पञ्चदशोऽध्यायः—वैशाख-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
अधुना शुक्लगायास्तु वैशाखे चरितं वद।
चतुर्थ्याः शुभदं पूर्णं न तृप्यामि कथामृतात्॥१॥
वसिष्ठ उवाच
गुर्जरे सर्वशोभाढ्यं नगरं भद्रकं परम्।
तत्र राज्यं चकारैव राजा ब्रह्मप्रियो महान्॥२॥
सर्वशास्त्रार्थसम्पन्नो यज्वा दानप्रियः सदा।
देवद्विजातिथिप्रेप्सुः शस्त्रास्त्रे पारगोऽभवत्॥३॥
सर्वान् राज्ञो वशे कृत्वा पृथिवीमण्डलाधिपः।
बभूव बलसम्पन्नः सर्वमान्यो महामतिः॥४॥
तस्य पत्नी मृता सद्यो रजो दर्शनमात्रतः।
द्वितीया च कृता पत्नी समशीला नृपेण ह॥५॥
साऽपि तद्वन् मृता राजन्नेवं पञ्च मृतास्ततः।
पत्न्योऽभवन् सुदुःखार्तो राजा ब्रह्मप्रियोऽभवत्॥६॥
राज्यं निक्षिप्य राजर्षिः प्रधानेषु ययौ वनम्।
स्वगुरुं श्वेतकेतुं स प्रणम्य पुरतः स्थितः॥७॥
श्वेतकेतुः स्वशिष्यं तमासनादिषु मानदम्।
संस्थाप्य कुशलत्वेन मानयामास हर्षितः॥८॥
भोजयित्वा स राजानं महत् पप्रच्छ कारणम्।
किमर्थं राजशार्दूल कृतमागमनं त्वया॥९॥
वद तत् कारणं मुख्यं तत् करिष्येऽहमादरात्।
ममाश्रमे त्वमेकाकी राज्यं त्यक्त्वा समागतः॥१०॥
एवं पृष्टः स राजर्षिस्तं प्रणम्य कृताञ्जलिः।
जगाद सर्वं वृत्तान्तं पत्नीनाशात्मकं स्वयम्॥११॥
तच्छ्रुत्वा गाणपत्यश्च श्वेतकेतुर्महातपाः।
ध्यानेनालोक्य तं भूपं जगाद क्रोधसंयुतः॥१२॥
श्वेतकेतुरुवाच
नृपाधम महापापिन् शृणु मे वचनं हितम्।
व्रतं मुख्यं चतुर्थ्यास्ते राज्ये नष्टं विशेषतः॥१३॥
चतुर्थीव्रतहीनस्य कर्म सर्वं सुनिष्फलम्।
नारकी च भवत्यन्ते स नरो नात्र संशयः॥१४॥
चतुर्भिः पुरुषार्थैस्त्वं वर्जितो नितरां नृप।
चतुःपदार्थदातृत्वाच्चतुर्थी कथिता बुधैः॥१५॥
श्वेतकेतुवचः श्रुत्वा कोपयुक्तं महीपतिः।
प्रणम्य तमुवाचाऽथ लज्जितः खेदसंयुतः॥१६॥
ब्रह्मप्रिय उवाच
अज्ञानेन कृतं विप्र सर्वदस्य व्रतस्य यत्।
अनाचरणकं तेन क्षमस्व करुणानिधे॥१७॥
वद मां कीदृशं स्वामिन् व्रतं सर्वार्थदं परम्।
पूजनं कस्य वा कार्यं विधियुक्तं च तत्र वै॥१८॥
एवं पृष्टो महातेजाः श्वेतकेतुस्तमब्रवीत्।
माहात्म्यं व्रतमुख्यस्य श्रुत्वा सोऽपि तमब्रवीत्॥१९॥
ब्रह्मप्रिय उवाच
कीदृशोऽयं गणाधीशो व्रतं यस्य महाद्भुतम्।
स्वरूपं वद मे तस्य भजिष्यामि तमादरात्॥२०॥
श्वेतकेतुरुवाच
शृणु राजन् पुरावृत्तं कथयामि समासतः।
मदीयं चेष्टितं तेन गणेशं ज्ञास्यसे परम्॥२१॥
अहं पुरा तपोनिष्ठो बभूवातितरां नृप।
