नामैकविंशतितमोऽध्यायः—फाल्गुन-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
ब्रह्मन् श्रुत्वा च वै माघी सङ्कष्टीजं सुविस्मितः।
माहात्म्यं सर्वदं पुण्यं सर्वसङ्कटहारकम्॥१॥
फाल्गुने कृष्णपक्षे या चतुर्थी सङ्कटी मता।
तस्याश्चरित्रमेवं मे कथयस्व कृपानिधे॥२॥
वसिष्ठ उवाच
पौलस्त्यो रावणः प्रोक्तस्तपस्तप्त्वा सुदारुणम्।
वरं लब्ध्वा त्रिलोकस्य राज्यं चक्रे महाबलः॥३॥
प्रधानेषु समाक्षिप्य राज्यं राक्षससत्तमः।
एकान्ते निर्जने गत्वा ध्यानसंस्थो बभूव ह॥४॥
वेदोपनिषदि प्रोक्तं ब्रह्म वेदान्तपारगम्।
ध्यायति स्म विचारज्ञो ज्ञानयोगपरायणः॥५॥
एवं बहौ गते काले न लेभे ज्ञानमुत्तमम्।
तदा खेदसमायुक्तः सोऽतिष्ठच्छङ्करं स्मरन्॥६॥
ततः शिवेन तत्रैव प्रेषितो नारदो मुनिः।
तं दृष्ट्वा नारदं रक्षः प्रणनाम कृताऽन्जलिः॥७॥
पप्रच्छ खेदसंयुक्तो नारदं योगिनां वरम्।
स्वामिन् ज्ञानप्रदं किञ्चिद्वदस्व करुणायुतः॥८॥
ज्ञानार्थं ध्याननिष्ठोऽहं नित्यं तिष्ठामि चादरात्।
न लेभे तन् महत् ज्ञानं किं करोमि महामुने॥९॥
नारद उवाच
शिवेन प्रेषितोऽहं वै त्वदर्थं राक्षसोत्तम।
शृणु ज्ञानप्रदं पूर्णं वाक्यं तत्कुरु सादरः॥१०॥
चतुर्विधं जगद्ब्रह्म सङ्कष्टं सम्मतं बुधैः।
तन्नाशार्थं व्रतं मुख्यं सङ्कष्टीसंज्ञकं कुरु॥११॥
एवमुक्त्वा चतुर्थ्याः स माहात्म्यं नारदोऽब्रवीत्।
तच्छ्रुत्वा रावणस्तं चाब्रवीद् धर्षसमन्वितः॥१२॥
रावण उवाच
कीदृशोऽयं गणाधीशस्तस्य ज्ञानं वद प्रभो।
यस्य व्रतं चतुर्णां च पदार्थानां प्रदायकम्॥१३॥
न कृतं चेच्चतुर्णां तन्नाशकं नाऽत्र संशयः।
सर्वादौ सम्मतं विप्र सर्वसिद्धिप्रदायकम्॥१४॥
एवं पृष्टो महायोगी नारदस्तमुवाच ह।
हर्षेण महता युक्तो रावणं लोकरावणम्॥१५॥
नारद उवाच
महज्ज्ञानं कथयितुं गणेशस्य न शक्यते।
उपाधिना वदिष्यामि राक्षसाधिप तच्छृणु॥१६॥
गणः समूहरूपश्च समूहा ब्रह्मवाचकाः।
बाह्यान्तरादियोगेऽयं समूहो जायते यतः॥१७॥
देहिदेहमयं ब्रह्म गकाराक्षरवाचकम्।
संयोगायोगरूपं यण्णकाराक्षरगं मतम्॥१८॥
तयोर्योगे गणेशश्च स्वामी सर्वत्र सम्मतः।
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि॥१९॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरम्।
रावणाय महायोगी विधियुक्तं तमब्रवीत्॥२०॥
यदि त्यजसि दैत्येन्द्र तदा भ्रंशमवाप्स्यसि।
अतो गणेशमन्त्रो न त्याज्यो रक्षः कदाचन॥२१॥
एवमुक्त्वा महातेजा नारदोऽन्तर्दधे स्वयम्।
रावणस्य तदा प्राप्ता सङ्कष्टी फाल्गुनी नृप॥२२॥
सा कृता तेन हर्षेण विधियुक्तेन कर्मणा।
