त्रयोविंशोऽध्यायः—वैशाख-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

वैशाखे कृष्णगायास्त्वं चतुर्थ्या वद साम्प्रतम्।
माहात्म्यं मुनिशार्दूल न तृप्यामि समासतः॥१॥

वसिष्ठ उवाच

अगस्त्यो मुनिमुख्यश्च समुद्रशोषणे रतः।
न शशाक महातेजा ब्रह्माणं शरणं ययौ॥२॥
ब्रह्मणा नोदितः सोऽपि चकार व्रतमुत्तमम्।
वैशाखे कृष्णपक्षे स चतुर्थ्यां विधिपूर्वकम्॥३॥
ज्ञात्वा माहात्म्यमुग्रं स नित्यं मन्त्रपरायणः।
शौक्लं कार्ष्णं व्रतं सर्वैश्चकार मुनिसत्तमैः॥४॥

दशरथ उवाच

तपस्तेजोयुतः साक्षादगस्त्यः सर्वशास्त्रवित्।
व्रतहीनः कथं सोऽपि कुण्ठितश्च महाद्युतिः॥५॥

वसिष्ठ उवाच

श‍ृणु राजन् महाभाग सम्यक् पृष्टं विचक्षण।
अधुना तस्य माहात्म्यं कथयामि समासतः॥६॥
अगस्त्यस्तपसा युक्तो बभूवाऽतीव दारुणः।
न समस्तेन राजेन्द्र ब्राह्मणेषु तपस्विषु॥७॥
न व्रतं तेन तदपि कृतमज्ञानभावतः।
ब्रवीमि कारणं तत्र श‍ृणु संशयनाशनम्॥८॥
वेदशास्त्रपुराणेषु कर्म नानाविधं नृप।
कथितं तच्च सर्वं तु कर्तुं केन प्रशक्यते॥९॥
स्वेच्छया कर्मणः कर्ता स्वयं भवति मानवः।
तत्र मार्गं प्रवक्ष्यामि श‍ृणुष्व सुसमाहितः॥१०॥
नित्यं नैमित्तिकं कर्म द्विविधं शास्त्रमार्गतः।
तत्रागस्त्यश्चकाराऽसौ नित्यं कर्म महीपते॥११॥
अन्यव्रतादिकं सर्वं त्यक्त्वा विधिसमन्वितः।
तपस्सु तत्परो नान्यदजानात् स तपोधनः॥१२॥
अतस्तेन व्रतं मुख्यं न धृतं राजसत्तम।
न समर्थेन शास्त्रेऽन्यच्छृणुष्व कथयामि ते॥१३॥
गणेशभजनं मुख्यं सर्वेषां नात्र संशयः।
सर्वसिद्धिकरं प्रोक्तं वेदादिषु विशेषतः॥१४॥
राजशार्दूल तदपि नराः संस्कारहीनकाः।
नाभजंस्तं गणेशानं ब्रह्मणां नायकं परम्॥१५॥
तपसा दग्धपापश्च पुण्यराशिः प्रजायते।
तदा रुचिर्भवेत् तत्र गणेशे भक्तिसंयुता॥१६॥
अतोऽयं तपसा युक्तोऽगस्त्यस्तेजस्विनां वरः।
जातः पात्रं विजानीहि ज्ञाने गाणेशसंज्ञिते॥१७॥
अगस्त्यः क्रोधसंयुक्तो नृप वातापिरक्षकम्।
समुद्रं तं शोषयितुं क्षोभयामास चोद्यतः॥१८॥
तत्राऽतिकुण्ठितो जातस्तदर्थं विस्मितः स्वयम्।
गत्वा ब्रह्माणमानम्य वचनं स जगाद ह॥१९॥

अगस्त्य उवाच

तपसा जलधिं ब्रह्मन् शोषयामि न संशयः।
तत्र मे तपसः शक्तिः कुण्ठिताऽभूत् कथं वद॥२०॥

