अष्टाविंशोऽध्यायः—आश्विन-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

माहात्म्यं यद्वद ब्रह्मन्नाश्विने कृष्णके महत्।
चतुर्थीजं विशेषेण न तृप्तोऽहं भवामि वै॥१॥

वसिष्ठ उवाच

इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम्।
अत्र तेन महाराज श‍ृणु तृप्तो भविष्यसि॥२॥
पार्वतीशङ्कराभ्यां च तपसाऽऽराधितोऽभवत्।
दिव्यवर्षसहस्रेण गणेशः पुत्रतां गतः॥३॥
कार्तिकेयस्तथा जातः स्ववीर्यात् स्नेहकारकः।
न तथा प्रीतिरुत्पन्ना गणेशे च तयोरभूत्॥४॥
कार्तिकेयो गणेशानं स्पर्धते नित्यमादरात्।
विवाहो मे पुरा पश्चात्तवापि स्म भविष्यति॥५॥
एवं स्पर्धयतोर्वीक्ष्य पुत्रयोः पार्वतीशिवौ।
विचारं चक्रतुस्तत्र विवाहार्थं महामते॥६॥
अयं विघ्नेश्वरः साक्षाद्ब्रह्मरूपो न संशयः।
क्षोभितश्चेत् पदभ्रष्टं करिष्यति विशेषतः॥७॥
साक्षात् पुत्रं समुत्पन्नं स्कन्दं सन्त्यज्य विघ्नपम्।
ज्येष्ठं विवाहयेच्चेद्वा सेनानीः कोपितो भवेत्॥८॥
त्यक्त्वा स्वपुत्रं सेनान्यं विवाहो नैव शोभते।
अतः कपटरूपेण कर्तव्यं कार्यमुत्तमम्॥९॥
ततः शिवो गणेशानं स्कन्दं चैवाऽब्रवीद् वचः।
धराप्रदक्षिणां कृत्वा य आदौ सुसमागतः॥१०॥
पूर्वं विवाहकं तस्य करिष्यामि न संशयः।
ततस्तं गणनाथस्तु जगाद वचनं हितम्॥११॥
ज्येष्ठं मां किं परित्यज्य प्रभो वदसि शङ्कर।
वेदहीनं तथा मेऽस्तु भवदाज्ञां करोम्यहम्॥१२॥
स्थूलदेहधरोऽहं मे वाहनं मूषको मतः।
पृथ्वीप्रदक्षिणां कर्तुं न शक्नोमि सदाशिव॥१३॥
एवमुक्त्वा गणाधीशः स्वगृहे संस्थितोऽभवत्।
जगाम स्कन्द आरुह्य मयूरं हर्षसंयुतः॥१४॥
पृथ्वीप्रदक्षिणायां स रतः स्कन्दः स वेगवान्।
चकार मायया तत्र गणेशः कौतुकं महत्॥१५॥
सम्पूज्य पार्वतीं शङ्करं चकार प्रदक्षिणाम्।
उवाच शङ्करं तत्र विवाहो मे विधीयताम्॥१६॥
प्रदक्षिणा कृता येन पितुर्मातुः सदाशिव।
पृथ्वीप्रदक्षिणा तेन कृता शास्त्रे न संशयः॥१७॥
श्रुत्वा गणपतेर्वाक्यं कम्पितः शङ्करोऽब्रवीत्।
करोमि ते विवाहं वै क्रोधं मा कुरु पुत्रक॥१८॥
तत एकान्तगं शम्भुं पार्वती प्रेमविह्वला।
उवाच कार्तिकेयं किं त्यक्त्वा ढुण्ढिः स मानितः॥१९॥
ततस्तां शङ्करो वाक्यं जगाद श‍ृणु पार्वति।
अयं क्रुद्धश्च सर्वस्वं हरत्यत्र न संशयः॥२०॥
अतः स्नेहं परित्यज्य रक्ष धर्मं सनातनम्।
नाऽयं पुत्रो महादेवि ब्रह्मभूतः समागतः॥२१॥
एवमुक्त्वा सतीं शम्भुविवाहमकरोत्ततः।
गणेशस्य विधानेन हृदयेनाविदूयता॥२२॥
सिद्धे विवाहके पूर्णे कार्तिकेयः समागतः।
तत्र विघ्नकरो विघ्नं चकार परमाद्भुतम्॥२३॥
नारदः सहसाऽऽगत्य कार्तिकेयमुवाच ह।
विवाहकृत्यमेतस्य पित्रा मात्रा कृतं पुरा॥२४॥
त्वां वञ्चयित्वा सेनानीः कृतं कर्म जुगुप्सितम्।
नावलोक्यं मुखं मातुः पितुश्चापि त्वया कदा॥२५॥
एवमुक्त्वा गतो विप्रो नारदः कलहप्रियः।
स्कन्दो निःश्वस्य तस्मात् स ययौ श्रीशैलपर्वतम्॥२६॥
ज्ञात्वा पुत्रस्य वृत्तान्तं पार्वतीशङ्कराविमम्।
शोधार्थं तत्र शैले तौ गतौ ज्ञात्वा पपाल सः॥२७॥
क्रौञ्चे स्कन्दं स्थितं ज्ञात्वा पार्वतीशङ्करौ नृप।
शोकसंविग्नचित्तौ तौ विलापं चक्रतुः पुरा॥२८॥
तत्राऽऽजगाम विप्रेन्द्रो मुद्गलः सर्वमुद्गलः।
तं दृष्ट्वा सहसोत्थाय पूजयामासतुर्मुनिम्॥२९॥
सुखासीनं महाभाग उवाच शोकसङ्कुलः।
भगवन् सर्वतत्त्वज्ञ वद मां शोकनाशनम्॥३०॥
स्कन्दसंयोगदं पूर्णमुपायं तं करोम्यहम्।
रुरोद पार्वती तत्र ततस्तौ मुनिरब्रवीत्॥३१॥

