त्रयोदशोऽध्यायः—फाल्गुन-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
अधुना ब्रूहि मे विप्र माहात्म्यं फाल्गुनोद्भवम्।
पुण्यं शुक्लचतुर्थीजं न तृप्यामि कथामृतात्॥१॥
वसिष्ठ उवाच
फाल्गुने शुक्लपक्षे या चतुर्थी वरदा भवेत्।
तस्या माहात्म्यमाद्यं ते सङ्क्षेपेण ब्रवीम्यहम्॥२॥
मालवे नगरं ख्यातं सर्वशोभासमन्वितम्।
भारकं सर्वधर्मज्ञैर्लोकैस्तत् सङ्कुलं बभौ॥३॥
तत्र हेमाङ्गदो राजा चकार राज्यमुत्तमम्।
जित्वा भूमण्डलं सर्वं शस्त्रास्त्रज्ञो विचक्षणः॥४॥
प्रधानै राजभिः सर्वैर्मान्योऽभूत् सर्वसम्मतः।
पुत्रैस्तेजोयुतैर्युक्तो द्विजदेवातिथिप्रियः॥५॥
ततोऽकस्मात् स राजर्षिः शूलयुक्तो बभूव ह।
उदरे शस्त्रसम्पातैरिव युक्तो रुरोद ह॥६॥
नानायत्नाः कृताः सर्वैः शूलनाशार्थमादरात्।
मन्त्रैश्चौषधिभिः शूलं पिपीडातितरां नृपम्॥७॥
तीर्थदेवादिकं सोऽपि ब्राह्मणैर्वेदपारगैः।
असेवत ततस्तस्य शूलमुग्रं बभूव वै॥८॥
ततः शूलेन राजाऽतिपीडितो दारुणेन वै।
विषादिभिर्मतिं चक्रे देहत्यागे विशेषतः॥९॥
ततोऽकस्मान् महायोगी पर्वतः सहसाऽऽगतः।
तस्य गेहे तं ननाम स राजा दुःखसंयुतः॥१०॥
ब्राह्मणैः पूजयामास तं सर्वज्ञं विशेषतः।
उवाच दुःखसंयुक्तः शूलपीडां नियम्य सः॥११॥
हेमाङ्गद उवाच
धन्यं मे जन्म दानादि पिता माता कुलादिकम्।
स्वधर्मपुत्रदारादि त्वदङ्घ्रियुगदर्शनात्॥१२॥
ततोऽतिपीडया युक्तः पपात धरणीतले।
रुरोद दारुणं राजा तत् दृष्ट्वा विस्मितो द्विजः॥१३॥
पप्रच्छ सचिवान् विप्रो मुनीनां पर्वतो वरः।
किमिदं दुःखमुग्रं वै राज्ञा प्राप्तं प्रकथ्यताम्॥१४॥
सचिवा ऊचुः
शूलमुग्रं बभूवास्यानिवार्यं त्वौषधादिभिः।
तीर्थमन्त्रप्रयोगैश्च नानायत्नैर्महामुने॥१५॥
श्रुत्वा तेषां वचः क्रूरं पर्वतो ध्यानमास्थितः।
ज्ञात्वा पापं महायोगी राज्ञः सर्वानुवाच ह॥१६॥
पर्वत उवाच
शृणु राजंस्त्वदीये यद्राज्ये पापं सुदारुणम्।
वर्तते त्वं ततः पूर्णशूलयुक्तोऽसि साम्प्रतम्॥१७॥
चतुर्थ्यास्ते व्रतं मुख्यं राज्ये नष्टं विशेषतः।
तेन दोषसमूहेन सजनस्त्वं सुदुःखितः॥१८॥
पर्वतस्य वचः श्रुत्वा राजा तं हर्षितोऽवदत्।
कृत्वा करपुटं भूप विनयावनतो वचः॥१९॥
हेमाङ्गद उवाच
कीदृशं तद्व्रतं स्वामिन् केन सञ्चरितं पुरा।
कस्यैव पूजनं तत्र वद मे सर्वमञ्जसा॥२०॥
पर्वत उवाच
सर्वसिद्धिकरं राजन् व्रतं गाणेश्वरं परम्।
चतुर्णां पुरुषार्थानां साधनं सर्वसम्मतम्॥२१॥
ततश्चतुर्थीमाहात्म्यं कथयामास विस्तरात्।
तेन संहर्षितो राजा श्रुत्वा तं पुनरब्रवीत्॥२२॥
कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम्।
ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः॥२३॥
पर्वत उवाच
पुरा वृत्तं गणेशस्य चरित्रं यन्मया श्रुतम्।
तदेव कथयिष्यामि निदाघात् सर्वदं परम्॥२४॥
अहं तपसि सन्तिष्ठन्नानायत्नपरायणः।
संव्याप्तं तपसा सर्वं मदीयेन महामते॥२५॥
