नामाष्टादशोऽध्यायः—श्रावण-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

श्रावणे वरदायाश्च माहात्म्यं वद विस्तरात्।
न तृप्यामि कथां श्रुत्वा ब्रह्मभूयप्रदां प्रभो॥१॥

वसिष्ठ उवाच

अङ्गदेशे पुरं श्रीमच्छततारं बभूव ह।
राजा राज्यं चकाराश्वसेनसंज्ञोऽपि तत्र हि॥२॥
धर्मेण नीतियुक्तेन नानादानपरायणः।
देवविप्रातिथिप्रेप्सुर्बभूवातिपराक्रमी॥३॥
नानाव्रतपरो राजा यज्वा तेजस्विनां वरः।
शस्त्रास्त्रैः पृथिवीं सर्वां जिग्ये बलसमन्वितः॥४॥
सार्वभौमः स विख्यातस्त्रिलोकीकीर्तिकारकः।
राज्ञः सर्वान् वशे चक्रे सेवकान् करदायिनः॥५॥
एवं राज्यं वशं कृत्वा भूतलं स चकार ह।
ततोऽकस्माज्ज्वरस्तस्य समुत्पन्नोऽतिदाहकः॥६॥
ज्वरेण पीडितोऽत्यन्तं निशि निद्रां न चाऽलभत्।
नानोपायांश्चकाराऽसौ ज्वरहीनो बभूव न॥७॥
एवं वर्षे गते पूर्णे सोऽस्थिचर्मावशेषितः।
अत्यन्तदुःखितो राजा विललाप भृशातुरः॥८॥
विषेण देहपातार्थमुद्यतोऽभून् महीपतिः।
जगाम सहसा तत्र देवलो योगिसत्तमः॥९॥
तं दृष्ट्वा प्रणनामाथ पूजयामास बान्धवैः।
भुक्त्वा तृप्तं जगादेदं वचनं साधुमार्गवित्॥१०॥

अश्वसेन उवाच

धन्यं मे जन्म कर्माऽपि पिता माता व्रतादिकम्।
अधुना सफलं दानं येन ते दर्शनं मुने॥११॥
ज्वरेण पीडितोऽत्यन्तं विषपाने महामुने।
तत्परोऽहं प्रपश्याम्यागतं त्वां योगिसत्तम॥१२॥
मृतोऽहं विषपानेनात्महत्यां न लभे कदा।
तव दर्शनमात्रेण मुक्तो यास्यामि धाम तत्॥१३॥
एवमुक्त्वा रुरोदाऽपि ततस्तं देवलो मुनिः।
उवाच भावगम्भीरः सर्वशास्त्रार्थतत्त्ववित्॥१४॥

देवल उवाच

राज्ये नष्टं त्वदीये यच्चतुर्थीसंज्ञितं व्रतम्।
तेन त्वं रोगयुक्तोऽसि मृतो गच्छसि नारके॥१५॥
चतुःपदार्थदं पूर्णं सर्वादौ सम्मतं परम्।
न कृतं चेत् फलैर्हीनं कर्म सर्वं भवेन्नृप॥१६॥
त्वया यच्च कृतं कर्म नानापुण्यात्मकं महत्।
चतुःपदार्थहीनं तच्चतुर्थीव्रतहीनकम्॥१७॥
एवमुक्त्वा महायोगी चतुर्थीव्रतसंश्रिताम्।
कथां संश्रावयामास राजा श्रुत्वा तमब्रवीत्॥१८॥

अश्वसेन उवाच

अहो व्रतस्य माहात्म्यं संश्रुतं परमाद्भुतम्।
अधुना वद माहात्म्यं गणेशस्य महामुने॥१९॥