मुद्गल उवाच

शम्भो श‍ृणु महाभाग त्वं साक्षात् सर्ववित् प्रभुः।
विद्यारूपेयमाद्या सा शक्तिः सर्वार्थदायिनी॥३२॥
तथाऽपि कथयामि त्वां पुत्रौ शास्त्रे प्रकीर्तितौ।
द्विविधौ तौ त्वया प्राप्तौ त्वत्समो नैव दृश्यते॥३३॥
योगाभ्यासेन विघ्नेशो ब्रह्मणां नायकस्तव।
पुत्रः समाधिजः प्रोक्तस्ततश्चिन्तामणिः स्मृतः॥३४॥
देहः शक्तिमयस्तत्रात्मा त्वं पुरुष उच्यसे।
ताभ्यां योगबलेनैव क्रियते ब्रह्मपुत्रकः॥३५॥
अर्धनारीश्वरस्त्वं च तस्माज्जातो गजाननः।
ब्रह्मभूतपदस्याऽसौ पालको नात्र संशयः॥३६॥
भिन्ना शक्तिरियं जाता भिन्नस्त्वं देहधारकः।
भिन्नभावात् समुत्पन्नः पुत्रस्ते स्कन्द एव च॥३७॥
देहसौख्यकरः प्रोक्तः स्कन्दः सर्वत्र सम्मतः।
शान्तिसौख्यकरश्चैव गणेशः पुत्रभावतः॥३८॥
तत्र त्वं भिन्नभावेन मोहितोऽसि न संशयः।
स्कन्दं स्नेहेन शम्भो त्वमधिकं मन्यसे सदा॥३९॥
न तथा ब्रह्मणि श्रद्धाऽधिका विश्वेश्वरेऽधुना।
तेन विघ्नसमायुक्तो जातोऽसि च भजस्व तम्॥४०॥
ब्रह्मणि स्नेहभावेन विषयान्निन्दयन् स्थितः।
तदा विषयतापास्ते स्वयं वश्या भवन्ति वै॥४१॥
विघ्नेश्वरमनादृत्य स्कन्दं विवाहसंयुतम्।
आदौ पश्यामि शक्त्या वै सन्धृतं मानसे त्वया॥४२॥
तदैव निष्फलं सर्वं कृतं विघ्नकरेण ते।
वियोगश्च समुत्पन्नस्तस्मात्तं शरणं व्रज॥४३॥
एवमुक्त्वा मुद्गलस्तं जगाम स्वेच्छया चरन्।
शिवः शक्त्या युतः स स्म मन्यते सत्यमेव तत्॥४४॥
त्यक्त्वा स्कन्दभवं स्नेहं विघ्नेशमभजत् सदा।
तत्रादौ सङ्कटी प्राप्ताऽऽश्विनी तां तौ प्रचक्रतुः॥४५॥
मायां भ्रान्तिकरीं सर्वां भिन्नभावप्रमोहतः।
त्यक्त्वा शिवश्च शक्तिश्च शान्तिस्थौ तौ बभूवतुः॥४६॥
कस्य पुत्रश्च का माता पिता को भ्रमदायकम्।
कृतं विघ्नेश्वरेणैव तमावां शरणं गतौ॥४७॥
ततो विघ्नेश्वरेणैव कृतं कौतुकमादरात्।
बुद्धिभेदः कृतस्तत्र स्कन्दस्य नृप तच् श‍ृणु॥४८॥
त्यक्तौ मयाऽतिमूढेन पार्वतीशङ्करावहो।
