षड्विंशोऽध्यायः—श्रावण-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
श्रावणे कृष्णपक्षे या चतुर्थी सङ्कटी भवेत्।
माहात्म्यं वद तस्या मे सर्वेभ्यः सुखदायकम्॥१॥
वसिष्ठ उवाच
इतिहासं प्रवक्ष्यामि श्रावणे सङ्कटीभवम्।
श्रवणात् सुखदः पूर्णो भवते पठनात्तथा॥२॥
चन्द्रवंशे समुत्पन्नो युधिष्ठिरः प्रतापवान्।
धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम्॥३॥
साक्षाद्धर्मावतारश्च सत्यवाक् करुणायुतः।
पाण्डुपुत्रो महातेजाः प्रजापालनतत्परः॥४॥
द्रौपद्या भ्रातृभिश्चैव सहितः सर्वसम्मतः।
कुन्त्या मात्रा महाभागो विख्यातः सर्वमण्डले॥५॥
कृष्णो यस्य सहायोऽभूत् सदा वृष्णिकुलोद्भवः।
साक्षान्नारायणः श्रीमान् भूभारहरणे रतः॥६॥
एकदा स्वगृहे राजा संस्थितो राजभिर्वृतः।
राजसूयं महायज्ञं कृत्वा कृष्णविवर्जितः॥७॥
धृतराष्ट्रेण तत्रैव प्रेषितो विदुरः स्वयम्।
आजगाम स तं दृष्ट्वा मानयामास कुन्तिजः॥८॥
भोजितं परमान्नेन विदुरं सदसि स्थितम्।
तमुवाच महाभागो हर्षितः स युधिष्ठिरः॥९॥
धन्यं मे जन्म कर्मादि त्वदङ्घ्रियुगदर्शनात्।
वयं पाल्याः सदा तात त्वया धर्मभृता प्रभो॥१०॥
कुशलं स्वजनानां ते किमर्थं त्वं समागतः।
वद मे सकलं पूर्णं वृत्तान्तं धृतराष्ट्रगम्॥११॥
विदुर उवाच
सर्वत्र कुशलं वत्स स्वजनेषु महामते।
धृतराष्ट्रस्य दुर्बुद्धेरादराद्वचनं शृणु॥१२॥
पुत्रवत्सलभावेन दुर्योधनसमाश्रितः।
तेनाऽहं प्रेषितो भूप त्वत्समीपे विचक्षणः॥१३॥
इच्छति त्वां विजेतुं स प्रभो द्यूतेन मन्दधीः।
दुर्योधनो महापापी कुलक्लेशविवर्धनः॥१४॥
कर्णेन प्रेरितोऽत्यन्तं शकुनिना विशेषतः।
सक्तस्ते राज्यहरणे दुःशासनसमन्वितः॥१५॥
धृतराष्ट्रस्तथा राजन् मन्यते मनसि ध्रुवम्।
स त्वामाह्वयते लोभी मया चैव युधिष्ठिर॥१६॥
मा गच्छ दुर्मतिं तात पुत्रपक्षसमाश्रितम्।
धृतराष्ट्रं च कुन्त्या त्वं सस्त्रीको भ्रातृभिः कदा॥१७॥
वसिष्ठ उवाच
विदुरस्य वचः श्रुत्वा युधिष्ठिरो महायशाः।
उवाच तं महाभागं निःश्वस्य वचनं हितम्॥१८॥
युधिष्ठिर उवाच
शृणु तात मदीयं त्वं वाक्यं धर्मयुतं महत्।
राज्ये सुसंस्थितो राजा धृतराष्ट्रो विशेषतः॥१९॥
तदाज्ञावशगाः सर्वे वयं भीष्मादयः किल।
अतो यामि त्वया सार्धं भावि यत् तद् भविष्यति॥२०॥
धर्मयुक्तं वचः श्रुत्वा विदुरः खिन्नमानसः।
