चतुर्दशोऽध्यायः—चैत्र-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

श्रुतं चरित्रं मुख्यं यच्चतुर्थ्याः फाल्गुने मया।
शुक्लायाः सर्वदं योगिन् न तृप्तोऽहं भवामि तु॥१॥
अतो मां चैत्रगाया यद् वरदायाश्चरित्रकम्।
गुरो सुदयया ब्रूहि पावनं सर्वजन्मिनाम्॥२॥

वसिष्ठ उवाच

बङ्गालं नगरं ख्यातं शोभाभद्राख्यमुत्तमम्।
तत्र चन्द्रप्रियो राजा प्रचक्रे राज्यमुत्तमम्॥३॥
शस्त्रास्त्रैः शत्रुसङ्घातान् जित्वा वीरश्रिया युतः।
सागरान्तां धरित्रीं स चकार वशवर्तिनीम्॥४॥
सामन्ता वशगाः सर्वे चक्रुः सेवादिकं नृपाः।
तस्य राज्ये प्रजाः सर्वाः स्वस्वधर्मपरायणाः॥५॥
स्वयं धर्मपरो राजा नीत्या वर्णाश्रमादिषु।
संस्थितान् रक्षयंश्चैव सदा हीनानदण्डयत्॥६॥
चौराणां न भयं तत्र स्वस्वव्यापारकारिणाम्।
तथाऽपि रोगसंयुक्ता नरा नार्योऽभवन् हि वै॥७॥
वन्ध्यादिदोषसंयुक्ता जनाः सर्वे समाययुः।
राजानं सर्वनीतिज्ञं पप्रच्छुश्चेष्टितं महत्॥८॥

नागरादय ऊचुः

वयं राजन् स्वधर्मस्था त्वदाज्ञावशवर्तिनः।
अपि त्वं धर्मसंयुक्तः प्रधानादिभिरादरात्॥९॥
तथाऽपि रोगदोषैश्च वन्ध्यदोषैर्विशेषतः।
धनधान्यविहीनाश्च पीडिता वयमुत्कटम्॥१०॥
पृथिवी रसहीना वै फलहीना महीरुहाः।
गावो दुग्धविहीनाश्च तव राज्ये महामते॥११॥
धर्मशीले नृपे राजन् सर्वे सुखयुता जनाः।
विपरीतं महाराज त्वयि राज्यं प्रशासति॥१२॥
अतोऽस्मान् रक्ष भूपाल रोगादिभिः प्रपीडितान्।
अस्माकं बलमत्यन्तं त्वमेव परमं मतम्॥१३॥

वसिष्ठ उवाच

चन्द्रप्रियो वचः श्रुत्वा तेषामेवं सुदुःखितः।
प्रधानेषु समाक्षिप्य राज्यं निहतकण्टकम्॥१४॥
वने गन्तुं मनश्चक्रे ततस्तत्राऽऽजगाम ह।
अष्टावक्रो महायोगी तं दृष्ट्वा प्रणनाम सः॥१५॥
सम्पूज्य भोजयामास पादसंवाहने रतः।
स्वयं स्थितो महाविप्रमूचेऽसौ दुःखसंयुतः॥१६॥

चन्द्रप्रिय उवाच

धन्यं मे जन्म कर्मादि पिता माता तपो यशः।
दानं ज्ञानं तथा योगिन् त्वत्पादयुगदर्शनात्॥१७॥
ततः सर्वं स्ववृत्तान्तं कथयामास यत्नतः।
अष्टावक्रश्च संश्रुत्य तं जगाद नराधिपम्॥१८॥

अष्टावक्र उवाच

राजन् राज्ये त्वदीये यत् महत्पापं प्रवर्तते।
तेन दुःखयुता सर्वा प्रजा जाता न संशयः॥१९॥
चतुर्णां पुरुषार्थानां प्रापकं यन्महाव्रतम्।
चतुर्थीसंज्ञकं नष्टं तव राज्ये नृपाधम॥२०॥
पुरुषार्थैर्नरास्तेन हीनाः सर्वेऽधुना परम्।
अन्ते नरकगा राजन् भविष्यन्ति त्वया सह॥२१॥
अष्टावक्रवचः श्रुत्वा तं प्रणम्य महीपतिः।
उवाच दुःखसंयुक्तो वचनं स्वहितप्रदम्॥२२॥