ज्येष्ठं गणपतिं नित्यं स्पर्धयामि महाप्रभुम्॥४९॥
शक्त्या शिवेन विघ्नेशस्तपसाऽऽराधितोऽभवत्।
सोऽयं पुत्रस्वरूपेण बभूव वरदानतः॥५०॥
स्वानन्दवासकारी स सिद्धिबुद्धिपतिः स्वयम्।
योगशान्तिस्वरूपोऽयं न जानामि सुमूर्खवत्॥५१॥
एवं विचार्य स्कन्दः स ययौ कैलासमादरात्।
आदौ प्रणम्य विघ्नेशं पूजयामास भक्तितः॥५२॥
अथर्वशिरसा तं स ततः स्तुत्वा सदाशिवम्।
उमां सम्पूज्य तुष्टाव प्रणनामाऽथ दण्डवत्॥५३॥
सम्मानितः स तैः स्कन्दोऽतिष्ठत्तद् भक्तिसंयुतः।
तदाज्ञावशगो भूत्वा शान्तियोगपरोऽभवत्॥५४॥
विवाहार्थं शिवेनाऽसौ प्रेरितस्तमुवाच ह।
स्त्रियं बन्धकरीं नाथ नेच्छामि गणपे रतः॥५५॥
अत्याग्रहयुतः स्कन्दोऽभजत्तं गणनायकम्।
मायासुखं परित्यज्य तन्निष्ठः स बभूव ह॥५६॥
एवं सङ्कटहारिण्या चतुर्थ्या महिमाऽद्भुतः।
कथितः शान्तिदः सर्वसम्मेलनकरोऽभवत्॥५७॥
अन्यच्छृणु महाभाग चरित्रं पापनाशनम्।
वङ्गदेशे द्विजः कश्चित् पापकर्मा बभूव ह॥५८॥
त्यक्त्वा ब्राह्मणमार्गं स मद्यपानरतोऽभवत्।
यवनीं स समादाय यवनोऽभून् महाबलः॥५९॥
वक्तुं न शक्यते तस्य कर्म पापमयं महत्।
कथने परदोषाणां दोषी भवति मानवः॥६०॥
कदाचिज्ज्वरसंयुक्तो बभूवे जातिदूषणः।
तत्राश्विनभवा प्राप्ता नृप कृष्णा चतुर्थिका॥६१॥
तत्र तेन जलान्नं च भक्षितं न भयान्नृप।
सुपक्वानां तन्दुलानां पीतं चन्द्रोदये जलम्॥६२॥
ततो बहौ गते काले ममार यवनो द्विजः।
सङ्गृह्य ब्रह्मभूतं तं गाणेशाश्चक्रिरे नृप॥६३॥
एतादृशा महापापा व्रतपुण्यप्रभावतः।
ब्रह्मभूता बभूवुश्च का कथा विधिकारिणाम्॥६४॥
एवं नाना जना राजन् भुक्त्वा भोगान् यथेप्सितान्।
ब्रह्मण्यं ते गतास्तत्तु मया वक्तुं न शक्यते॥६५॥
इदमाश्विनजायास्तु माहात्म्यं यः श‍ृणोति वा।
पठेत् स कृष्णसङ्कष्ट्याः सर्वार्थं लभते नरः॥६६॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आश्विनकृष्णचतुर्थीमाहात्म्यवर्णनं नाम अष्टाविंशोऽध्यायः॥४-२८॥