एकोनविंशोऽध्यायः—मलमास-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
वद ब्रह्मन् मले मासे चतुर्थी या समागता।
वरदा चरितं तस्याः सर्वसिद्धिप्रदायकम्॥१॥
वसिष्ठ उवाच
अत्र ते कथयिष्यामि चेतिहासं पुरातनम्।
चतुर्थी महिमायुक्तं श्रवणात् सर्वदं परम्॥२॥
आन्ध्रे राजा सुषेणश्च चकार राज्यमुत्तमम्।
नगरे चम्पके भूप शस्त्रास्त्रे पारगो मतः॥३॥
नीत्या धर्मेण कीर्त्या च दानेन यश आर्जयत्।
देवविप्रातिथिप्रेप्सुर्यज्वा व्रतपरायणः॥४॥
जित्वा भूमण्डलं सर्वं राज्यं चकार धर्मतः।
राजानः करदाः सर्वे सेवां चक्रुर्महीपतेः॥५॥
तस्य राज्ये महा सर्पा बभक्षुस्तज्जनान् सदा।
यत्र तत्राऽचरन् क्षुब्धाः सर्पाः परमदारुणाः॥६॥
जनैः कुत्र महीपाल प्रगन्तुं नैव शक्यते।
तथैव दुःखितैः स्थातुं वनेषु च गृहेषु च॥७॥
राजा तथैव दुःखार्तो महाभयपरायणः।
नागानां शान्तये सर्वैः पञ्चमी साधिताऽभवत्॥८॥
तथा स्म न शमं यान्ति नागाः परमदारुणाः।
नानापुण्यानि तीर्थानि जनाश्चक्रुर्विशेषतः॥९॥
तथाऽधिकं ययुः क्रूरा नागाः सर्वत्र भूमिषु।
राजेन्द्रः खगुरुं तत्र जैमिनिं शरणं ययौ॥१०॥
तं प्रणम्य पुरस्तस्य संस्थितः स कृताञ्जलिः।
तं मुनिर्मानयामासाऽऽसनदानाद्विशेषतः॥११॥
पप्रच्छ विनयेनैव युक्तं किमर्थमागतः।
सुषेणः स तथोवाच निःश्वस्य मुनिपुङ्गवम्॥१२॥
सुषेण उवाच
स्वामिन् सर्पा अपाराश्च धर्षन्तश्च सदा जनान्।
न स्थातुं शक्यते तत्र भयसङ्कुलितैर्मुने॥१३॥
नानोपायाः कृतास्तत्र न शान्तिं लेभिरे ततः।
तदर्थं त्वां महाभाग प्रष्टुमत्र समागतः॥१४॥
वद सर्पगणानां च शान्तये किं करोम्यहम्।
विप्र नो चेत् त्वत्समीपे देहत्यागं करोमि वै॥१५॥
वसिष्ठ उवाच
एवं पृष्टो महातेजा जैमिनिस्तमुवाच ह।
स्वशिष्यं निन्दयन् राजंस्तच्छृणुष्व समाहितः॥१६॥
जैमिनिरुवाच
चतुर्थीजं महापापिन्नष्टं राज्ये तव व्रतम्।
तेन त्वं च मृतैः सर्वैर्नरके प्रपतिष्यसि॥१७॥
चतुर्णां पुरुषार्थानां दातृत्वाद् वरदा मता।
तथा सङ्कटनाशित्वात् सङ्कष्टी सा प्रकीर्तिता॥१८॥
यदि व्रतं च सर्वादौ न कृतं चेन्निरर्थकम्।
कर्महीनं चतुर्भिस्तन्नित्यं कार्या ततः प्रभो॥१९॥
एवमुक्त्वा चतुर्थ्याश्च माहात्म्यं मुनिसत्तमः।
कथयामास तच्छ्रुत्वा सुषेणस्तं तथाऽब्रवीत्॥२०॥
सुषेण उवाच
कीदृशोऽयं गणेशानो व्रतं यस्य महाद्भुतम्।
वद तस्य स्वरूपं मे भजिष्यामि महाप्रभुम्॥२१॥
जैमिनिरुवाच
न वक्तुं शक्यते राजन् केनाप्येतत् स्वरूपकम्।
उपाधिना युतं दुण्ढिं वदामि शृणु तत्त्वतः॥२२॥
अहं पुरा सुशान्त्यर्थं व्यासं च शरणं गतः।
मह्यं सङ्कथितं तेन साक्षान्नारायणेन च॥२३॥
तदेव त्वां वदिष्यामि स्वशिष्यं च नृपाधमम्।
यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम्॥२४॥
