द्वाविंशोऽध्यायः—चैत्र-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

चैत्रकृष्णचतुर्थी या तां मे वद महामुने।
न तृप्यामि गणेशस्य कथां श्रुत्वा सुखप्रदाम्॥१॥

वसिष्ठ उवाच

अत्र ते कथयिष्यामि चेतिहासं पुरातनम्।
चतुर्थीमहिमायुक्तं सर्वसिद्धिप्रदायकम्॥२॥
कलिङ्गे नृपवर्यश्चोग्रसेनो धर्मतत्परः।
यज्वा दानपरो नित्यं धर्मात्मा शंसितव्रतः॥३॥
शस्त्रास्त्रकुशलो धीमान् सत्यवाक् नीतिसंयुतः।
जित्वा राजगणान् सर्वांश्चकार राज्यमुत्तमम्॥४॥
तस्य राज्ये नृपश्रेष्ठ बभक्षुः सर्वमानवान्।
अपारास्तत्पुरे व्याघ्राः समागत्य महाबलाः॥५॥
उग्रसेनश्च शस्त्रैस्तान् जघान नृपसंयुतः।
तथा स्म न शमं यान्ति व्याघ्रा दैवोद्भवा यथा॥६॥
लोकाः सम्पीडिता व्याघ्रैर्निनिन्दुस्तं नृपं तदा।
पापकर्मा नृपोऽयं वै प्रजाभ्यो दुःखदायकः॥७॥
धर्मयुक्तो यदा राजा प्रजास्तत्र सुखे रताः।
किं कर्तव्यं प्रजाभिश्च दुष्टे राजनि नित्यदा॥८॥
स राजर्षिर्दूतमुखाच्छ्रुत्वा दुःखसमन्वितः।
ययौ वनं प्रधानेषु राज्यं त्यक्त्वा सुदारुणम्॥९॥
तत्र गत्वा स एकान्ते तताप तप उत्तमम्।
सूर्यं ध्यात्वा च सौरैस्तं तोषयामास नित्यदा॥१०॥
निराहारपरो राजा गते वर्षे बभूव ह।
अस्थिचर्मावशेषः स तथाऽपि तप आचरत्॥११॥
ततो ब्राह्मणरूपेण रविस्तं प्रजगाम ह।
राजा प्रणम्य तं विप्रं फलैरापूजयत्ततः॥१२॥
फलानि भक्षयित्वा स उवाच राजसत्तमम्।
तपः किमर्थं राजन् ते देहं शोषयसे वद॥१३॥
उग्रसेनस्ततो विप्रं तमुवाच कृताञ्जलिः।
दुःखेन महता युक्तो निःश्वस्य स पुनः पुनः॥१४॥

उग्रसेन उवाच

करोमि नीतियुक्तेन राज्यं धर्मेण नित्यदा।
तत्र व्याघ्रगणाः क्रूरा नरान् सम्भक्षयन्ति भोः॥१५॥
शान्तयेऽत्र मया तेषां नानोपायाः कृता मुने।
अपरास्ते भवन्तीह तदर्थं तप आचरम्॥१६॥
राज्ञो वचनमाकर्ण्य विप्रस्तं पुनरब्रवीत्।
निन्दयन् सर्वभावेन साक्षाद् भानुः प्रतापवान्॥१७॥

द्विज उवाच

महापापी त्वमेवासि कर्मदूषणतो नृप।
चतुर्थीजं व्रतं मुख्यं नष्टं राज्ये सुदुर्मते॥१८॥
सर्वादौ तत् प्रकर्तव्यं सर्वसिद्धिप्रदायकम्।
तदा कर्म कृतं भूप फलयुक्तं भवेत् सदा॥१९॥
चतुःपदार्थदं पूर्णं व्रतानामुत्तमं व्रतम्।
व्याघ्रास्तद्दोषभावेन पीडयन्ति च मानवान्॥२०॥
एवमुक्त्वा चतुर्थीजं माहात्म्यं द्विजसत्तमः।
श्रावयामास तस्मै स श्रुत्वा सोऽभूत् सुविस्मितः॥२१॥
जगाद हर्षसंयुक्तस्तं विप्रं ज्ञानदं परम्।
कृताञ्जलिः प्रणम्याऽसौ वचनं स्वहितप्रदम्॥२२॥

उग्रसेन उवाच

किं त्वं साक्षात् स्वयं भानुस्तपसा तुष्टचेतसा।
आगतोऽनुग्रहार्थं मे धन्योऽहं ते प्रदर्शनात्॥२३॥
अधुना वद मे ब्रह्मन् गणेशस्य स्वरूपकम्।
ज्ञात्वा तं देवदेवशं भजिष्यामि विशेषतः॥२४॥

