पञ्चविंशोऽध्यायः—आषाढ-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
आषाढे सङ्कटी प्रोक्ता चतुर्थी चरितं शुभम्।
तस्या वद महायोगिन् सर्वदं पापनाशनम्॥१॥
वसिष्ठ उवाच
अत्र ते कथयिष्यामि चेतिहासं पुरातनम्।
सर्वसिद्धिकरं पूर्णं सेवितं चेन्नृपात्मज॥२॥
वृत्रेण पीडितोऽत्यन्तं महेन्द्रश्चिन्तयान्वितः।
वने वसत्तु सन्त्रस्तस्त्यक्त्वा राज्यादिकं पुरा॥३॥
मुनयः श्रुतिभिर्हीना भ्रष्टाचाराः समन्ततः।
अतिष्ठंस्ते भयोद्विग्ना वर्णाः सर्वे तथा नृप॥४॥
कर्मखण्डनभावेन देवाः परमविह्वलाः।
उपोषणपरा भूत्वाऽतिष्ठंस्ते मरणोन्मुखाः॥५॥
गिरेर्गुहासु संस्थास्ते ददृशुर्मुनिपुङ्गवम्।
विशेषज्ञं गृत्समदं योगिनां गुरुमागतम्॥६॥
तं दृष्ट्वा दण्डवत् सर्वे प्रणेमुश्चेन्द्रमुख्यकाः।
पप्रच्छुः पूजयित्वा तं स्वासने संस्थितं मुनिम्॥७॥
इन्द्र उवाच
दृष्टिर्धन्या जन्म धन्यं पिता माता व्रतादिकम्।
यज्ञो ज्ञानादिकं मे वै त्वदङ्घ्रेर्दर्शनात् प्रभो॥८॥
तव दर्शनमात्रेण कल्याणं नो भविष्यति।
साक्षाद्योगीश्वरस्यैव सर्वसिद्धिप्रदस्य च॥९॥
वृत्रासुरेण दुष्टेन निर्जिता वयमेव च।
राज्यं त्यक्त्वा वने विप्र तिष्ठामः पशवो यथा॥१०॥
अत्रातिकर्मनाशेनोपोषणेन समन्विताः।
मरिष्यामो न सन्देहस्तत्र किं दर्शनं भवेत्॥११॥
तथाऽपि पुण्ययोगेन प्राप्तं ते दर्शनं परम्।
वद ब्रह्मन् दयां कृत्वा वृत्रनाशकरं महत्॥१२॥
जगत् सर्वं महायोगिन् भ्रष्टाचारं कृतं सदा।
किं पश्यसि सुसंहारे प्राप्ते योगीन्द्रसत्तम॥१३॥
वसिष्ठ उवाच
एवं पृष्टो गृत्समदस्तमुवाच दयान्वितः।
विश्वरक्षणभावार्थं दुष्टनाशकरं वचः॥१४॥
गृत्समद उवाच
राज्यं प्राप्य महाभाग सुर त्यक्ता चतुर्थिका।
व्रतभ्रष्टोऽसि देवेन्द्र अधुना तद्व्रतं कुरु॥१५॥
ज्ञानमदेन विघ्नेशमन्त्रस्त्यक्तस्तथा त्वया।
किं चित्रं राज्यहीनत्वे दुर्मते मदलालस॥१६॥
एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः।
कथयामास तस्मै तत् पुनर्मन्त्रं ददौ स्वयम्॥१७॥
यदृच्छया गते राजन् मुनाविन्द्रेण तत्ततः।
व्रतं कृतं द्विजैर्देवैर्गणेशं सम्प्रपूज्य च॥१८॥
तत्रादौ देवराजेनाषाढी कृष्णा महातिथिः।
प्राप्ता चतुर्थिका भूप सा कृता भूतिदायिका॥१९॥
गणेशं मनसा ध्यात्वा दधीचेरस्थिजं महत्।
वज्रं धृत्वा ययौ देवैर्वृत्रं युद्धपरायणः॥२०॥
चतुर्थीव्रतजेनाऽसौ प्रभावेण महासुरम्।