चन्द्रप्रिय उवाच

ब्रह्मन् दयानिधे स्वामिन् वद मे व्रतमुत्तमम्।
कीदृशं कस्य देवस्य प्रियमित्यादिकं प्रभो॥२३॥

अष्टावक्र उवाच

कृष्णशुक्लचतुर्थीजं व्रतं गाणेश्वरं नृप।
सर्वादौ तत् प्रकर्तव्यं धर्मकामार्थमुक्तये॥२४॥
इत्युक्त्वा कथयामास चरित्रं सकलं द्विजः।
चतुर्थीसम्भवं तात श्रुत्वा राजा सुविस्मितः॥२५॥
पुनः पप्रच्छ तं विप्रं विनयेन समन्वितः।
कीदृशो गणराजोऽयं व्रतं यस्य महाद्भुतम्॥२६॥
वद तस्य स्वरूपं मे ज्ञात्वा तं सर्वभावतः।
व्रतयुक्तो भजिष्यामि गणेशं सर्वसिद्धिदम्॥२७॥

अष्टावक्र उवाच

गणेशस्य स्वरूपं तु मया वक्तुं न शक्यते।
तथाऽपि श‍ृणु भूपाल येन त्वं ज्ञास्यसि प्रभुम्॥२८॥
पुराऽहं तपसि प्राज्ञ संस्थितो यत्नधारकः।
सुरूपका अप्सरसो याताश्चलयितुं ततः॥२९॥
तासामत्याग्रहं दृष्ट्वा कुपितः स्म शपामि ताः।
मृत्युलोके पतध्वं वै चौरग्रस्ता भवेत हि॥३०॥
इति मद्गिरमाकर्ण्य भयभीताः समन्ततः।
ता मां प्रसादयामासुस्ततोऽहं दयया युतः॥३१॥
अवदं तत्र विष्णुर्वै यादवेषु भविष्यति।
तस्य पत्न्यो भविष्यन्त्योऽन्ते चौराणां भविष्यथ॥३२॥
गता अप्सरसो राजंस्ततोऽहं तप आचरम्।
प्रभावेणातितपसोऽन्तर्ज्ञानं मेऽभवत् परम्॥३३॥
ततोऽहं तप उत्सृज्य शमी दमपरोऽभवम्।
नानायोगविचारेण समाधिं साधयन्नृप॥३४॥
एवमन्ते समानन्दे संस्थितोऽहं विशेषतः।
तत्र मोहं समालोक्य समरूपे सुविस्मितः॥३५॥
ततः शान्त्यर्थमत्यन्तं क्लिश्यामि स्म महामते।
ततोऽकस्मान् महायोगी ऋभुस्तत्र समागतः॥३६॥
वर्णाश्रमविहीनं तं दृष्ट्वा हर्षसमन्वितः।
प्रणम्याऽहं विशेषेणापूज्योवाचं महामुनिम्॥३७॥
धन्यं मे तप उग्रं यज्जन्म ज्ञानादिकं तथा।
तव पादस्य योगेन कृतकृत्योऽस्मि साम्प्रतम्॥३८॥
एवं मदीयं वाक्यं स श्रुत्वोवाच महामुनिः।
किं वाञ्छसि महाप्राज्ञ वदस्वाऽहं करोमि तत्॥३९॥
ततस्तं प्रणतो भूत्वा कृताञ्जलिपुटः पुनः।
अवदं योगशान्तिं मे वद योगीन्द्रसत्तम॥४०॥