द्विज उवाच

श‍ृणु राजन् गणेशस्य स्वरूपं योगदं परम्।
भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै॥२५॥
चित्ते चिन्तामणिः साक्षात् पञ्चचित्तप्रचालकः।
पञ्चवृत्तिनिरोधेन प्राप्यते योगसेवया॥२६॥
असम्प्रज्ञातसंस्थश्च गजशब्दो महामते।
तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत्॥२७॥
भ्रान्तिरूपा महामाया सिद्धिर्वामाङ्गसंश्रिता।
भ्रान्तिधारकरूपा च बुद्धिः सा दक्षिणाङ्गके॥२८॥
तयोः स्वामी गणेशश्च मायाभ्यां खेलते सदा।
तं भजस्व विधानेन तदा शं लभसे नृप॥२९॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरम्।
विधियुक्तं ततः सूर्योऽन्तर्धानं प्रचकार ह॥३०॥
राजा स्वनगरे गत्वा प्रधानैरनुमोदितः।
कथयामास वृत्तान्तं सर्वेभ्यः सुखदायकम्॥३१॥
तत्रादौ चैत्रगा कृष्णा चतुर्थी सहसाऽऽगता।
तां चकार विधानेन गणेशे भक्तिसंयुतः॥३२॥
समीपे नागराः संस्था नरा ग्रामान्तरे स्थिताः।
चक्रुस्ते हर्षसंयुक्ताः सङ्कष्टीं कष्टहारिणीम्॥३३॥
तत् सर्वत्र व्रतं मुख्यं प्रशस्तं स चकार ह।
भयाद्धठेन चक्रुस्ते जना भूमिस्थिताः परे॥३४॥
ततो व्याघ्रा महोग्राः स्म सर्वेऽन्तर्धानमाययुः।
रोगादिभिर्विनिर्मुक्ताश्चिक्रीडुर्हर्षिता जनाः॥३५॥
राजा गणपतिं नित्यमभजन्नान्यचेतसा।
गुरुरूपेण भानुं स पूजयामास नित्यदा॥३६॥
गते काले ततः पुत्रं स संस्थाप्य महामतिः।
राज्ये निवृत्तिमास्थाय गणेशमभजत् परम्॥३७॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह।
तस्य राज्ये जनाः सर्वे क्रमात्ते मुक्तिमाप्नुवन्॥३८॥
एवं व्रतस्य माहात्म्यं लेशतः कथितं मया।
अन्यच्छृणु महाभाग पापनाशकरं परम्॥३९॥
द्राविडे भिल्लजातिस्थः क्षत्रियः पापकारकः।
भिल्लैः संस्कारहीनश्च सम्बन्धं स चकार ह॥४०॥
एकदा वनसंस्थश्च द्रव्यलोभी दुरात्मवान्।
कञ्चित् दृष्ट्वा नरं तत्राऽधावच्छस्त्रप्रधारकः॥४१॥
पपाल सोऽपि दूरं वै नरो भयसमन्वितः।
ऋक्षस्तत्र समायातो वने कश्चिन् महाबलः॥४२॥
तेनैव क्षत्रियः पापी धृतो वेगेन भूमिप।
ऋक्षं स तं स शस्त्रेण पातयामास भूतले॥४३॥
भिल्लस्तत्र पपाताऽसौ भृशमृक्षेण पीडितः।
निर्जने वनमध्ये स विललापाऽतिदारुणम्॥४४॥
दैवयोगेन सा देवी चैत्री सङ्कष्टहारिणी।
तद्दिने तेन सम्प्राप्ता चतुर्थी कृष्णपक्षगा॥४५॥
जलान्नसंविहीनोऽयं बभूवे पापकारकः।
चन्द्रोदये फलं तत्र पपात नृप वृक्षतः॥४६॥
दुष्टेन क्षत्रियेणैव भक्षितं विकलेन तत्।
पञ्चम्यां स मृतस्तत्र ब्रह्मभूतो बभूव ह॥४७॥
एवं नाना जना राजन् व्रतस्यैव प्रभावतः।
इह भुक्त्वाऽखिलान् भोगानन्ते ब्रह्म प्रलेभिरे॥४८॥
तत्र ते कति शक्यं न वक्तुं वर्षायुतैरपि।
नानेन सदृशं किञ्चिद्व्रतं सर्वार्थदायकम्॥४९॥
अज्ञानेन कृतं दुष्टैर्व्रतं गाणेश्वरं महत्।
ब्रह्मभूतकरं प्रोक्तं ज्ञानिनां तत्र का कथा॥५०॥
इदं चैत्रचतुर्थ्या यो माहात्म्यं प्रपठेन्नरः।
श‍ृणोति चेच्च कृष्णायाः स सर्वं प्रलभेद् ध्रुवम्॥५१॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः॥४-२२॥