कृत्वा युद्धं महाघोरं वज्रेणैव जघान तम्॥२१॥
हत्वा वृत्रं महावीर्यं देवैः सह शतक्रतुः।
स्वस्थोऽभूदमरावत्या मुमुदे स्वजनैर्नृप॥२२॥
ततो देवगणाः सर्वे स्वस्वस्थानेषु नित्यशः।
शुक्लकृष्णभवं चक्रुश्चतुर्थीसंज्ञितं व्रतम्॥२३॥
पृथिव्यां सर्वलोकास्तद्व्रतं चक्रुविशेषतः।
इन्द्रेण बोधितं भक्त्या सर्वसिद्धिकरं महत्॥२४॥
मन्वन्तरे गते देवैरिन्द्रः स्वानन्दगोऽभवत्।
दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह॥२५॥
भूमिसंस्था नराः सर्वे क्रमेण प्रययुर्नृप।
गणेशं ब्रह्मभूतास्ते व्रतपुण्यप्रभावतः॥२६॥
एतत्ते कथितं स्वल्पं माहात्म्यं व्रतसम्भवम्।
पुनरन्यच्छृणुष्व त्वं पापकञ्चुकनाशनम्॥२७॥
गुर्जरे ब्राह्मणः कश्चिद् बाल्यात् पापपरायणः।
परयोनिषु संसक्तो जीवघातं चकार ह॥२८॥
एकदा भगिनी यब्धा तेन दुष्टेन चाभवत्।
मद्यमांसपरेणाऽपि चरता वनगह्वरे॥२९॥
द्रव्यलोभी जघानाऽसो द्विजादींश्च विशेषतः।
पशुपक्षिगणान् राजन् भ्रष्टाचारः सुदुर्मतिः॥३०॥
नित्यं चकार स खलो यवनैः सह भोजनम्।
न शक्यं तन्मया तस्य पापं वर्णयितुं परम्॥३१॥
एकदा वनमध्यस्थो बभूवे जातिदूषकः।
आषाढे कृष्णपक्षे स चतुर्थ्यां पापकारकः॥३२॥
दैवयोगेन तेनैव न प्राप्तं वनगह्वरे।
किञ्चित्तेनाऽतिदुःखार्तस्तदा बभ्राम पर्वते॥३३॥
तथाऽपि नालभत् किञ्चित् ततो दुःखपरायणः।
अपराह्णे पुनः सोऽपि स्वगृहं गन्तुमुत्सुकः॥३४॥
न ददर्श स तत्राऽपि जलान्नं दैवयोगतः।
आजगाम क्षुधार्तः स स्वगृहे शोकसंयुतः॥३५॥
यवनजां समालिङ्ग्य निशि चन्द्रोदये नृप।
बभक्षान्नं सुतैः सार्धं मोहितो मायया भृशम्॥३६॥
ततो ज्वरयुतोऽकस्माद्बभूवे पापनिश्चयः।
राजन् यवनजातेन न स्पृष्टा पापकारिणी॥३७॥
पञ्चम्यां स मृतस्तत्र भृशं दुःखेन पीडितः।
गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे॥३८॥
एतादृशा महापापा उद्धरन्ति व्रतेन वै।
अज्ञानकृतपुण्येन तत्र किं वर्णयाम्यहम्॥३९॥
विधियुक्तं व्रतं भूप ये कुर्वन्ति नरोत्तमाः।
दर्शनेन जनानां ते तारकाः सम्भवन्ति हि॥४०॥
एवं व्रतप्रभावेण ब्रह्मभूता बभूविरे।
अनन्ताश्चरितं तेषां वक्तुं नैव प्रशक्यते॥४१॥
इदमाषाढसङ्कष्ट्याश्चरितं यः शृणोति चेत्।
पठेद् वा लभते सोऽपि वाञ्छितं नात्र संशयः॥४२॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आषाढकृष्णचतुर्थीवर्णनं नाम पञ्चविंशोऽध्यायः॥४-२५॥