देहदेहिमयं सर्वं गकाराक्षरवाचकम्।
णकारवाचकं ब्रह्म संयोगायोगरूपकम्॥२५॥
तयोः स्वामी गणेशस्तु पश्य वेदे महामते।
चित्ते निवासकत्वाच्चिन्तामणिर्वै स कथ्यते॥२६॥
चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महीपते।
सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पतिः॥२७॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम्।
सुषेणाय यथान्यायं विधियुक्तं विशेषतः॥२८॥
ततस्तेनाभ्यनुज्ञातः स्वपुरं स जगाम ह।
तत्राऽऽदौ मलमासश्च सम्प्राप्तस्तेन भूमिप॥२९॥
मलमासे गणेशस्य वरदाख्यं समागतम्।
सोऽपि शुक्ले चतुर्थीजं व्रतं चक्रे सुभक्तितः॥३०॥
नागरैर्विविधैर्लोकैः समीपग्रामसंस्थितैः।
तत्कृतं विधिना राजन् सर्वसिद्धिप्रदायकम्॥३१॥
ततस्तेन सुषेणेन प्रशस्तं भूमिमण्डले।
कृतं ततो जनाः सर्वे चक्रुर्हर्षसमन्विताः॥३२॥
अभवन् व्रतपुण्येन सर्पा अन्तर्हिता बभुः।
लोका रोगादिभिः सर्वे वर्जिता हर्षसंयुताः॥३३॥
पुत्रपौत्रादिसंयुक्ता धनधान्यसमन्विताः।
नानासुखेषु संसक्ता अभवंस्तत्र ते ततः॥३४॥
राजा गणपतिं नित्यमभजन्नान्यचेतसा।
षडक्षरेण मन्त्रेण विधियुक्तेन पूजयन्॥३५॥
पुत्रे राज्यं विनिक्षिप्य सस्त्रीकः स वनं ययौ।
तत्र विघ्नेशमेवं सोऽपूजयञ्जपतत्परः॥३६॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह।
जनाः सर्वे व्रते संस्थाः शुक्लकृष्णभवे परे॥३७॥
स्वान्ते क्रमेण ते सर्वे ब्रह्मभूता बभूविरे।
व्रतस्यैव प्रभावेण न किञ्चिद् दुर्लभं भवेत्॥३८॥
अन्यच्छृणु महीपाल चरितं मलमासगम्।
पुण्यं शुक्लचतुर्थीजं श्रवणात् सर्वदं भवेत्॥३९॥
हस्तिनापुरवासी च क्षत्रियः कः सुदारुणः।
बाल्यात् प्रभृति वै सोऽपि पापाचारो बभूव ह॥४०॥
द्रव्यलोभार्थमेवं स्वजनकं स जघान ह।
परस्त्रीलालसः पूर्णश्चौरकर्मपरोऽभवत्॥४१॥
एवं नानाविधं पापं चक्रेऽसौ दुर्मतिः सदा।
वने स्थितः कदाचिद्वै जनान् जघ्ने महाखलः॥४२॥
एतस्मिन्नन्तरे तत्र सर्पेणैव महीपते।
दष्टः सोऽपि भयोद्विग्नो गृहे गन्तुं मनो दधे॥४३॥
ततो विषेण संव्याप्तो देहस्तेन पपात ह।
दैवयोगेन तत्राऽसौ जलान्नरहितोऽभवत्॥४४॥
शुक्लपक्षे मले मासे चतुर्थी सा तिथिस्तदा।
तेन प्राप्ता तत्र भूप अज्ञानेन व्रतं कृतम्॥४५॥
पञ्चम्यां स मृतस्तत्र वने घोरे महाखलः।
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह॥४६॥
नाना जना व्रतेनैव ब्रह्मभूता बभूविरे।
इह भुक्त्वाऽखिलान् भोगानन्ते वक्तुं न शक्यते॥४७॥
इदं चतुर्थीमाहात्म्यं मलमासे शृणोति चेत्।
शुक्लपक्षे लभेत् सोऽपि पठेद् वा सर्वमञ्जसा॥४८॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मलमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः॥४-१९॥