चतुर्विंशोऽध्यायः—ज्येष्ठ-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

माहात्म्यं तच्छ्रुतं मुख्यं मया वैशाखके परम्।
सङ्कष्टीसम्भवं मुख्यं न तृप्तस्तदपि प्रभो॥१॥
अतो ज्येष्ठे चतुर्थी या सङ्कष्टी मुनिसत्तम।
तस्याश्चरितमेवं मे वद पूर्णं समासतः॥२॥

वसिष्ठ उवाच

निषधेषु महाभागो नलो नामाऽभवन्नृपः।
तेजस्वी शस्त्रसम्पन्नः शास्त्रज्ञश्च बभूव ह॥३॥
रूपवान् धनसम्पन्नश्चतुरङ्गबलान्वितः।
शस्त्रास्त्रैर्भूमिपालांश्च बभौ जित्वा महाबलान्॥४॥
सामन्ता वशगा यस्य करदा इतरे नृपाः।
सार्वभौमो महाराजः शशास पृथिवीमिमाम्॥५॥
धर्मेण दानशीलेन नीत्या त्यागेन भूमिपः।
यशसा पूरयामास त्रैलोक्यं स चराचरम्॥६॥
इन्द्रलोके विधेर्लोके कैलासे वैष्णवे पदे।
यस्य वार्तां प्रचक्रुस्ते धर्मशीलस्य देवपाः॥७॥
त्रिलोकीगमने सक्तः साधुदर्शनतत्परः।
देवविप्रातिथिप्रेप्सुर्दीनान्धादीनपालयत्॥८॥
दमयन्ती महाभागा रूपेणाऽप्रतिमा भुवि।
भार्या यस्य विशालाक्षी जगन्मोहकरी बभौ॥९॥
गुणा वर्णयितुं नैव शक्यास्तस्य महात्मनः।
पुण्यश्लोकः स वै राजा कलिं जिग्ये महायशाः॥१०॥
कदाचिद्वनगेनैव भ्रात्रा कलिवशेन सः।
जितो द्यूतेन राज्यं त्यक्त्वा वनं स जगाम ह॥११॥
तत्राऽपि कलिना मत्स्यमिषेणैव महासती।
प्रेरितेन नलेनाऽसौ त्यक्ता नृप वनान्तरे॥१२॥
अर्धवस्त्रधरा साऽपि दमयन्ती पितुर्गृहे।
नानादुःखसमायुक्ता जगाम नलवर्जिता॥१३॥
गृप्तरूपेण वर्षाणि त्रीणि क्रमणलालसः।
नलो बभ्राम तेजस्वी वने वस्त्रार्धधारकः॥१४॥
धर्मशीलं स राजानं कलिना पीडितं परम्।
दृष्ट्वा मुनिवरस्तत्र नारदः प्रजगाम ह॥१५॥
तं दृष्ट्वा लज्जितो राजा प्रणनाम कृताञ्जलिः।
लज्जितं तं समाज्ञाय नारदः स उवाच ह॥१६॥

नारद उवाच

मा लज्जां कुरु राजेन्द्र कर्मणां गतिरीदृशी।
सावधानमना भूत्वा श‍ृणु मे परमं वचः॥१७॥
तव राज्ये महाभाग व्रतं नष्टं महाद्भुतम्।
चतुर्थीसंज्ञितं तेन राज्यभ्रष्टोऽसि साम्प्रतम्॥१८॥
सर्वादौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम्।
न कृतं चेन् महाराज कर्म सर्वं निरर्थकम्॥१९॥
चतुःफलविहीनस्त्वं भवस्यत्र न संशयः।
अतोऽवश्यकभावेन कुरु त्वं सर्वसिद्धिदम्॥२०॥
एवमुक्त्वा महायोगी नारदः श्रावयन्नृपम्।
माहात्म्यं व्रतमुख्यस्य चतुर्थ्याः शान्तिकारकम्॥२१॥
तच्छ्रुत्वा विस्मितो राजा नलस्तं प्रत्युवाच ह।
गणेश्वरस्य माहात्म्यं भजिष्यामि वदस्व मे॥२२॥

