विंशोऽध्यायः—माघ-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
संश्रुत्य वरदाया वै माहात्म्यं सर्वदं परम्।
अत्यन्तं कृतकृत्योऽहं जातो नास्त्यत्र संशयः॥१॥
नानेन सदृशं किञ्चिद्व्रतं सर्वार्थदं परम्।
धन्यास्ते पुरुषा विप्र चतुर्थीव्रतकारकाः॥२॥
अधुना सङ्कटायाश्च माहात्म्यं वद विस्तरात्।
न तृप्यामि सुधारूपां कथां श्रुत्वा समासतः॥३॥
मुद्गल उवाच
एवं पृष्टो महायोगी वसिष्ठस्तमुवाच ह।
तच्छृणुष्व प्रजानाथ श्रवणानन्ददायकम्॥४॥
वसिष्ठ उवाच
तव भावं विदित्वाऽहं सन्तुष्टो नृपसत्तम।
पुण्यवानसि येन त्वं गणेशे भक्तिमानसि॥५॥
न ह्यल्पपुण्ययोगेन गणेशस्य महात्मनः।
कथायां जायते प्रीतिर्धन्योऽस्यत्र न संशयः॥६॥
कथां शृणु महाभाग चतुर्थीसंश्रितां पराम्।
कृष्णपक्षे महापुण्यां सर्वसिद्धिप्रदायिनीम्॥७॥
अत्र ते कथयिष्यामि चेतिहासं पुरातनम्।
महापुण्यप्रदः पूर्णश्रवणात् पठनाद् भवेत्॥८॥
सहस्राख्ये पुरे राजन् शूरसेनो महीपतिः।
सभायां गानसंयुक्तो बभूवे भूपसेवितः॥९॥
तत्राऽकस्माद्विमानं वै पतितं ज्वलनप्रभम्।
तद् दृष्ट्वा परमाश्चर्यं ज्ञातुं दूतानचोदयत्॥१०॥
दूतैः संज्ञापितो राजा विमानं द्रष्टुमुत्सुकः।
स ययौ नगरप्रान्ते पुरवासिभिरावृतः॥११॥
तत्रेन्द्रं देवयुक्तं स दृष्ट्वा विस्मितमानसः।
प्रणनाम पदा गत्वा दण्डवत् पृथिवीतले॥१२॥
पुनरुत्थाय राजाऽसौ कृत्वा करपुटं शनैः।
हर्षयुक्त उवाचेदं वचनं भक्तिसंयुतः॥१३॥
शूरसेन उवाच
धन्यं जन्म वयो दानं पितरौ नगरादिकम्।
कृतकृत्योऽस्मि देवेन्द्र दर्शनात्ते सहानुगः॥१४॥
वद कुत्र विभो गन्तुं कुतो व्रजसि वा स्थलात्।
लालसस्ते विमानं च कथं निपतितं भुवि॥१५॥
न जाने केन पुण्येन सर्वेषां दर्शनं च ते।
जातं देवसमूहेन वदाज्ञां किं करोम्यहम्॥१६॥
विमानचलने यत्नं कुरु त्वं देवनायक।
केन पापेन ते यानं पतितं तद्वदस्व मे॥१७॥
एवं पृष्टो महातेजा महेन्द्रस्तमुवाच ह।
विनीतं भक्तिसंयुक्तं राजेन्द्र हर्षसंयुतः॥१८॥
इन्द्र उवाच
कैवर्तको महापापी नामा विघ्नेशमाभजत्।
मुद्गलेनोपदिष्टश्च नाममन्त्रपरायणः॥१९॥
सहस्रे तद् वरेणाऽसौ वर्षेषु ब्राह्मणोत्तमः।
भ्रूमध्यान्निःसृता शुण्डा भ्रूशुण्डी चाभवन् मुनिः॥२०॥
तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते।
दर्शनार्थं गतोऽहं तु सम्पूज्येह समागमम्॥२१॥
अत्रापि पापरूपस्य दृशा वैश्यस्य कुष्ठिनः।
विमानं पतितं भूमौ तव दूतस्य मानद॥२२॥
यदि सङ्कष्टिका राजंश्चतुर्थी कृष्णपक्षगा।
साधिता व्रतभावेन तस्याः पुण्यं प्रदीयताम्॥२३॥
तदा विमानमेवेदं चलेदत्र न संशयः।