उद्दालकं प्रणम्यैव पितरं साधने रतः॥२२॥
ततोऽतितपसा युक्तं दृष्ट्वा मां जनको वचः।
जगाद स्नेहसंयुक्तः शान्तिदाता महायशाः॥२३॥
उद्दालक उवाच
पुत्र शान्त्यर्थमेव त्वं तपस्त्यक्त्वा महामते।
कुरु श्रमं विशेषेण ब्रह्माहमिति धारयन्॥२४॥
कोऽसि त्वं कुत आयातो कुत्र गच्छसि मां वद।
चित्ते चिन्तामणिं तात पश्य पश्य विशेषतः॥२५॥
पितुर्वचनमाकर्ण्य तमहं पुनरब्रवम्।
वद तात स्वपुत्राय ज्ञानं शान्तिप्रदं महत्॥२६॥
चित्तं च कीदृशं तात तत्र चिन्तामणिः कथम्।
सोऽपि तिष्ठति विप्रेश कथं ज्ञेयो महात्मभिः॥२७॥
वसिष्ठ उवाच
एवं पृष्टो महायोगी तमारुणिरुवाच ह।
हर्षेण महता युक्तो गाणपत्यस्वभाववान्॥२८॥
उद्दालक उवाच
शृणु पुत्र महाभाग योगशान्तिप्रदायकम्।
येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि॥२९॥
चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते।
विक्षिप्तं च तथैकाग्रं निरोधं भूमिसंज्ञितम्॥३०॥
तत्र प्रकाशकर्ताऽसौ हृदि चिन्तामणिः स्थितः।
साक्षाद्योगेन योगज्ञैर्लभ्यते भूमिनाशनात्॥३१॥
चित्तरूपा स्वयं बुद्धिश्चित्तभ्रान्तिकरी मता।
सिद्धिर्माये गणेशस्य मायाखेलक उच्यते॥३२॥
अतो गणेशमन्त्रेण गणेशं भज पुत्रक।
तेन त्वं ब्रह्मभूतत्वं शान्त्या योगेन यास्यसि॥३३॥
इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथाऽऽरुणिः।
एकाक्षरं स्वपुत्राय नृप ध्यानादिसंयुतम्॥३४॥
तेनाऽहं साधयामि स्म गणेशं सर्वसिद्धिदम्।
क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवं ततः॥३५॥
अतस्त्वमपि राजेन्द्र भजस्व गणनायकम्।
तेनेहपरलोकस्थसुखं प्राप्स्यसि शाश्वतम्॥३६॥
ब्रह्मणि ब्रह्मभूतस्त्वं भविष्यसि न संशयः।
एवमुक्त्वा स द्वात्रिंशदक्षरस्थं ददौ मनुम्॥३७॥
विधियुक्तं मनुं राजाऽऽगृह्य स्वगृहमाययो।
श्वेतकेतुं प्रणम्यैव हर्षयुक्तेन चेतसा॥३८॥
तत्राऽऽदौ शुक्लपक्षस्था वैशाखी च समागता।
चतुर्थी तां चकाराऽसौ नागरैर्हर्षसंयुतः॥३९॥
तेन सर्वत्र घोषश्च व्रतस्य प्रकृतो महान्।
शौक्लं कार्ष्णं व्रतं चक्रुर्भूमिसंस्था जना नृप॥४०॥
राजा स्वस्त्रीसमायुक्तोऽभजत्तं गणनायकम्।
पुत्रं राज्ये समास्थाप्य निवृत्त्या संयुतोऽभवत्॥४१॥
मन्त्रं जजाप विघ्नेशं ध्यात्वा पूजापरायणः।
व्रतयुक्तस्तथाऽन्ते स ब्रह्मभूतो बभूव ह॥४२॥
ब्रह्मप्रियेति नामाऽभूत् तदेवं सार्थकं कृतम्।
तेन राज्ञा महाभाग गाणपत्यस्वभावतः॥४३॥