ब्रह्मोवाच

श‍ृणु पुत्र महाभाग कारणं कथयामि ते।
नित्यकर्मपरस्त्वं वै सदा तपसि संस्थितः॥२१॥
गणेशस्मरणं वत्स पूजनं नित्यमादरात्।
करोषि तेन भवति कर्म ते सफलं मुने॥२२॥
तथाऽपि नित्यवत्तात चतुर्थी व्रतमुत्तमम्।
कर्तव्यं यत्त्वया त्यक्तं तन्नैमित्तिकमानतः॥२३॥
चतुर्णां पुरुषार्थानां दायकं शास्त्रसम्मतम्।
तेन हीनस्त्वमद्यैव कुण्ठितो नात्र संशयः॥२४॥
अधुना तद्व्रतं मुख्यं कुरु भावसमन्वितः।
नित्यवत्तन् महाभाग समाचर विशेषतः॥२५॥
तदा सङ्कटहीनस्त्वं चतुष्पदसमन्वितः।
पूर्णयोगी भवसि वै गाणपत्यमवाप्स्यसि॥२६॥
ततस्तेन कृतं राजन् व्रतं गाणेश्वरं महत्।
पुरुषार्थसमायुक्तस्तेनैव स बभूव ह॥२७॥
समुद्रं शोषयामास व्रतपुण्यप्रभावतः।
अचलां गणनाथस्य भक्तिं चकार नित्यदा॥२८॥
ततस्तेन मुनीन्द्रेषु विख्यातं तत् कृतं व्रतम्।
नित्यवत्ते व्रतं मुख्यं चक्रुः सर्वार्थसिद्धये॥२९॥
अन्यच्च श‍ृणु माहात्म्यं पुण्यदं श्रवणान्नृणाम्।
अवन्तीनगरे वैश्यो बभूवे पापकारकः॥३०॥
बाल्यात् प्रारभ्य तेनैव कृतं पापं महाद्भुतम्।
मरणावधि राजेन्द्र वक्तुं तन्न प्रशक्यते॥३१॥
मातृहा द्रव्यलोभार्थं पितृहा सम्बभूव ह।
गुरुद्रोहं चकारैव ब्रह्महत्यां समाचरत्॥३२॥
ततो लोकैः समाज्ञप्तो राजा तं निरवासयत्।
ग्रामाद्वनं समागत्य गुहायां संस्थितोऽभवत्॥३३॥
जघान मार्गगान् लोकान् जीवान्नानाविधान् सदा।
तत्र प्रयोजनेनैव हीनो वा युक्त एव वा॥३४॥
ततो बहुधनो जातश्चौराः सम्मिलिताः परे।
सह तैस्तत्र तेनैव कृतं दुर्गं सुदुर्गमम्॥३५॥
पर्वतद्रोणगं तत्र गृहं चक्रे महाखलः।
चौरास्तत्र निवासार्थमाययुः सर्वतः स्थिताः॥३६॥
तेषां राजा बभूवाऽसौ भार्या तत्र महीपते।
समानीताऽतिदुष्टेन पुत्रपुत्रीभिरावृता॥३७॥
यथेष्टं रमते तत्र चौरैश्चौर्यपरायणः।
चकार लेशमात्रं स न पुण्यं दुर्मतिः कदा॥३८॥
मार्गे परस्त्रियं धृत्वा स सतीदूषकोऽयभत्।
काश्चित् तत्र मृता राजन् स्त्रियः सत्यो महाभयात्॥३९॥
सोऽवन्तीपालको लोकै राजेन्द्रो बोधितस्ततः।
मार्गरोधभयाच्चौरं तं हन्तुं प्रोद्यतोऽभवत्॥४०॥
सर्वत्र दशदिक्ष्वेव सैनिकाः प्रेषितास्ततः।
राज्ञा चक्रुः प्रयत्नेन रुद्धं सर्वत्र तं खलम्॥४१॥
ततस्ते सन्धृतं चौरं पुत्रश्चौरैः समन्वितम्।
राज्ञे निवेदयामासुस्तं दुष्टं वैश्ययोनिजम्॥४२॥
राजा चौरान् जघानापि जनैः शस्त्रधरैर्नृप।
तं वैश्यं बन्धने क्षिप्त्वा ताडयन्नित्यदा खलम्॥४३॥
ततोऽकस्माच्चतुर्थी सा वैशाखी सहसाऽऽगता।
कृष्णा तत्र च वैश्येन न प्राप्तं त्वन्नभक्षणम्॥४४॥
नित्यताडनभावेन दुःखितोऽतितरां खलः।
क्षुधया पीडितोऽत्यन्तं पापी स निशि चैककः॥४५॥
ततो दयायुतैस्तत्र राजदूतैश्च भक्षणम्।
किञ्चिद्दत्तं विधोरेवोदये वैश्यो बभक्ष सः॥४६॥
पञ्चम्यां स मृतस्तत्र बन्धने ताडितो भृशम्।
गाणेशैर्ब्रह्मभूतः स कृतः स्वानन्दके पुरे॥४७॥
एतादृशः सुदुष्टात्मा व्रतपुण्यप्रभावतः।
ब्रह्मभूतो बभूवाऽपि किं पुनर्व्रतकारिणः॥४८॥
एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे।
तेऽत्र वक्तुं न शक्या वै भवन्ति नृपसत्तम॥४९॥
इदं वैशाखमासे वै चतुर्थ्याः संश‍ृणोति चेत्।
कृष्णाया वाऽपि पठति माहात्म्यं लभते परम्॥५०॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वैशाखकृष्णचतुर्थीचरितं नाम त्रयोविंशोऽध्यायः॥४-२३॥