नान्यथा पुरुषार्थश्च विमानचलनं भवेत्॥२४॥
एतस्मिन्नन्तरे तत्र विमानं च द्वितीयकम्।
समागतं गणेशस्य दूतयुक्तं महाद्भुतम्॥२५॥
तत्रैव नगरे भूप चाण्डाली पापकारिणी।
अन्धा कुष्ठयुताऽत्यन्तं कृमिभारसमाकुला॥२६॥
पूयशोणितदिग्धाङ्गा दुर्गन्धेन समावृता।
बभूव भिक्षया सा वै रता जठरपोषणे॥२७॥
पौषकृष्णतृतीयायां निशा किञ्चावशेषिता।
मद्यपानं तया तत्र कृतं सुष्वाप निर्भया॥२८॥
मद्यपानबलेनैव निद्रां लेभे तथाऽन्त्यजा।
चतुर्थ्यामुदिते चन्द्रे जाते जागरिताऽभवत्॥२९॥
ततोऽपि क्षुधयाऽऽविष्टा रात्री भिक्षार्थमेव च।
बभ्राम तत्र केनाऽपि दत्तान्नं बुभुजे च सा॥३०॥
पञ्चम्यां सा मृता तत्र नृप सङ्गृह्य गाणपाः।
विमानेन ययुस्ते वै स्वानन्दे व्रतकारिणीम्॥३१॥
गच्छन्ती वायुना स्पृष्टा विमानेऽन्त्यजजा नृप।
स वायुः सहसा गत्या स्पृशदिन्द्रविमानकम्॥३२॥
व्रतकारिशरीरस्य स्पृष्टो वायुः सुपुण्यवान्।
विमानं चालयामास देवेन्द्रस्य महाद्भुतम्॥३३॥
तद् दृष्ट्वा विस्मिताः सर्वे देवा मुनिगणादयः।
ज्ञानदृष्ट्या च तज्ज्ञात्वा शशंसू राजसत्तमम्॥३४॥
इन्द्रे स्वर्गं गते देवै राजा स्वनगरं ययौ।
विस्मितस्तं प्रणम्यैव वसिष्ठं मां समानयत्॥३५॥
मया विधियुतं तस्योपदिष्टं मुख्यकं व्रतम्।
चकार स यथान्यायमङ्गारकयुतं पुरा॥३६॥
माघे कृष्णचतुर्थ्यां स कृत्वा व्रतमनुत्तमम्।
पुनः सम्पूज्य पञ्चम्यां गणेशं संस्थितोऽभवत्॥३७॥
एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम्।
गणेशदूतसंयुक्तं शूरसेनपुरे महत्॥३८॥
विमानाद् गणनाथस्य दूता उत्तीर्य तं नृपम्।
जगुर्व्रतप्रभावेण चल राजन् गणेश्वरम्॥३९॥
दूतानां वचनं श्रुत्वा राजा विस्मितमानसः।
प्रणिपत्य प्रपूज्यैव तानुवाच सुहर्षितः॥४०॥
शूरसेन उवाच
आरभ्य जन्मतो देवा अद्यावधि मया हठात्।
यत्किचिन्नागरैः सार्धं सदा भुक्तं शुभाशुभम्॥४१॥
अधुना तान् परित्यज्य कथं यामि गजाननम्।
ततस्तं गणराजस्य दूता ऊचुः शृणुष्व तत्॥४२॥
गाणपत्या ऊचुः
नागरैः सह राजेन्द्र चल त्वं विघ्ननायकम्।
यथाविधि व्रतस्यैव प्रभावेण महामते॥४३॥
यथाशास्त्रं व्रतस्यास्य महिमा केन गम्यते।
अतो विश्वस्य चोद्धारे समर्थस्तु सुपुण्यतः॥४४॥
ततोऽतिहर्षितो राजा चतुर्वर्णजनैः सह।
नगरस्थैर्विमानं स समारुह्य स्थितोऽभवत्॥४५॥
ततो गाणेशकैस्तत्र विमानं चालितं नृप।
न चचाल जडीभूतं ध्यानयुक्ता बभूविरे॥४६॥
ज्ञात्वा तं कुष्ठिनं त्यक्तुं गाणेशाश्च समागताः।
तान् प्रणम्य जगादासौ राजेन्द्रो रोदनाकुलः॥४७॥
महापापी च वैश्योऽयं यस्य दृष्ट्या पपात ह।