व्रतपुण्यप्रभावेण स्फूर्तिः प्राप्ता च तत्क्षणात्॥२३॥
चकार स ततः शुक्लां कृष्णां वै राक्षसाधिपः।
जनान् विशेषेणाबोध्य सह तैर्गणपे रतः॥२४॥
ततो ज्ञानं समालब्धं रावणेन महात्मना।
ययौ स्वनगरे दैत्यै राज्यं चक्रे मदान्वितः॥२५॥
दुष्टसङ्गतियोगेन क्रमेण ज्ञानमुत्तमम्।
नष्टं तस्य सुदुष्टस्य स्त्रीमांसादिपरोऽभवत्॥२६॥
अहं गणेशरूपश्च नाऽन्यो जगति वर्तते।
न पापपुण्यभोक्तृत्वं कस्य पूजनमाचरे॥२७॥
ततो ज्ञानमदेनैव त्यक्तो मन्त्रः सुखप्रदः।
व्रतं त्यक्तमिदं पुण्यं पूजा त्यक्ता विशेषतः॥२८॥
नष्टं ज्ञानं स्थितिर्नष्टा राक्षसो राक्षसोऽभवत्।
धर्मलोपे रतोऽत्यन्तं चकार कर्मखण्डनम्॥२९॥
तेनैव दोषयुक्तोऽभूद्धतो रामेण तत्क्षणात्।
राक्षसैः स्वजनैः सार्धं तव पुत्रेण धीमता॥३०॥
दशरथ उवाच
अहं वन्ध्यश्च विप्रेश रावणश्च प्रवर्तते।
किमिदं भाषसे स्वामिन् कूटरूपं भ्रमप्रदम्॥३१॥
वसिष्ठ उवाच
कल्पे कल्पे स रामो वै तव पुत्रोऽभवत्प्रभुः।
जघान रावणं वीरो गाणपत्यबलान्वितः॥३२॥
अन्यच्छृणु चरित्रं त्वं फाल्गुने सङ्कटीभवम्।
सर्वपापहरं पूर्णं भुक्तिमुक्तिप्रदायकम्॥३३॥
महाराष्ट्रे द्विजः कश्चित् पापकर्मा बभूव ह।
ब्राह्मणत्वं परित्यज्य चाण्डाल्यां निरतोऽभवत्॥३४॥
चाण्डालैर्योनिसम्बन्धं पुत्रपुत्रीसमुद्भवम्।
चकार मन्दधीः सोऽपि मद्यमांसपरायणः॥३५॥
स कदाचिद्वने संस्थो जनान् हन्तुं समुद्यतः।
द्रव्यलोभी महापापी परस्त्रीलालसोऽभवत्॥३६॥
तत्र फाल्गुनमासे सा चतुर्थी कृष्णगाऽऽगता।
संस्थितः पर्वतद्रोण्यां बभूव ब्राह्मणोऽधमः॥३७॥
तत्र कश्चिन्नृपः सैन्यैश्चतुरङ्गैः समागतः।
तद्भयात् सोऽपि तत्रैव संस्थितोऽन्नजलैर्विना॥३८॥
महत् सैन्यं नृपस्यैव मार्गे गमनकारकम्।
किञ्चिद्दिवसशेषे तत् सम्पूर्णगतमाभवत्॥३९॥
ततः सोऽपि बहिर्वीक्ष्य निःसृतो भयवर्जितः।
जगाम स्वगृहं चन्द्रोदये दुष्टः क्षुधातुरः॥४०॥
बभक्षान्नं स्वपुत्रैः स रात्रौ सुप्तो निजालये।
तत्र सर्पेण दष्टश्च ममार नृप दुर्मतिः॥४१॥
ततो गणेशदूतैः स नीतः स्वानन्दके पुरे।
दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह॥४२॥
अज्ञानव्रतपुण्येन विधिहीनेन भो नृप।
मुक्तश्चतुर्भिरेवं स किं पुनर्ज्ञानिनां परम्॥४३॥
एतादृशा महाभागा विधियुक्ता विधिं विना।
व्रतपुण्यप्रभावेण ब्रह्मभूता बभूविरे॥४४॥
तत्रैवं कति ते ब्रूयां नालं वर्षायुतैरपि।
भवामि नृप माहात्म्यं सङ्क्षेपेण निरूपितम्॥४५॥
इदं फाल्गुनमासे या चतुर्थी कृष्णगा मता।
तस्याः शृणोति माहात्म्यं पठेद् वा सर्वमालभेत्॥४६॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः॥४-२१॥