तस्य राज्ये जनाः सर्वे व्रतपुण्येन भूमिप।
क्रमेण ब्रह्मभूतास्तेऽभवन् स्वानन्दके पुरे॥४४॥
उद्दालकश्वेतकेतू गाणपत्यस्वभावतः।
अवधूतौ तु विख्यातौ बभूवाते महाप्रभू॥४५॥
श्वेतकेतुद्विजेनाऽपि मर्यादा प्रकृता बलात्।
सर्वेभ्यः सुखदाऽत्यन्तं तां शृणुष्व विशेषतः॥४६॥
कदाचिदारुणिस्तत्र सस्त्रीकः स्वाश्रमे स्थितः।
आजगाम द्विजः कश्चित् सर्वशास्त्रविशारदः॥४७॥
जगाद स्त्रियमेवं स आरुणेः कामविह्वलः।
मैथुनाय समागच्छ मया सह सुरूपिणि॥४८॥
तच्छ्रुत्वा श्वेतकेतुं तं क्रुद्धमारुणिरब्रवीत्।
मा क्रोधं कुरु पुत्र त्वमवृतास्तु स्त्रियो मताः॥४९॥
तच्छ्रुत्वा पितरं प्राह श्वेतकेतू रुषा युतः।
एवं चेत् पतिमेकं वृणोति सा कामिनी कथम्॥५०॥
अतो वै वेधसा स्वामिन्न कृतं कर्म शाश्वतम्।
असमञ्जसकं मत्वा मर्यादां कारयाम्यहम्॥५१॥
अद्यप्रभृति रागेण स्पृशेद्यश्च परस्त्रियम्।
स्त्रीहत्यां लभतां तत्र पुरुषः स न संशयः॥५२॥
अथवा पुरुषं कञ्चित् पतिं त्यक्त्वा च कामिनी।
गच्छेन् मैथुनभावार्थं पतिहत्यां तु सा लभेत्॥५३॥
यद्यहं गणराजस्य भक्तश्चेद्विघ्ननायक।
तदा मे वचनं सत्यं भवेत्तत्ते नमो नमः॥५४॥
तदादि संवृता स्त्री सा सेवते भावतः पतिम्।
विनायकप्रसादेन तेनेयं स्थापिताऽभवत्॥५५॥
प्रसङ्गात्ते मया ख्यातमुद्दालकविचेष्टितम्।
माहात्म्यमन्यदधुना चतुर्थीसम्भवं शृणु॥५६॥
महाराष्ट्रे द्विजः कश्चित् परस्त्रीलम्पटोऽभवत्।
तदर्थं तेन मद्यस्य कृतं पानं विशेषतः॥५७॥
चौर्येण धनमादाय हिंसाकर्मपरायणः।
नानापापरतो भूत्वा परस्त्रियमसेवत॥५८॥
जगाम शूद्रगेहे स एकदा कामविह्वलः।
धनं गृहीत्वा स्वं लब्धं धनं दत्त्वा रराम ह॥५९॥
एवं किञ्चिद्गते काले शूद्रः स्वगृहमागतः।
तेन शस्त्राभिघातेन हतोऽभूत्स द्विजाधमः॥६०॥
तस्मिन् दिने समायाता चतुर्थी दैवयोगतः।
तत्र शस्त्राभिघातस्य पीडया संयुतोऽभवत्॥६१॥
अन्नादिभिर्विहीनश्च पञ्चम्यां स ममार ह।
ततः स्वानन्दके लोके जगाम भृशपूजितः॥६२॥
वैशाखशुक्लपक्षस्य चतुर्थीव्रतयोगतः।
ब्रह्मभूतः स वै जातो महापापपरायणः॥६३॥
अज्ञानव्रतजेनैव पुण्येनाऽसौ द्विजाऽधमः।
ब्रह्मभूतश्च सञ्जातो ज्ञानिनां तत्र का कथा॥६४॥
नाना जना व्रतं कृत्वा ज्ञानतोऽज्ञानतो नृप।
बभूवुर्ब्रह्मभूताश्च मया वक्तुं न शक्यते॥६५॥
एतद् वैशाखशुक्लायाश्चतुर्थ्याः शृणुयात्तु यः।
माहात्म्यं प्रपठेद् वाऽपि स लभेदीप्सितं फलम्॥६६॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः॥४-१५॥