विमानं सुरनाथस्य तथाऽपि शृणुत प्रियाः॥४८॥
किमनेन कृतं पापं मां ततो वदत ह्यहम्।
प्रायश्चित्तं करिष्याम्यनेन गच्छामि संयुतः॥४९॥
ततस्तं गणनाथस्य दूता ऊचुः प्रहर्षिताः।
शृणु राजन्नयं वैश्यः पूर्वजन्मनि वाडवः॥५०॥
बुधनामा महापापी बाल्यात् प्रारभ्य सर्वदा।
माता पतिव्रता चास्य शाकिनी परिकीर्तिता॥५१॥
दूर्वो नाम पिता चास्य तपस्वी वेदपारगः।
पत्नी पतिव्रता प्रोक्ता सावित्री कुलजाऽभवत्॥५२॥
यौवनस्थः स्त्रियं त्यक्त्वा परस्त्रीलालसोऽभवत्।
कदाचिद्गौडपुर्यां का वेश्या रूपवती ययौ॥५३॥
तां दृष्ट्वा विस्मितोऽत्यन्तं तया रेमे निरन्तरम्।
हृत्वा गृहस्थं द्रव्यं स ददौ तस्यै विशेषतः॥५४॥
पात्रभूषणकाद्यं वै हृत्वा परगृहस्थितम्।
चौर्यमद्यादिसंयुक्तस्तया रेमे सुदुर्मतिः॥५५॥
कदाचित् स निशायां वै नाऽऽगतः स्वगृहे नृप।
तदर्थं मुनिमुख्योऽसौ दूर्वो बभ्राम तत्पुरे॥५६॥
जनाः केऽपि न विप्रं त्वकथयस्तं विशेषतः।
पुत्रस्य दुर्विनीतस्य चरित्रं क्रोधभीतितः॥५७॥
गृहे गृहे स्वपुत्रं स नालभच्च ततो ययौ।
निशीथे स्वगृहे प्राप्ते पप्रच्छ वनितां द्विजः॥५८॥
सोवाच नागतः स्वामिन् पुत्रो मे स्वगृहे प्रभो।
एकपुत्रलेहवशात् पुनस्तं सो गवेषयत्॥५९॥
निशीथे निद्रिते लोके जनान् पप्रच्छ मार्गगान्।
बुधः कुत्र प्रदृष्टो मामेकं वदत पुत्रकम्॥६०॥
एवं नाना जनास्तेन पृष्टास्तेन जगुः सुतम्।
ततो भीमोऽत्यजो वृद्धो मिलितस्तं जगाद सः॥६१॥
तेनैव कथितं स्पष्टं पुत्रो वेश्यागृहे स्थितः।
मद्यपः किं पृच्छसि त्वं तपस्विन् जातिदूषणम्॥६२॥
तस्य तद्वचनं श्रुत्वा विस्मितो मुनिपुङ्गवः।
वेश्यागृहे स्वपुत्रं तं दृष्ट्वोवाच मदान्वितम्॥६३॥
किं त्वं मद्यप वेश्याया गृहे तिष्ठसि दूषक।
अधुना देहमुत्सृज्य व्रजस्व यममन्दिरे॥६४॥
पुन्नामनरकात् त्राता पुत्रस्तेन प्रकीर्तितः।
नरकप्रद एवं मे किमर्थं पुत्र आगतः॥६५॥
एवं पितुर्वचः श्रुत्वा बुधः क्रोधसमन्वितः।
लत्तया ताडयामास पितरं च पुनः पुनः॥६६॥
वृद्धः क्षुधातुरः सोऽपि मर्मस्थाने प्रहारतः।
ममार तं प्रगृह्याऽसौ बुधश्चिक्षेप वै बहिः॥६७॥
प्रभाते स्वगृहे पुत्रमागतं सा बुधं ततः।
जननी लेहसंयुक्ता पप्रच्छ क स्थितं त्वया॥६८॥
गवेषितुं च ते पुत्र पिता त्वां प्रजगाम ह।
तमानय महाभाग ततः स्नानं समाचर॥६९॥
मातुर्वचनमेवं स बुधः श्रुत्वा पुनः पुनः।
क्रोधयुक्तः स्वयष्ट्या तां ताडयामास मस्तके॥७०॥
मस्तकः स्फुटितस्तस्याः सा ममार तपस्विनी।
बहिः प्रक्षिप्य तां वेश्यागृहमागात् स हर्षितः॥७१॥
अदहंस्तौ जनाः सन्तो ब्राह्मणी ब्राह्मणं तथा।
पितृगौरवभावेन राजा तं न शशास ह॥७२॥
