम्पूजितो भक्त्या स्तुतो नानाविधैः स्तवैः।
मह्यं दत्त्वा दृढां भक्तिमन्तर्धानं चकार ह॥४८॥
तदारभ्य महीपाल गाणपत्योऽहमादरात्।
भजामि तं गणेशानं स्वच्छन्देन महामते॥४९॥
एवमुक्त्वा ददौ तस्मै कर्दमाय षडक्षरम्।
मन्त्रं विधियुतं विप्रो गणेशकृपया युतः॥५०॥
अन्तर्धानं चकारापि महान् मङ्कणको मुनिः।
राजा हर्षसमायुक्तः स्वगृहं प्रत्यपद्यत॥५१॥
तत्राऽऽदौ कार्तिके मास्यागता कृष्णा चतुर्थिका।
तां चकार पुरस्थैश्च जनैर्हर्षयुतो नृप॥५२॥
ततो भूपेन विख्यातं कृतं व्रतमनुत्तमम्।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि॥५३॥
रोगहीनः स राजर्षिरभजद्गणनायकम्।
जना वन्ध्यत्वहीनाश्चाभजंस्ते भावसंयुताः॥५४॥
पुत्रे राज्यं परित्यज्य सस्त्रीकः स वनं ययौ।
तत्र विघ्नेश्वरं भक्त्याऽभजच्चानन्यचेतसा॥५५॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह।
क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे॥५६॥
एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम।
अन्यत्त्वं शृणु भावेन परं कार्तिकसम्भवम्॥५७॥
चाण्डालः कोऽपि पापात्मा हिंसायां तत्परोऽभवत्।
जघान ब्राह्मणानन्यान् जन्तून् वनसमाश्रितान्॥५८॥
परस्त्रियं वने दृष्ट्वाऽयभत्तां हठसंयुतः।
एवं नानाविधं पापं चकार दुर्मतिः सदा॥५९॥
कदाचित् कार्तिके मासि चतुर्थ्यां वनमाश्रितः।
कृष्णायां तत्र सर्पेण दष्टः पापपरायणः॥६०॥
ततोऽतिभयसंयुक्तः स्वगृहं प्रत्यपद्यत।
तत्रोपायाः कृता नाना स्वजनैर्विषहारकाः॥६१॥
तथाऽपि विषबाधा च न जहौ तं सुदुर्मतिम्।
ततश्चन्द्रोदये किञ्चित् सावधानो बभूव ह॥६२॥
तत्रान्नं भक्षयित्वा स पुनस्तद्गरलेन च।
व्याकुलः पतितस्तत्र गतचेष्टोऽन्त्यजोऽभवत्॥६३॥
पञ्चम्यां स मृतः पापी ब्रह्मभूतो बभूव ह।
व्रतपुण्यप्रभावेन तदद्भुतमिवाऽभवत्॥६४॥
एवं नानाविधा राजन् व्रतपुण्यप्रभावतः।
बभूविरे ब्रह्मभूता मया वक्तुं न शक्यते॥६५॥
एतत्ते कथितं सर्वं माहात्म्यं कार्तिके नृप।
सङ्कष्ट्या यस्तु पठति शृणोतीप्सितमालभेत्॥६६॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः॥४-२९॥