नारद उवाच

गणेश्वरस्य माहात्म्यं शान्तियोगफलप्रदम्।
वक्तुं न शक्यते राजंस्तथाऽपि श‍ृणु मे वचः॥२३॥
ब्रह्मा विष्णुश्च शम्भुश्च शक्तिः सूर्योऽमरास्तथा।
शेषादिनागमुख्यास्तं भजन्ति कुलदैवतम्॥२४॥
अन्नप्राणादिकान्येव ब्रह्माणि नृपसत्तम।
भजन्ति तं विशेषेण कुलदेवं सनातनम्॥२५॥
महावाक्यादिभिर्वेदास्तं भजन्ति सुयोगदम्।
महावाक्यानि राजेन्द्र भजन्ति ब्रह्मनायकम्॥२६॥
सर्वसिद्धिप्रदा यस्य वामाङ्गे प्रकृतिः परा।
पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता॥२७॥
स्वानन्दे वसतिर्यस्य सर्वपूज्योऽयमुच्यते।
सर्वादिर्गणनाथश्च विप्रैः सोऽन्तेषु तिष्ठति॥२८॥
गणाः समूहरूपाश्चान्तरबाह्यादियोगतः।
तेषां स्वामी गणेशोऽयं तं भजस्व विधानतः॥२९॥
एवमुक्त्वा ददौ तस्मै नृप मन्त्रं षडक्षरम्।
विधियुक्तं ततः सोऽन्तर्दधे गाणेशको मुनिः॥३०॥
ततः स नृपशार्दूलो ध्यात्वा हृदि गजाननम्।
मन्त्रं जजाप भावेन स्वात्मानं निन्दयन् भृशम्॥३१॥
ततः कर्कोटकेनैव दष्टस्तेन बभूव ह।
विरूपस्तं ददौ वस्त्रं नागः पुनः स्वरूपदम्॥३२॥
तेन संहर्षितो भूप ऋतुपर्णं जगाम ह।
तेनैव मानितोऽत्यन्तं विरूपो गुणसंयुतः॥३३॥
पितुर्गृहे गता नारी दमयन्ती महासती।
तद्व्रतं कारयामास गत्वा तामपि नारदः॥३४॥
नलेन दमयन्त्या तज्ज्येष्ठमासे समागतम्।
प्रथमं तद्व्रतं मुख्यं सङ्कष्टीसंज्ञकं कृतम्॥३५॥
त्रीणि वर्षाणि पूर्णानि गुप्तरूपेण संस्थितः।
नलश्चतुर्थीजेनैव पुण्येन ज्ञानवानभूत्॥३६॥
ततः श्वशुरमागम्य ऋतुपर्णेन संयुतः।
स्वात्मानं नागवस्त्रेण पूर्वरूपं चकार ह॥३७॥
दमयन्त्या युतः सोऽपि श्वशुरेण च सेनया।
ऋतुपर्णेन राजेन्द्रो गतः स्वनगरे ततः॥३८॥
भ्रात्रा सम्मानितोऽत्यन्तं चकार राज्यमुत्तमम्।
विघ्नहीनः स्वभावेन हृष्टपुष्टजनैर्वृतः॥३९॥
ततो बहौ गते काले पुत्रं राज्येऽभिषिच्य सः।
सपत्नीको वने गत्वाऽभजत्तं गणनायकम्॥४०॥
अन्ते जगाम राजाऽसौ स्वानन्दे गणपं नृप।
तत्रैव ब्रह्मभूतः स बभूव नलनामकः॥४१॥
नलेन सम्प्रदिष्टा ये जना भूमितले ततः।
शुक्लकृष्णचतुर्थीजं मुख्यं चक्रुर्व्रतं नृप॥४२॥
ते सर्वे सुखसंयुक्ता बुभुजुः सुखमुत्तमम्।
पुत्रपौत्रादिभिर्युक्ता रोगैः संवर्जिता नृप॥४३॥
अन्ते क्रमेण सर्वे ते ब्रह्मभूता बभूविरे।
एवं कृष्णे ज्येष्ठमासे माहात्म्यं सङ्कटीभवम्॥४४॥
कथितं ते नृपश्रेष्ठ पुनस्त्वं श‍ृणु सिद्धिदम्।
ज्येष्ठकृष्णचतुर्थीजं सर्वसङ्कटहारकम्॥४५॥
मालवेन्त्यजजः कश्चित् पापकर्मा बभूव ह।
वनं गत्वा द्विजादीन् स जघान द्रव्यलोलुपः॥४६॥
एकाकिनीं स्त्रियं दृष्ट्वा बलेन बुभुजे खलः।
सती परनरस्पर्शहीना तत्याज सा तनुम्॥४७॥
एवं नानाविधं पापं चकार जातिदूषणः।
न तच्छक्यं कथयितुं पापभोगभयान् मया॥४८॥
एकदा वनसंस्थश्च चाण्डालः शस्त्रधारकः।
कञ्चित् पुरुषकं दृष्ट्वाऽधावत् स हननाय तम्॥४९॥
पलायनपरः सोऽपि जगाम भयसङ्कुलः।
हाहा कृत्वा पुरोदेशे स ततो निष्फलोऽभवत्॥५०॥
एतस्मिन्नन्तरे तत्र पुरुषाः शस्त्रधारकाः।
राज्ञः समागतास्तत्र श्रुत्वा कोलाहलं तयोः॥५१॥
ते धृत्वा ताडयामासुः पुनस्तं राजसेवकाः।
बद्ध्वा राज्ञे ददुर्दुष्टं राजा चिक्षेप बन्धने॥५२॥
तत्रैव दैवयोगेन प्राप्ता ज्येष्ठचतुर्थिका।
कृता तेनान्नहीनोऽयं बभूवे बन्धनाकुलः॥५३॥
चन्द्रोदये दयायुक्तै रक्षकैस्तैर्महामते।
अन्नं दत्तं तथा भुक्तं तेन दुष्टेन तत्क्षणात्॥५४॥
राजाज्ञया च तं दुष्टं पञ्चम्यां जघ्नुरादरात्।
स मृतोन्त्यजजस्तत्र ब्रह्मभूतो बभूव ह॥५५॥
एवं नाना जना राजन् व्रतपुण्यप्रभावतः।
भुक्त्वा भोगांश्च ते सर्वे ब्रह्मभूता बभूविरे॥५६॥
अपारमाहात्म्ययुतं व्रतं वक्तुं न शक्यते।
तथाऽपि कथितं भूप माहात्म्यं सङ्कटीभवम्॥५७॥
इदं ज्येष्ठचतुर्थ्यास्तु कृष्णायाः संश‍ृणोति यः।
माहात्म्यं वा पठति स लभते स्वेप्सितं फलम्॥५८॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः॥४-२४॥