पुनर्गृहागतं सा तं सावित्री दुःखसंयुता।
उवाच किं कृतं स्वामिन् पितुर्मातुर्वधात्मकम्॥७३॥
वेश्यां त्वं मां परित्यज्य किमर्थं गच्छसि प्रभो।
सर्वावयवसम्पूर्णा सुन्दरी धर्मपालिनीम्॥७४॥
चतुरा करजेष्वेव नरदेहः सुदुर्लभः।
ज्ञानकर्मादिसंयुक्तस्तत्र ब्राह्मण्यकं कुतः॥७५॥
ब्राह्मणत्वं समासाद्य पापमिच्छति दुर्मतिः।
निधिं त्यक्त्वा स्वहस्तस्थं विष्ठाभक्षणलालसः॥७६॥
तथा कृतं त्वया नाथ तेनाऽहं दुःखिता भृशम्।
कां गतिं च त्वया सार्धं गमिष्यामि महामते॥७७॥
एवमाकर्ण्य दुष्टात्मा तां जघान स्वयष्टितः।
काष्ठैः सा मर्मभेदेन ममार स्वर्गगाऽभवत्॥७८॥
एवं स्वल्पे गते काले बुधोऽगात् स्वगुरोर्गृहे।
अयभद् गुरुपत्नीमेकाकिनी तां सुदुर्मतिः॥७९॥
दारुणानि च पापानि एवं नानाविधानि सः।
चकारान्ते गृहे याम्ये यातनां बुभुजे ततः॥८०॥
भुक्तभोगः स वैश्योऽयं जातः कुष्ठसमन्वितः।
पापाचरणमत्रापि कुरुते दारुणं महत्॥८१॥
द्रव्यलोभार्थमेवायं वने गत्वा द्विजादिकान्।
हन्ति नित्यं सतीनां च स वने दूषकोऽभवत्॥८२॥
शूरसेन अतस्त्यक्त्वैनं याहि त्वं गजाननम्।
अस्य स्पर्शेन राजेन्द्र सचैलं स्नानमापतेत्॥८३॥
दूतानां वचनं श्रुत्वा कम्पितो राजसत्तमः।
जगाद तान् प्रणम्यैव हा हा कृत्वा सुदारुणम्॥८४॥
शूरसेन उवाच
पापानां गणना नास्ति प्रायश्चित्तं न विद्यते।
अधुना तादृशं चात्र मया किं क्रियते गणाः॥८५॥
कृपया सर्वपापानां प्रायश्चित्तं महाद्भुतम्।
कथ्यतां तत् करिष्यामि देहपातावधिं किल॥८६॥
ततस्तं गाणपत्यास्तेऽब्रुवन् हर्षसमन्विताः।
गजानन इति प्राज्ञ श्रावयस्व जनाधमम्॥८७॥
चतुर्वेदसमुद्भूतं सारं ब्रह्ममुखोद्गतम्।
चतुर्मुखैश्च सङ्गीतं सुयोगेन गजाननम्॥८८॥
तेषां वचनमाकर्ण्य शूरसेनः प्रहर्षितः।
गजाननेति वैश्यस्याऽजपत् कर्णे स सादरः॥८९॥
श्रुत्वा पापविनिर्मुक्तो वैश्यः स्वर्णतनुर्यथा।
कुष्ठहीनः स शोभाभियुक्तो वै हर्षितोऽभवत्॥९०॥
ततः सर्वैः समायुक्तो नगरस्थैर्विशेषतः।
चतुराकरजै राजा ययौ विघ्नेशमादरात्॥९१॥
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूताश्च जन्तवः।
बभूवुः स यथा राजा गाणपत्यो बभूव ह॥९२॥
ब्रह्मभूतः स राजेन्द्रो व्रतपुण्यप्रभावतः।
जन्तुभिः सहितश्चातः कोऽर्हो वर्णयितुं व्रतम्॥९३॥
चतुर्विधं जगत् सर्व सङ्कष्टं सम्मतं नृप।
तत्त्यक्त्वा व्रतपुण्येन ब्रह्मभूतो भवेन्नरः॥९४॥
इदं माघचतुर्थ्यास्तु सङ्कष्ट्याः संशृणोति यः।
माहात्म्यं वाऽपि पठति सर्वार्थं लभते परम्॥९५॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः॥४-२०॥