सप्तविंशोऽध्यायः—भाद्रपद-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

भाद्रकृष्णचतुर्थ्यास्त्वं माहात्म्यं वद भो मुने।
न तृप्यामि कथां श‍ृण्वन् सर्वसिद्धिप्रदायिनीम्॥१॥

वसिष्ठ उवाच

द्राविडे राजशार्दूलो बभूव परमद्युतिः।
वीरसेनो यशोयुक्तः सार्वभौमो महाबलः॥२॥
नीतिज्ञो नीतियुक्तश्च चक्रे सौराज्यमुत्तमम्।
सर्वान् राज्ञो वशे कृत्वा करभारेण संयुतान्॥३॥
धर्मशीलः सदानन्दं चाददाद् भक्तिसंयुतः।
क्षुधितं न नरं नारीमसहत् सुखकारकः॥४॥
पुत्रानिव प्रजाः सर्वाः पालयामास यत्नतः।
अपुत्रो दैवयोगेन बभूव परवीरहा॥५॥
पुत्रार्थं यत्नमत्यन्तं जपहोमादिभिः सदा।
चकार तीर्थक्षेत्रादि विधाने तादृशोऽभवत्॥६॥
एवं बहौ गते काले पुत्रो नासीन् महीपते।
ततोऽतिदुःखितो राजा राज्यं त्यक्त्वा ययौ वनम्॥७॥
सस्त्रीकः स वने राजा बभ्राम यत्र तत्र ह।
ततो महावनं गत्वा पपात क्षुधयान्वितः॥८॥
सुमन्तुस्तत्र विप्रर्षिः समिदर्थं समाययौ।
नृपं दृष्ट्वा दयायुक्त आययौ तं निरीक्षितुम्॥९॥
वेदवेदाङ्गवित् साक्षात् सर्वशास्त्रप्रवर्तकः।
पुराणज्ञो महायोगी व्यासशिष्यः प्रतापवान्॥१०॥
तं दृष्ट्वा सहसोत्थाय प्रणनाम महामुनिम्।
वीरसेनः प्रहर्षेण सस्त्रीकः संयुतो नृपः॥११॥
करसम्पुटमुत्थाय पुरः कृत्वा महामुनेः।
तं जगाद विशेषज्ञं राजा वचनमुत्तमम्॥१२॥

वीरसेन उवाच

धन्यं मे कर्म जन्मादि पिता माता कुलं यशः।
विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात्॥१३॥
राज्यं त्यक्त्वा वने संस्थः पुत्रार्थं पापवानहम्।
तत्र ते दर्शनं प्राप्तं पूर्वपुण्यफलोदयात्॥१४॥
नानायत्नेन विप्रेश पुत्रो मे नाऽभवत्किल।
त्वत्कृपोपायमेकं च पश्यामि सुखदायकम्॥१५॥

वसिष्ठ उवाच

एवं तस्य नृपस्याऽसौ श्रुत्वा वचनमुत्तमम्।
सन्तुष्टस्तं जगादेदं सुमन्तुर्मुनिसत्तमः॥१६॥

सुमन्तुरुवाच

मा चिन्तां कुरु राजेन्द्र पुत्रस्ते कुलतारकः।
भविष्यति न सन्देहः श‍ृणु मे वचनं हितम्॥१७॥
राज्ये नष्टं त्वदीये तच्चतुर्थीजं व्रतं महत्।
तेन त्वं पुत्रहीनोऽसि नृपाधम न बुध्यसे॥१८॥
सर्वादौ तद्व्रतं मुख्यं कर्तव्यं सर्वसिद्धिदम्।
चतुःपदार्थदं सर्वैर्नोचेत् सर्वं सुनिष्फलम्॥१९॥
त्वया कर्म कृतं नानापुण्यदं सर्वसम्मतम्।
चतुर्भिः पुरुषार्थैर्हीनं चतुर्थीविवर्जितम्॥२०॥
एवमुक्त्वा नृपायाऽथ माहात्म्यं व्रतजं महत्।
श्रावयामास तं सोऽपि श्रुत्वा पप्रच्छ भाविकः॥२१॥

वीरसेन उवाच

वद ब्रह्मन् गणेशस्य ज्ञानं यस्य चतुःप्रदम्।
व्रतं सर्वादिसम्मान्यं तं भजिष्यामि नित्यदा॥२२॥

