सप्तदशोऽध्यायः—आषाढ-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
वद ब्रह्मंश्च शुक्लाया आषाढे चरितं महत्।
चतुर्थ्या नैव तृप्यामि कथां श्रुत्वा सुसिद्धिदाम्॥१॥
वसिष्ठ उवाच
मैथिले विषये राजन्नगरं गण्डकी महत्।
तत्र राज्यं भद्रसेनश्चकारामिततेजसा॥२॥
शस्त्रास्त्रनिपुणोऽत्यन्तं परराष्ट्रावमर्दनः।
जित्वा भूमण्डलं सर्वं समुद्रवलयाङ्कितम्॥३॥
राज्यं चकार धर्मेण नीत्या दण्डेन भूमिप।
यज्वा विनीतको मानी द्विजदेवातिथिप्रियः॥४॥
वशगाः सर्वराजानः सेवन्ते स्म नराधिपम्।
अपारसेनया युक्तं करदा इतरेऽभवन्॥५॥
तस्य राज्ये शुका राजन् शलभा मूषकास्तथा।
अपारा भक्षयन्ति स्म धान्यं वस्त्रादिकं बलात्॥६॥
तेषां नाशार्थमत्यन्तं भद्रसेनः प्रतापवान्।
अस्त्रैर्यत्नपरो भूत्वा मारयामास तान् बहून्॥७॥
अग्न्यस्त्रेण समन्तात्तान् दग्धानपि च तादृशान्।
ददर्श पुनरुत्पन्नांस्ततो राजाऽतिविस्मितः॥८॥
यत्र तत्र गृहान्तेषु चेरुस्ते शलभादयः।
अशक्तः स वने गत्वा बभूव ह सुदुःखितः॥९॥
उपोषणपरो राजा तताप तप उत्तमम्।
शिवं स्मृत्वा स तुष्टावापूज्य रौद्रेण भावतः॥१०॥
गते वर्षे महायोगी बकदाल्भ्यः समाययौ।
तं देशं दैवयोगेन ददर्शाऽसौ भ्रमन्नृपम्॥११॥
राजा तं पूजयामास सम्भोज्य नयसंयुतः।
पप्रच्छ योगिनं तत्र दुःखयुक्तेन चेतसा॥१२॥
भद्रसेन स्वाच
स्वामिन् राज्ये मदीये वै मूषकाः शलभाः शुकाः।
अत्यन्तं पीडयन्ति स्म जनान्मां भक्षणे रताः॥१३॥
तत्रोपायाः कृता विप्राऽभवन् सर्वे सुनिष्फलाः।
राज्यं त्यक्त्वा वनेऽहं च संस्थितो दुःखकारणात्॥१४॥
शङ्करं सम्भजंस्तत्र दर्शनं ते महामते।
प्राप्तस्तपः प्रभावेण तत्रोपायं वद प्रभो॥१५॥
वसिष्ठ उवाच
भद्रसेनवचः श्रुत्वा गाणपत्यो महायशाः।
जगाद बकदाल्भ्यः स तं भूपं हर्षयन्निव॥१६॥
बकदाल्भ्य उवाच
शिवेन प्रेषितोऽत्राऽहं त्वदर्थं राजसत्तम।
शृणु मे परमं वाक्यं दुःखनाशकरं महत्॥१७॥
राज्ये ते भद्रसेनाऽद्य व्रतं नष्टं बभूव ह।
चतुर्थी संज्ञकं तेन विघ्नयुक्तोऽसि साम्प्रतम्॥१८॥
प्रजाः सर्वा भयोद्विग्ना जाता दुष्टे नराधिपे।
राज्यकर्तरि रे पापिन् नरके गच्छसि ह्यतः॥१९॥
सर्वादौ तद्व्रतं सर्वैः कर्तव्यं नित्यवत्प्रभो।
चतुर्णां पुरुषार्थानां दायकं विघ्नहारकम्॥२०॥
न कृतं चेत्तदा सर्वं कृतं कर्म निरर्थकम्।
चतुःपदार्थहीनत्वाद्विचारय महामते॥२१॥
एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं बकदाल्भ्यकः।
कथयामास राज्ञे वै श्रुत्वा तं सोऽब्रवीद् वचः॥२२॥
भद्रसेन उवाच
कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम्।
ज्ञात्वा तं सर्वदेवेशं भजिष्यामि विशेषतः॥२३॥
बकदाल्भ्य उवाच
पुरावृत्तं मदीयं यच्चेष्टितं शृणु भूमिप।
तेन त्वं गणराजस्य ज्ञाने सुनिपुणो भवेः॥२४॥
पुराऽहं तपसा युक्तो वायुमात्राशनोऽभवम्।
चराचरं ततो मत्तेजसा व्याप्तं भयातुरम्॥२५॥
तथाऽपि तपसा राजन् युक्तोऽहं तत्र मेऽद्भुतम्।
बभूव विश्वरूपस्य दर्शनं सर्वगं परम्॥२६॥
तेनाऽहं ज्ञानभावेन संस्थितो योगकारणात्।
तपस्त्यक्त्वा विशेषेण जडोन्मत्तादिके रतः॥२७॥
शमी दमपरो भूत्वा योगं पूर्णसुखप्रदम्।
असाधयं सदाऽत्यन्तं मनोनिग्रहतत्परः॥२८॥
एवं क्रमेण भूपाल सहजे ब्रह्मणि ह्यहम्।
ब्रह्मभूतस्वभावेन संस्थितो हर्षवांस्तदा॥२९॥
ततो मयाऽतिमोहेन शून्यं स्वाधीनरूपकम्।
दृष्टं तेनाऽभवं भ्रान्तो ब्रह्मणि त्वीदृशं कथम्॥३०॥
ततोऽहं शरणं शम्भुं गत्वा तं स्तुतवान् स्तवैः।
प्रसन्नं शङ्करं दृष्ट्वाऽवदं योगं वद प्रभो॥३१॥
शिव उवाच
सत्यासत्यसमानानि सहजेन युतानि वै।
निजात्मबोधतो विद्धि स्वानन्दादुद्भवानि च॥३२॥
संयोगे स्वस्वरूपत्वं ज्ञातव्यं वेदवादतः।
अयोगे सर्वसंयोगो नश्यत्यत्र न संशयः॥३३॥
संयोगश्च तथा योगस्तयोर्योगो महामते।
योगशान्तिप्रदः प्रोक्तो योगिभिर्योगसेवया॥३४॥
योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकम्।
तं भजस्व विधानेन ब्रह्मभूतो भविष्यसि॥३५॥
संयोगश्च गकाराख्यो णकारो योगवाचकः।
तयोः स्वामी गणाधीशः पश्य वेदे विशेषतः॥३६॥
एवमुक्त्वा महादेवो ददौ मन्त्रं द्विजाय मे।
एकाक्षरं गणेशस्य विधियुक्तं सुयोगदम्॥३७॥
प्रणम्य शङ्करं भूप गतोऽहं वनमेव च।
अभजं गणराजं तं ध्यात्वा जपपरायणः॥३८॥
ततस्तत्कृपया शान्तिर्मया प्राप्ता विशेषतः।
तथाऽपि पूजने सक्तस्तं ध्यायामि स्म चेतसा॥३९॥
ततो मां दर्शयामास रूपं शुण्डाविराजितम्।
दृष्ट्वा तं प्रणमामि स्म स्तौमि हर्षसमन्वितः॥४०॥
भक्तिं दत्त्वा गणाधीशो ह्यन्तर्धानं चकार मे।
तदारभ्य महाभाग गाणपत्योऽहमादरात्॥४१॥
एवमुक्त्वा ददौ तस्मै मन्त्रं पञ्चाक्षरं मुनिः।
अन्तर्धानं गणेशस्य स चकार द्विजोत्तमः॥४२॥
बकदाल्भ्यं गतं दृष्ट्वा राजा हर्षसमन्वितः।