ऋभुरुवाच

संयोगः पञ्चधा तात सदसत्समनेतितः।
स्वसंवेद्यमयेनैव मुने योगेन लभ्यते॥४१॥
अयोगः पञ्चभिर्हीनो निवृत्या लभ्यते जनैः।
तयोर्योगे भवेद्योगो लभ्यते शान्तिमार्गतः॥४२॥
तमेव गणराजं त्वं ज्ञात्वा भज महामते।
तेन शान्तिभवं सौख्यं लभसे नान्यथा क्वचित्॥४३॥
संयोगो हि गकारश्च णकारोऽयोगवाचकः।
तयोः स्वामी गणेशानः पश्य वेदे महामते॥४४॥
अहं पुरा युतो भ्रान्त्या नानायोगपरायणः।
अभवं तत्र भो विप्र सहजेन समाश्रितः॥४५॥
स्वाधीनत्वमहो दृष्ट्वा तत्र तेन सुविस्मितः।
शरणं शङ्करस्यैव गतोऽहं योगकाम्यया॥४६॥
शङ्करेणोपदिष्टः स्म भजामि गणनायकम्।
एकाक्षरविधानेन तेन शान्तिं गतोऽभवम्॥४७॥
एवमुक्त्वा गणेशस्य मह्यं मन्त्रं ददौ ऋभुः।
एकाक्षरस्य मन्त्रस्य जपैः शान्तिं गतोऽभवम्॥४८॥
अष्टावक्रः प्रसन्नात्मा योगिवन्द्यो महायशाः।
तस्मै नृपाय मन्त्रं स ददौ द्वादशवर्णकम्॥४९॥
सविधिं मन्त्रराजं तं दत्त्वा चान्तर्हितोऽभवत्।
राजा विघ्नेश्वरस्यैव भजने तत्परोऽभवत्॥५०॥
तत्रादौ चैत्रमासे या नृप शुक्ला समागता।
चतुर्थी सा कृता तेन नागरैः स्वजनैः पुरा॥५१॥
ततः स घोषयामास व्रतं जनपदेषु तत्।
शौक्लं कार्ष्णं विशेषेण चक्रुः सर्वे जनास्तथा॥५२॥
ततो रोगादिभिर्हीना बभूवुः पुत्रसंयुताः।
नानादोषविहीनास्ते विहारं चक्रुरादरात्॥५३॥
चन्द्रप्रियो गणेशानमभजन्नान्यचेतसा।
पुत्रे राज्यं निवेद्यैव सस्त्रीको वनगोऽभवत्॥५४॥
ततः स्वल्पेन कालेन सस्त्रीको नृपसत्तमः।
स्वानन्दे गणपं गत्वा ब्रह्मभूतो बभूव ह॥५५॥
क्रमेण भूमिसंस्था ये व्रतपुण्यप्रभावतः।
ब्रह्मभूता बभूवुस्ते दृष्ट्वा गणपतिं नृप॥५६॥
अन्यत्त्वं श‍ृणु चैत्रे वै शुक्लपक्षे चतुर्थिका।
तस्याश्चरित्रं पापघ्नं सर्वसिद्धिप्रदायकम्॥५७॥
मालवे शूद्रजः पापी कोऽवसन् वनगोचरान्।
जघान पथिकान् दुष्टो द्रव्यलोभी नराधमः॥५८॥
तस्य पापस्य सङ्ख्यानं कर्तुं नैव भवाम्यहम्।
समर्थो गणना त्यक्ता ग्रन्थबाहुल्यदोषतः॥५९॥
तं कदाचिद्वने संस्थं वृक्षाग्रे शस्त्रधारकम्।
वञ्चयित्वा जनान् घ्नन्तं तत्र सर्पो ददंश ह॥६०॥
ततः सोऽपि भयोद्विग्नः स्वगृहं प्रत्यपद्यत।
ततो विषेण राजेन्द्र पीडितो मूर्च्छितोऽभवत्॥६१॥
दैवयोगेन तस्यापि चतुर्थी शुक्लगा नृप।
चैत्रे प्राप्ता च शूद्रोऽभूत् पीडयाऽन्नविवर्जितः॥६२॥
पञ्चम्यां स मृतः पापी गतः स्वानन्दके पुरे।
व्रतपुण्यप्रभावेणाऽज्ञानेनाऽपि नृपात्मज॥६३॥
एवं नानाविधा राजन् ब्रह्मभूता बभूविरे।
तेषां चरित्रकं वक्तुं शक्यते न मया कदा॥६४॥
इदं चैत्रचतुर्थ्यास्तु शुक्लायाः संश‍ृणोति चेत्।
माहात्म्यं स लभेत् कामानीप्सितान् पठते यदा॥६५॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चैत्रशुक्लचतुर्थीवर्णनं नाम चतुर्दशोऽध्यायः॥४-१४॥