सुमन्तुरुवाच

गणेशस्य स्वरूपं यद्वक्तुं शक्तो भवेत्तु कः।
उपाधिसंयुतं ज्ञानं श‍ृणु राजेन्द्र सर्वदम्॥२३॥
अहं तपःप्रभावेण पुरा जातो विशेषतः।
शापानुग्रहणे राजन् समर्थः सर्वमण्डले॥२४॥
ततोऽतितपसा युक्तोऽभवं तेन महामते।
अन्तर्ज्ञानं समुत्पन्नं स दृष्ट्वा विस्मितो ह्यहम्॥२५॥
ततो जडादिका नाना भूमिकाः साधयंस्ततः।
नानाब्रह्मविभेदेषु संस्थितो ब्रह्मधारकः॥२६॥
एवं क्रमेण राजेन्द्र आसं स्वानन्दगोऽभवम्।
तत्र शान्तिसुखे सक्तो ब्रह्मभूतस्वभावतः॥२७॥
तस्माद् भेदमयं द्वन्द्वं दृष्ट्वा शान्तो महामुनिम्।
व्यासं गत्वा प्रणम्यैवाऽऽपृच्छं तं स्वहितप्रदम्॥२८॥
ब्रह्मभूतस्वरूपां मे वद शान्तिं महामुने।
शिष्योऽहं ते महाभाग तारयस्व भवार्णवात्॥२९॥
इति पृष्टो महायोगी मामुवाच प्रहर्षितः।
तत्तेऽहं कथयिष्यामि गणेशज्ञानकारकम्॥३०॥