न किञ्चिदुक्तवांस्तत्र तं निःश्वस्य महायशाः॥२१॥
विदुरेण युताः सर्वे सस्त्रीकाः पाण्डवा नृप।
समागताश्च द्रौपद्या धृतराष्ट्रं सभास्थितम्॥२२॥
तेनाज्ञप्ताश्च ते सर्वे भ्रातरः कलहे रताः।
चिक्रीडुर्द्यूतमुग्रं वै दुर्योधनमुखैः पुरा॥२३॥
शकुनिना महोग्रेण तपसा साधितं पुरा।
द्यूतं तदेव राजेन्द्र तदधीनं बभूव ह॥२४॥
क्रमेण राज्यमुग्रं तत् सर्वं जित्वा सुयोधनः।
वनवासे पाण्डवान् स स्थापयामास दुर्मतिः॥२५॥
द्रौपदी तेन दुष्टेन सभायां सर्वसन्निधौ।
समानीता स तां प्राह पत्नी मे भव सुन्दरि॥२६॥
पतयः पञ्च कुत्राऽपि न दृश्यन्ते स्त्रियाः क्वचित्।
अस्माकं कुलजं सर्वं यशो नष्टं त्वया खले॥२७॥
भ्राता तां हठसंयुक्तो नग्नां चक्रे महाखलः।
भीष्मादींश्च तिरस्कृत्य दुःशासनसमन्वितः॥२८॥
पाण्डवा धर्मरक्षार्थमसहंस्तस्य कर्म तत्।
द्रौपद्या संस्मृतः कृष्णो गुप्तरूपधरो ययौ॥२९॥
मायया वस्त्रसंयुक्तां द्रौपदीं स पुनः पुनः।
चकार च ततः सर्वे क्षुभिताः स्वगृहं ययुः॥३०॥
द्रौपदी पाण्डवैः सार्धं ययौ मुक्ता वने तदा।
तत्र कृष्णः समायातो बलेन क्रोधसंयुतः॥३१॥
उवाच राजशार्दूलं युधिष्ठिरं प्रतापवान्।
कृष्ण उवाच
हत्वा दुर्योधनं तात सपक्षं राज्यकामुकम्॥३२॥
त्वां राज्ये स्थापयिष्यामि मा गच्छ वनमेव च।
ततस्तं धर्मराजस्तु जगाद वचनं हितम्॥३३॥
क्रोधं त्यज महाबाहो धर्मं रक्ष जनार्दन।
धर्मयुक्तं च राज्यं मे देहि वृष्णिकुलोद्भव॥३४॥
एवमुक्तो महातेजाः कृष्णस्तं प्रत्युवाच ह।
कुरु त्वं भ्रातृभिः सार्धं गणेशोपासनं स्त्रिया॥३५॥
सत्यासत्यसमाना व्यक्तैश्चतुर्धा बभौ प्रभुः।
स्वानन्दवासकर्ताऽसावस्माकं कुलदैवतम्॥३६॥
एवमुक्त्वा ददौ तस्मै प्रभुर्मन्त्रं दशाक्षरम्।
स विधिं हर्षसंयुक्तः सर्वसिद्धिकरं परम्॥३७॥
माहात्म्यं व्रतजं तत्र श्रावयामास केशवः।
युधिष्ठिरस्य सर्वं वै पुण्यदं भ्रान्तिनाशनम्॥३८॥
चतुर्विधप्रदं पूर्णं सर्वादौ सम्मतं व्रतम्।
कृतं चेत् कर्म तत् सर्वं सफलं भवति प्रभो॥३९॥
तव राज्ये व्रतं मुख्यं नष्टं तेन महामते।
राज्यभ्रष्टश्च सञ्जातश्चतुःपदविवर्जितः॥४०॥
श्रुत्वा युधिष्ठिरो राजा विस्मितः सुमहायशाः।
गणेशं मनसि ध्यात्वा चकार विधिसंयुतः॥४१॥
तत्रादौ श्रावणे मासे प्राप्ता सङ्कटनाशिनी।
चतुर्थी कृष्णपक्षे तां साधयामास सानुजैः॥४२॥
