षोडशोऽध्यायः—ज्येष्ठ-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
श्रुतं वैशाखमासे वै शुक्लायाः फलमुत्तमम्।
चतुर्थ्या अधुना योगिन् ज्येष्ठशुक्लां वद प्रभो॥१॥
वसिष्ठ उवाच
आन्ध्रे शेषपुरे राजन् राजाऽभूत् कर्दमाभिधः।
शस्त्रास्त्रनिपुणोऽत्यन्तं नानाधर्मपरायणः॥२॥
वशं भूमण्डलं यस्य समुद्रान्तं बभूव ह।
तेजसा धर्मनीत्या वै ह्यतुलो यशसाऽभवत्॥३॥
दैवयोगेन तस्याऽभूत् प्रमेहश्चाऽतिदारुणः।
अग्निवद् दाहको देहे पापेन प्रेरितः परः॥४॥
तेनातिपीडितो राजा मूत्रितुं न शशाक सः।
रुरोद कर्दमो भूत्वा सदा दाहयुतो भृशम्॥५॥
नानोपायाः कृतास्तेन शान्तो रोगो बभूव न।
ततो राज्यं परित्यज्य सस्त्रीकः स ययौ वनम्॥६॥
वनाद्वनान्तरं गत्वा महोग्रं भयवर्धनम्।
सिंहव्याघ्रादियुक्तं च मरणाय रुरोद ह॥७॥
तत्राऽऽजगाम विप्रेन्द्रो भरद्वाजो महायशाः।
तं दृष्ट्वा सहसोत्थाय सस्त्रीकः प्रणनाम सः॥८॥
स हि बध्वा करपुटं तत्पुरः संस्थितोऽभवत्।
ततोऽतिदाहसंयुक्तः पपात च रुरोद सः॥९॥
तादृशं नृपनाथं स दृष्ट्वा योगीन्द्रसत्तमः।
ध्यानेनालोक्य राजानमुवाच दयया युतम्॥१०॥
भरद्वाज उवाच
शृणु कर्दम राजेन्द्र वचनं मे हितावहम्।
येन दुःखविहीनस्त्वं भविष्यसि महामते॥११॥
चतुर्थीव्रतमत्यन्तं नष्टं राज्ये त्वदीयके।
तेन पापसमायुक्तस्त्वं जातोऽसि नृपाधमः॥१२॥
अतस्त्वं जनसंयुक्तो व्रतं कुरु महामते।
पुण्येन तेन राजेन्द्र दुःखहीनो भविष्यसि॥१३॥
भरद्वाजवचः श्रुत्वा तं पप्रच्छ प्रणम्य सः।
कर्दमो हर्षसंयुक्तो व्रतस्याऽऽचरणाय च॥१४॥
कर्दम उवाच
भगवन् सर्वतत्त्वज्ञ त्वयाऽहमनुकम्पितः।
व्रतस्य वद माहात्म्यमधुना तत् करोम्यहम्॥१५॥
भरद्वाज उवाच
सङ्कष्टं वरदं कृष्णे चतुर्थीजं च शुक्लके।
व्रतं सर्वार्थदं पूर्णं चतुर्णां साधकं मतम्॥१६॥
सर्वादौ तन्नरः कुर्यात्तदा सर्वं नराधिप।
चतुर्णां पुरुषार्थानां दातृकर्मफलं लभेत्॥१७॥
अतो हीनश्चतुर्भिस्त्वं स जनो नरके नृप।
पतिष्यसि न सन्देहस्तदर्थं यत्नमाचर॥१८॥
एवमुक्त्वा स माहात्म्यं चतुर्थीसम्भवं नृप।
कथयामास भूपाय श्रुत्वा राजा ननन्द ह॥१९॥
पुनः पप्रच्छ तं विप्रं भरद्वाजं स कर्दमः।
गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः॥२०॥
भरद्वाज उवाच
गणेशस्य स्वरूपं तु वक्तुं वेदादिका नृप।
न समर्थास्तथाऽपि त्वं शृणु सारं सुखप्रदम्॥२१॥
पुराऽहं तपसा युक्तोऽतपं च तप उत्तमम्।
सर्वं चराचरं राजन् मदधीनं बभूव ह॥२२॥
तथाऽपि तपसोग्रेणाऽसाधयं तु तपः पुनः।
ततोऽन्तर्ज्ञानभावे मे मतिर्जाता सुपुण्यतः॥२३॥
तपस्त्यक्त्वा ततोऽहं तु शमी दमपरोऽभवम्।
जडोन्मत्तादिजे मार्गे संस्थितो योगकारणात्॥२४॥
ततः क्रमेण भो राजन्नसत्स्वानन्दगोऽभवम्।
तत्र सम्पूर्णयोगेन शान्तिं प्राप्तो विशेषतः॥२५॥
तस्माद् भेदादिकं सर्वमुत्पन्नं तु विशेषतः।
तद् दृष्ट्वा क्षुभितोऽत्यन्तं शान्तिहीनो यथाऽभवम्॥२६॥
ततोऽकस्माद्रैवतो यो महायोगी समागतः।
आश्रमे मे च तं दृष्ट्वा प्रणतोऽहं सुपूजयन्॥२७॥
स्वासने सुखमासीनमब्रवं तं महामुनिम्।
अद्याऽहं कृतकृत्यश्च जातस्ते दर्शनेन वै॥२८॥
वद मे योगशान्तिं त्वं योगीन्द्राणां गुरुर्भवान्।