व्यास उवाच

श‍ृणु पुत्र प्रवक्ष्यामि ब्रह्मभूतस्वरूपकम्।
शान्तीनां शान्तिरूपं तं ज्ञातव्यं योगसेवया॥३१॥
स्वत उत्थानकं ब्रह्म उत्थानं परतस्तथा।
तयोरभेदभावे च ह्यसत् स्वानन्द उच्यते॥३२॥
तत्रामृतमयं यत्तत् सद्रूपं स्वस्वरूपकम्।
तयोरभेदभावे चानन्दः स्वानन्द उच्यते॥३३॥
त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं ब्रह्म कथ्यते।
चतुर्णामेव संयोगे स्वानन्दो ब्रह्म उच्यते॥३४॥
पञ्चभिर्गतिहीनं यन्मतं चायोगवाचकम्।
न तत्र कस्यचिद्योगस्ततः कुत्राऽपि पुत्रक॥३५॥
संयोगायोगयोर्योगे योगः शान्तिप्रदायकः।
स एव गणराजश्च ज्ञातव्यो विबुधैः सदा॥३६॥
गणाः समूहरूपाश्चान्तरबाह्यादियोगतः।
अन्नादिब्रह्मरूपास्ते ज्ञातव्या योगसेवया॥३७॥
तेषां स्वामी गणेशानस्तं भजस्व विधानतः।
तदा त्वं ब्रह्मभूतश्च भविष्यसि न संशयः॥३८॥
चित्तं पञ्चविधं प्रोक्तं तदेव बुद्धिवाचकम्।
चित्तं मोहस्वरूपं यत् सिद्धिरूपं वदन्ति च॥३९॥
तयोः स्वामी गणाधीशो मायाभ्यां क्रीडति प्रभुः।
पञ्चचित्तनिरोधेन लभ्यते चित्तधारकः॥४०॥
अतश्चिन्तामणिः प्रोक्तो पश्य वेदेषु पुत्रक।
चित्तं त्यक्त्वा समोहं त्वं भव चिन्तामणिस्ततः॥४१॥
एवमुक्त्वा ददौ मह्यं मन्त्रमेकाक्षरं प्रभुः।
सविधिं तं प्रणम्यैवाऽऽगतोऽहं स्वाश्रमे पुनः॥४२॥
ध्यात्वा गणपतिं राजन् मन्त्रे जपपरोऽभवम्।
ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च॥४३॥
तथाऽपि गणराजं त्वपूजयन्तं विशेषतः।
ततो मे दर्शयामास स्वात्मानं विघ्नपः प्रभुः॥४४॥
समागतं गणेशानं दृष्ट्वा विस्मितमानसः।
अपूजयं प्रहर्षेण तं प्रणम्य पुनः पुनः॥४५॥
अथर्वोपनिषद्भिः स संस्तुतो गणनायकः।
भक्तिं दत्त्वा स्वकीयां मेऽन्तर्धानं प्रचकार ह॥४६॥
तदादि गाणपत्योऽहं प्रभजे नित्यमादरात्।
तं भजस्व महाराज ततः सर्वं शुभं भवेत्॥४७॥
एवमुक्त्वा ददौ तस्मै स मन्त्रं षोडशाक्षरम्।
सविधिं मुनिमुख्यः सोऽन्तर्धानमगमत्ततः॥४८॥
राजाऽतिविस्मितो भूत्वा सपत्नीकः प्रणम्य तम्।
स्वपुरे स समागत्याऽभजत्तं गणनायकम्॥४९॥
तत्राऽऽदौ भाद्रमासे सा कृष्णा प्राप्ता चतुर्थिका।
कृता तेन जनैः सर्वैः पुरवासिभिरादरात्॥५०॥
विशेषतस्ततस्तेन प्रशस्तं तद्व्रतं कृतम्।
शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे धरातले॥५१॥
व्रतपुण्यप्रभावेण राजा पुत्रसमन्वितः।
बभूवू रोगहीनास्ते भूमिपैवं जनास्तथा॥५२॥
पुत्रे राज्यं परित्यज्य राजा निर्वृत्तिसंयुतः।
सपत्नीको गणेशानमभजन्नित्यमादरात्॥५३॥
अन्ते गणेशलोके स गत्वा ब्रह्ममयोऽभवत्।
क्रमेण सर्वलोकाश्च ब्रह्मभूता बभूविरे॥५४॥
एतत्ते कथितं भूप माहात्म्यं सङ्कटीभवम्।
अन्यच्छृणु चतुर्थ्यास्त्वं पापघ्नं सर्वदं परम्॥५५॥
आन्ध्रे च धीवरः कश्चिद् बभूवे सर्वहिंसकः।
बाल्यात् प्रभृति सोऽत्यन्तं पापकर्मपरायणः॥५६॥
वृथा साक्ष्यपरो भूत्वा कलहं सोऽकरोन् मिथः।
लोकानां लोभशीलश्च चौर्यद्रव्यं समाहरत्॥५७॥
वने गत्वा महापापी मार्गस्थान् प्रजघान वै।
ब्राह्मणादीन् विशेषेण नानापापपरायणः॥५८॥
न तस्य कर्म वक्तुं वै शक्यते पापभीतितः।
ग्रन्थबाहुल्यतो भूप परस्त्रीलालसोऽभवत्॥५९॥
भाद्रकृष्णचतुर्थीजे वनमध्यस्थ एकदा।
व्रते प्राप्ते महापापी निराहारो बभूव ह॥६०॥
अकस्मात् तत्र सम्प्राप्तो जनसङ्घो महान्नृप।
भयात्तस्य प्रलीनोऽभूद्गुहायां धीवरः स तु॥६१॥
किञ्चिद्दिनावशेषे स जनसङ्घो गतोऽभवत्।
तदा बहिर्विनिःसृत्य गृहे गन्तुं मनो दधे॥६२॥
न प्राप्तं तेन दुष्टेन किञ्चित्तदपि दारुणः।
स्वात्मन्यास्थाय धैर्यं स मार्गसंस्थो बभूव ह॥६३॥
रात्रौ समागतो दुष्टः स्वगृहे राजसत्तम।
चन्द्रोदये सुतैः सार्धं भोजनं स चकार ह॥६४॥
पञ्चम्यां सर्पदंशेन मृतः पापेन निश्चयः।
गणराजस्य तदपि दूता नेतुं समागमन्॥६५॥
गृहीत्वा धीवरं तेऽयुर्गणाः स्वानन्दके पुरे।
गणेशानं स तं दृष्ट्वा ब्रह्मभूतो बभूव ह॥६६॥
व्रतेनाऽज्ञानजेनाऽयं विधिहीनेन भूमिप।
ब्रह्मभूतो धीवरश्च सम्बभूव वदामि किम्॥६७॥
एवं नाना जना राजन् ब्रह्मभूता बभूविरे।
चतुर्थ्या व्रतपुण्येन वक्तुं नैव प्रशक्यते॥६८॥
इदं भाद्रपदे कृष्णचतुर्थीजं श‍ृणोति यः।
माहात्म्यं वाऽपि पठति स ईप्सितमवाप्नुयात्॥६९॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः॥४-२७॥