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुश्च पाण्डवाः।
सस्त्रीकास्तेन ते सर्वे वनेषु सुखिनोऽभवन्॥४३॥
पुनः स्वराज्यकर्तारो बभूवुश्च सुयोधनम्।
हत्वा सर्वनृपैर्युक्तं कृष्णेन हर्षसंयुतः॥४४॥
पुनस्तेन पृथिव्यां तद्विख्यातं प्रकृतं व्रतम्।
शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे जनास्ततः॥४५॥
इह भुक्त्वाऽखिलान् भोगान् पौत्रं राज्येऽभिषिच्य ते।
पाण्डवा ज्ञानसंयुक्ता बभुः स्वांशेषु सङ्गताः॥४६॥
अन्ये जनाः क्रमेणैव गता गाणेश्वरं पदम्।
दृष्ट्वा गणेश्वरं तत्र ब्रह्मभूता बभूविरे॥४७॥
एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम।
अन्यच्छृणु महाभाग महापुण्यप्रदं परम्॥४८॥
कर्णाटे कारुकः कश्चिन् महापापपरोऽभवत्।
वनेषु शस्त्रधारी जनान् जघान स नित्यदा॥४९॥
परस्त्रियं तत्र दृष्ट्वैकाकिनीं स तथा दरात्।
अयभद्धठसंयुक्तो बलेन स महाखलः॥५०॥
गोवधादिकमेवं स ब्राह्मणानां च हिंसनम्।
चकार दुष्टभावेन द्रव्यार्थं मांसकारणात्॥५१॥
एवं नित्यं वने गत्वा पापं चक्रे स दुर्मतिः।
चोरो ग्रामे जनान् जघ्ने गृहीत्वाऽर्थं विशेषतः॥५२॥
कदाचित् स वने गत्वा गुहायां संस्थितोऽभवत्।
जनान् हन्तुं महाचोरस्ततो वृष्टिर्बभूव ह॥५३॥
अतिवृष्टिप्रभावेन जलैर्नद्यश्च पूरिताः।
यत्र तत्र जलं पूर्णं गन्तुं मार्गो न विद्यते॥५४॥
तत्र वृष्टिभयेनैव संस्थितः क्षुधितो नृप।
दैवयोगेन सा देवी चतुर्थी तिथिराबभौ॥५५॥
श्रावणे कृष्णपक्षे सा प्राप्ता तस्या व्रतं शुभम्।
कृतं तेन सुदुष्टेन ह्यन्नहीनप्रभावतः॥५६॥
चन्द्रोदये समुत्पन्ने जलेनागतमादरात्।
फलं च नारिकेलं यत्तद्बभञ्ज बभक्ष सः॥५७॥
निशाशेषे बहिः पापी निःसृतस्तत्र चाययौ।
व्याघ्रः सङ्गृह्य तं हत्वा बभक्ष क्षुधितो भृशम्॥५८॥
गाणपास्तं सम्प्रगृह्य ययुः स्वानन्दके पुरे।
चक्रुर्व्रतप्रभावेण तत्र ब्रह्ममयं ततः॥५९॥
महापापी व्रतेनैवाज्ञानजेन नृपात्मज।
ब्रह्मभूतो बभूवाऽथ वर्णये किं महाद्भुतम्॥६०॥
नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान्।
ययुः स्वानन्दके वर्णयितुं तत्र न शक्यते॥६१॥
इदं श्रावणकृष्णायाश्चतुर्थ्या वर्णनं पठेत्।
माहात्म्यं शृणुयाद्यो वै भुक्तिं मुक्तिं स विन्दति॥६२॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः॥४-२६॥