देवल उवाच

गणेश्वरस्य माहात्म्यं मया वक्तुं न शक्यते।
उपाधिना युतं राजन् वदिष्यामि स्वरूपकम्॥२०॥
असितान् मे पितुर्वक्त्राच्छ्रुतं तत्ते वदाम्यहम्।
सर्वसिद्धिकरं पूर्णं ब्रह्मयोगप्रकाशकम्॥२१॥
पुराऽहं तपसा युक्तोऽभवंस्तत्र समागतः।
जैगीषव्यो महायोगी शैवः सहजगो बभौ॥२२॥
मया सुसत्कृतो योगी संस्थितः पूजितः स्तुतः।
ममाश्रमे न किञ्चिन् माऽवदत् सोऽपि महायशाः॥२३॥
तस्य चिह्नं समालोक्य मनसा धारयाम्यहम्।
अकर्मकारकश्च स्म देहरक्षणतत्परः॥२४॥
ध्यानादिशून्यभावेन तिष्ठति भ्रष्ट एव च।
शान्तियोगेन हीनः स्म तथा योगिस्वरूपधृक्॥२५॥
ततोऽहं तं गृहे त्यक्त्वा गतः सामुद्रके जले।
मदीयचित्तगं ज्ञात्वा स तत्रैव समाययौ॥२६॥
अहो केनैव मार्गेणाऽऽगतोऽयं योगिसत्तमः।
तापसेन मयाऽऽकाशे गच्छता नावलोकितः॥२७॥
त्यक्त्वा ततस्तं तत्राहमगमं स्वर्गमण्डलम्।
तत्रापि जैगीषव्यश्च मया दृष्टो महामते॥२८॥
एवं नानाविधैर्मार्गैः स्वर्गेषु गतवानहम्।
मया तेषु महायोगी दृष्टः सम्पूजितोऽमरैः॥२९॥
ततोऽकस्मान् महायोगी सोऽन्तर्धानं चकार ह।
तद् दृष्ट्वा सिद्धसङ्घांश्चापृच्छं तैः कथितं नृप॥३०॥
ब्रह्मलोके गतः सोऽपि तत्र तेन गतिर्भवेत्।
ततोऽहं खेदसंयुक्तः स्वाश्रमं पुनरागमम्॥३१॥
तत्रापि गृहमध्येऽसौ मया दृष्टो महायशाः।
सम्पूज्य प्रणतो भूत्वाऽवदं योगपरायणः॥३२॥
तारयस्व महायोगिन् संसारान् मां कुशिष्यकम्।
छलनायां समायुक्तं दयया त्वं दयानिधे॥३३॥

जैगीषव्य उवाच

हिंसात्मकं कुरुष्व त्वं कर्म मा यत्नधारकः।
ब्रह्माहमिति बोधेन शमी दमपरो भव॥३४॥
यदाज्ञावशगं सर्वं वर्तते तं भजस्व च।
तेन योगी त्वमेवेह भविष्यसि न संशयः॥३५॥
जैगीषव्यश्चैवमुक्त्वा तत्रैवान्तरधीयत।
अहं तत्र समासीनो हिंसां त्यक्त्वा तथाऽभवम्॥३६॥
ततः स्म पितरः सर्वे महत् कुर्वन्ति रोदनम्।
अहो कर्म परित्यज्य देवलो न उपेक्षते॥३७॥
अस्मान् कः पुष्यति प्राज्ञो निराधारा वयं कृताः।
देवलेन न सन्देहः क्षुधाविष्टास्तृषा युताः॥३८॥
तान् दृष्ट्वा दुःखितोऽहं वै कर्म कर्तुं समुद्यतः।
मया दृष्टा ओषधयो महत् कुर्वन्ति रोदनम्॥३९॥
अस्मानहोऽभयं दत्त्वा देवलः क्रौर्यमाश्रितः।
निर्लज्जः पुनरेवाऽसौ छेदयिष्यति दुर्मतिः॥४०॥
ततोऽहं नितरां खिन्नो ह्युभयत्रैव सङ्कटात्।
विचार्य स्वहिते सक्तः शमी दमपरोऽभवम्॥४१॥
सर्वाभयस्वभावेन कर्मणा योगसेवया।
क्रमेण सहजे योग्यऽहं ब्रह्मणि परोऽभवम्॥४२॥
तत्र स्वाधीनतां दृष्ट्वा शान्तिहीनोऽभवं पुनः।
अगमं पितरं तत्र योगीन्द्रैर्वन्दितं स्तुतम्॥४३॥
तत्राऽसितं प्रणम्यैवाऽपृच्छं ब्रह्म सनातनम्।
योगशान्तिप्रदं पूर्णं ततो मां सोऽब्रवीद् वचः॥४४॥