तिष्ठामि शान्तिगो भूत्वा ययाऽहं योगधारकः॥२९॥
रैवत उवाच
स्वानन्दः पञ्चधा प्रोक्तः सदसत्समनेतितः।
चतुर्णां चैव संयोगे स्वस्वरूपः प्रकीर्तितः॥३०॥
अयोगः स्वस्वरूपेण हीनः सर्वत्र सम्मतः।
तयोर्योगो भरद्वाज योगशान्तिप्रदायकः॥३१॥
स्वसंवेद्यो गकारश्च णकारो योग उच्यते।
तयोः स्वामी गणेशोऽयं ब्रह्मणस्पतिवाचकः॥३२॥
तं भजस्व महाभाग ततः शान्तिमवाप्स्यसि।
नान्यथा शतवर्षैस्त्वं भ्रमयुक्तो भविष्यसि॥३३॥
एतद्विष्णुमुखाद्ब्रह्मन् श्रुत्वा ज्ञानं महत् पुरा।
तेनाऽहं शान्तिमापन्नो गाणपत्यश्चरामि वै॥३४॥
एवमुक्त्वा ददौ तस्मै स्वमन्त्रं सिद्धिदायकम्।
एकाक्षरं गणेशस्य सविधिं न्याससंयुतम्॥३५॥
पूजितो रैवतस्तेन जगाम स्वेच्छया चरन्।
भरद्वाजो गणेशानमभजन्नान्यचेतसा॥३६॥
ततः शान्तिं समापन्नो तथाऽपि भजने रतः।
गतेषु दशवर्षेषु विघ्नेशस्तं समाययौ॥३७॥
तं दृष्ट्वा पूजयामास भरद्वाजः प्रतापवान्।
स साम्नामष्टनामार्थस्तोत्रेण प्रणनाम ह॥३८॥
ततो मां गाणपत्यं स कृत्वा स्वानन्दगोऽभवत्।
गणेशस्तं विशेषेणाऽहं भजामि सुभक्तितः॥३९॥
एवमुक्त्वा ददौ तस्मै कर्दमाय महामनुम्।
अष्टाक्षरं गणेशस्य विधियुक्तं विधानवित्॥४०॥
ततश्चान्तर्हितो राजन् भरद्वाजो महामुनिः।
कर्दमः स्वगृहे गत्वा हर्षयुक्तः पुपूज तम्॥४१॥
तत्राऽऽदौ ज्येष्ठमासे या नृप शुक्ला समागता।
चतुर्थी सा कृता तेन नागरैर्हर्षसंयुतः॥४२॥
वरदं सङ्कटं शुक्ले चतुर्थीजं च कृष्णके।
न करोति नरो यः स सन्ताड्यो नगराद्बहिः॥४३॥
प्रकाशितं ततस्तेन सर्वत्र व्रतमुत्तमम्।
कृतं भूमितले राजन् चक्रुः सर्वे जना व्रतम्॥४४॥
प्रमेहदुःखनिर्मुक्तो बभूवे राजसत्तमः।
कर्दमः स स्वकीयं वै राज्यं पुत्राय सन्ददौ॥४५॥
वाटिकायां स्थितो राजा सस्त्रीको ह्यभजत् सदा।
गणेशं सर्वभावेन सोऽन्ते तन्मयतामयात्॥४६॥
तस्य राज्ये जनाः सर्वे ते क्रमेण महामते।
अभवन् ब्रह्मभूताश्च व्रतपुण्यप्रभावतः॥४७॥
कथां रम्यां दशरथ अन्यां शृणु सुसिद्धिदाम्।
गौडदेशेऽन्त्यजः कश्चिद्वभूवे पापकारकः॥४८॥
वने गत्वा जघानाऽसौ द्रव्यलोभी जनान् सदा।
योनिलम्पटभावेन दूषितामकरोत् स्त्रियम्॥४९॥
वन एकाकिनीं दृष्ट्वा ब्राह्मणीं क्षत्रियां तथा।
धृत्वाऽयभत् स वेगेन शूद्रीं वैश्यस्त्रियं खलः॥५०॥
एवं नानास्वभावेन पापं चक्रे स नित्यशः।
एकदा ब्राह्मणं कञ्चिद् दृष्ट्वा हन्तुं तमाययौ॥५१॥
पलायत भयोद्विग्नो हाहाकारपरायणः।
तस्य नादं समाकर्ण्य पुरुषाः पञ्च आययुः॥५२॥
तैर्हतः शस्त्रघातेन पपात धरणीतले।
तस्मिन् दिने समायाता ज्येष्ठी शुक्ला चतुर्थिका॥५३॥
स उपोषणयुक्तश्च बभूवे दैवयोगतः।
ममार पीडया युक्तः पञ्चम्यां पापरूपकः॥५४॥
अज्ञानव्रतपुण्येन ब्रह्मभूतो बभूव ह।
चाण्डालः किं पुनर्भूप ज्ञानिनां चित्रमेव च॥५५॥
एवं नानाविधा राजन् व्रतपुण्यप्रभावतः।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगा बभुः॥५६॥
तत्रैवं कति भूपाल ब्रूयां वक्तुं न शक्यते।
अपारमहिमा तस्मादानन्त्यं कथितं द्विजैः॥५७॥
इदं ज्येष्ठचतुर्थ्या यन् माहात्म्यं संशृणोति सः।
पठेद् वा यो लभेत् सर्वं शुक्लाया मनसीप्सितम्॥५८॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः॥४-१६॥