चकार स्वपुरे राज्यं पुनरागत्य धर्मतः॥४३॥
ततः स नागरैः सार्धं चकार व्रतमुत्तमम्।
आषाढे शुक्लपक्षे वै चतुर्थीजं सुभक्तितः॥४४॥
ततः सर्वत्र तेनैव प्रशस्तं तद्व्रतं कृतम्।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना नृप॥४५॥
शुकाश्च मूषकास्तत्र शलभा नाशमाययुः।
धनधान्ययुता लोकाः पुष्टिं लेभुः सुहर्षतः॥४६॥
नानादुःखं परित्यज्यानन्देनैव समावृताः।
अन्ते स्वानन्दगाः सर्वे ब्रह्मभूता बभूविरे॥४७॥
राज्येऽभिषिच्य पुत्रं स्वं सपत्नीको ययौ वनम्।
तत्र तं गणराजं सोऽभजतानन्यभावतः॥४८॥
अन्ते स्वानन्दगो भूत्वा सस्त्रीकोऽजसमुद्भव।
ब्रह्मभूतो व्रतस्यास्य प्रसादेन बभूव ह॥४९॥
अन्यच्छृणु चरित्रं तद्व्रतजं पुण्यवर्धनम्।
आषाढे वरदायाश्च भुक्तिमुक्तिफलप्रदम्॥५०॥
बङ्गदेशे समुत्पन्नो वाणिजः पापकारकः।
स्वधर्मं स परित्यज्य दृष्टकर्मरतोऽभवत्॥५१॥
द्यूतमद्यादिकं नित्यं हिंसयाऽसेवतान्वितः।
बलात् धृत्वाऽभुङ्क्त परस्त्रियं वशमनागताम्॥५२॥
तस्य कर्म दुराचारं ज्ञात्वा पित्रा तिरस्कृतः।
असकृत्तेन स क्षुब्धो विषं पित्रे ददौ खलः॥५३॥
विषबाधासमायुक्तः स ममार ददाह तम्।
ततो मातरमागम्य धनं जग्राह वै बलात्॥५४॥
लोकाः सर्वे ततो ज्ञात्वा चेष्टितं दुःखदं परम्।
तस्य दुष्टस्य ते तत्र व्यथिताः सम्बभूविरे॥५५॥
जनाः श्रेष्ठा नृपं गत्वाऽकथयंस्तद्विशेषतः।
चेष्टितं क्षुभितो राजा श्रुत्वा तं तत्र चानयत्॥५६॥
शूले नृप नरैः प्रोतो दुर्मतिः स नृपाज्ञया।
तद्दिने दैवयोगेनाषाढी शुक्ला बभूव ह॥५७॥
तत्राऽयं जलहीनश्च निराहारः स्थितोऽभवत्।
पञ्चम्यां पीडया युक्तो ममार नृप दुष्टधीः॥५८॥
अज्ञानव्रतपुण्येन स स्वानन्दगतोऽभवत्।
महापापी व्रतस्यैव प्रभावेण महीपते॥५९॥
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह।
एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे॥६०॥
तत्रैवं कति सङ्ख्यातुं शक्यते न कदाचन।
वर्षायुतैर्महाराजाऽखिलं केनाऽपि योगिना॥६१॥
यदि ज्ञानेन सा देवी चतुर्थी साधिता भवेत्।
वरदा तत्र किं चित्रं तस्मै ब्रह्मप्रदा भवेत्॥६२॥
इदमाषाढगायाश्च चतुर्थ्याश्चरितं पठेत्।
शृणुयाद् वरदायाश्चेत् स लभेदीप्सितं फलम्॥६३॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आषाढशुक्ल चतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः॥४-१७॥