असित उवाच

संयोगाद्विद्धि पुत्र त्वं स्वसंवेद्यात्मकात् किल।
चतुर्विधं समुत्पन्नं तत्त्यजस्व समाधिदम्॥४५॥
अयोगेन च संयोगो दृश्यते योगिभिः कदा।
संयोगायोगयोर्योगो योगशान्तिप्रदो मतः॥४६॥
भजस्व गणराजं त्वं तदर्थं नित्यमादरात्।
सदा योगस्वरूपं तं शान्तिदं योगिनोऽब्रुवन्॥४७॥
संयोगेऽयं गकाराख्यो णकाराख्यस्त्वयोगके।
तयोर्योगे गणाधीशो ज्ञातव्यो विबुधैः सदा॥४८॥
एवमुक्त्वा ददौ मन्त्रं मह्यमेकाक्षरं परम्।
गाणपत्यः प्रसन्नात्मा पिता मे गणपं भजन्॥४९॥
ततस्तं प्रणिपत्यैव गतोऽहं स्वाश्रमे नृप।
गणेशं पूजयामि स्म ध्यात्वा जपपरोऽभवम्॥५०॥
ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च।
योगिवन्द्योऽभवं राजंस्तथाऽपि गणपं भजे॥५१॥
गते वर्षे समायातो गणेशो भक्तवत्सलः।
स्तुतः सम्पूजितस्तत्र मया हृष्टेन चेतसा॥५२॥
ततो मां गाणपत्यं स पितृतुल्यं महोदरः।
कृत्वा स्वानन्दके धाम्नि गतो ब्रह्मपतिः प्रभुः॥५३॥
उक्त्वा दशाक्षरं मन्त्रं ददावेवं नृपाय च।
अन्तर्धाय स्वमात्मानं देवलः स्वाश्रमेऽगमत्॥५४॥
ततः स राजशार्दूलो गणेशभजने रतः।
तत्राऽऽदौ श्रावणी प्राप्ता वरदा या चतुर्थिका॥५५॥
तां चकार जनैः सर्वैः पुरवासिभिरादरात्।
उपोषणसमायुक्तः पञ्चम्यां पारणे रतः॥५६॥
ततो दाहविनिर्मुक्तो ज्वरहीनो बभूव ह।
जनाः सर्वे च रोगाद्यैर्हीना जातास्तदद्भुतम्॥५७॥
ततस्तेन महीपृष्ठे विख्यातं तद्व्रतं कृतम्।
शुक्लकृष्णभवं चक्रुर्व्रतं सर्वे धरातले॥५८॥
आरोग्यादिसमायुक्ता हृष्टपुष्टा जनाः बभुः।
व्रतस्य पुण्ययोगेन पुत्रपौत्रधनान्विताः॥५९॥
पुत्रे राज्यं परित्यज्य राजा शान्तिपरायणः।
सस्त्रीक एकान्ते सोऽभूदभजद्गणनायकम्॥६०॥
अन्ते स्वानन्दगो राजा ब्रह्मभूतो बभूव ह।
क्रमेण सर्वे लोका वै ब्रह्मभूता बभूविरे॥६१॥
एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम्।
कथितं ते महाराज पुनः श‍ृणु कथानकम्॥६२॥
गुर्जरे पापकर्माकः क्षत्रियो दुर्बलोऽभवत्।
बाल्यात् प्रारभ्य दुष्टात्मा पापकर्मपरायणः॥६३॥
स्त्रीमांसमदिरासक्तो जनानां च पशोस्तथा।
वधे रतो गुरुं चैव मारयामास मन्दधीः॥६४॥
गुरोर्द्रव्यं गृहीत्वा स वनगश्च बभूव ह।
एवं नानाविधं पापं चकार नित्यमादरात्॥६५॥
एकदा ज्वरयुक्तः स बभूव क्षत्रियाधमः।
अत्यन्तं व्याकुलो जातो देहशुद्धिं न चास्मरत्॥६६॥
दैवयोगेन शुक्ला सा श्रावणे सुसमागता।
चतुर्थी तत्र तेनैवान्नं जलं भक्षितं न च॥६७॥
पञ्चम्यां तेन किञ्चिद्वै भक्षितं त्वन्नमादरात्।
रोगहीनो बभूवाऽपि पुनः पापं समाचरत्॥६८॥
कालेन निधनं प्राप्तं तं नेतुं च समागताः।
दुष्टं सङ्गृह्य गाणेशा ब्रह्मभूतं प्रचक्रिरे॥६९॥
अज्ञानव्रतजेनैव पुण्येन क्षत्रियो ययौ।
स्वानन्दं किं पुनर्ज्ञानिनां कथा का नृपात्मज॥७०॥
एवं नाना जनाद्याश्च चतुर्थीव्रतपुण्यतः।
ब्रह्मभूता मया वक्तुं न शक्यास्ते बभूविरे॥७१॥
इदं श्रावणगायाश्च वरदायाः पठेन्नरः।
माहात्म्यं श‍ृणुयाच्चेद्वा स सर्वं संल्लभेत् फलम्॥७२॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते श्रावणशुक्लचतुर्थीव्रतकथनं नामाष्टादशोऽध्यायः॥४-१८॥