इन्द्रः प्रक्षुभितोऽत्यन्तं काममप्सरसा युतम्।
प्रेषयामास विघ्नार्थं तपसो मे मदान्वितः॥२६॥
ततः सोऽपि भयोद्विग्नः कामो दाहसमन्वितः।
तपसस्तेजसा सत्यं पलायत स सैनिकः॥२७॥
ततोऽहं तपसा युक्तोऽन्तर्निष्ठश्चाभवं नृप।
तपस्त्यक्त्वा महाबाहो शमदमपरायणः॥२८॥
नानाभूमिपरो जातस्ततोऽतिभाग्य गौरवात्।
निदाघः सहसा तत्राऽऽगतोऽवधूतमार्गवित्॥२९॥
दृष्ट्वा तं योगिनं पूर्णं प्रणतोऽहं विशेषतः।
अपूजयं विधानेन ततस्तं स्म वदामि वै॥३०॥
धन्यो मे जनको माता तपो धन्यं जनुस्तथा।
ब्रह्मभूयप्रदस्याऽपि पादपद्मस्य दर्शनात्॥३१॥
अधुना वद मे नाथ योगं शान्तिप्रदायकम्।
येनाऽहं योगिवन्द्यश्च भवेयं साधनान् मुने॥३२॥
वसिष्ठ उवाच
इति पृष्टो महातेजा निदाघस्तमुवाच ह।
पर्वतं तपसा शुद्धं प्रहृष्टेनान्तरात्मना॥३३॥
निदाघ उवाच
शृणु वृत्तं मदीयं ते कथयामि पुरातनम्।
येन योगीन्द्र वन्द्यश्च जातोऽहं योगसेवया॥३४॥
अहं योगार्थमत्यन्तं योगभूमिपरायणः।
असाधयं महायोगं ब्रह्मभूयकरं परम्॥३५॥
ततोऽन्तेऽहं सदानन्दे समः स्वानन्दकेऽभवम्।
संस्थितस्तत्र भो राजन् दृष्टमानन्दरूपकम्॥३६॥
द्वन्द्वैः सर्वत्र संव्याप्तं द्वन्द्वे तद् योगरूपि च।
तेन शान्तिर्गता मेऽभूत्ततो विष्णुं गतोऽभवम्॥३७॥
तं प्रणम्य महात्मानमवदं वद शान्तिदम्।
योगं विष्णो महायोगिन् येन शान्तो भवाम्यहम्॥३८॥
विष्णुरुवाच
योगशान्तिप्रदं तात गणेशं विद्धि मानद।
तं ज्ञात्वा शान्तिमापन्ना वयं सर्वे च योगिनः॥३९॥
मनोवाणीमयं विद्धि गकारं च तयोः परम्।
मनोवाणीविहीनं तं णकारं योगिसम्मतम्॥४०॥
तयोः स्वामी गणाधीशस्तं भजस्व विधानतः।
ततः शान्तिं महाभाग लभसे नाऽत्र संशयः॥४१॥
एवमुक्त्वा महाविष्णुर्विरराम स्वयं ततः।
तं प्रणम्य वने गत्वा योगाभ्यासपरोऽभवम्॥४२॥
एकाक्षरस्य मन्त्रस्य सन्तुष्टोऽभूद्गजाननः।
गतेषु दश वर्षेषु जपेन सहसाऽऽगतः॥४३॥
ध्यानस्थं मां समालोक्य जगाद वृणु वाञ्छितम्।
ततोऽहं तं प्रणम्यैवापूज्य स्तोतुं प्रचक्रमे॥४४॥
स्तोत्रं यत् सामवेदोक्तं तच्छ्रुत्वा तुष्टिमागतः।
योगशान्तिं गणेशानो दत्त्वा मे प्रजगाम ह॥४५॥
तदादि गाणपत्योऽहं जातस्तं प्रभजामि वै।
भजस्व गणराजं त्वमतस्तं शान्तिदं परम्॥४६॥
एवमुक्त्वा निदाघः सं ददौ तस्मै महामनुम्।
एकाक्षरं विधानेन ततः सोऽन्तर्हितोऽभवत्॥४७॥
पर्वत उवाच
भजामि गणनाथं स्म ततोऽहं नित्यमादरात्।
तेनोक्तविधिना राजन् शान्तिं प्राप्तो विशेषतः॥४८॥
अपूजयं हि गणपं ततो नित्यं तपोन्वितः।
ततो मां दर्शयामास रूपं योगमयं प्रभुः॥४९॥
स्तुतः सम्पूजितो मे स भक्तिं दत्त्वा महामते।
स्वानन्दे स गतो राजन् भक्तानन्दविवर्धनः॥५०॥
एवमुक्त्वा पर्वतस्तं ददौ मन्त्रं दशाक्षरम्।
गणेशस्य महाराज ततश्चान्तर्हितोऽभवत्॥५१॥
राजा सर्वजनैरादौ व्रतं चक्रे स हर्षितः।
फाल्गुने भूप शुक्लस्थचतुर्थीसंज्ञकं परम्॥५२॥
ततो राज्ञाऽपि सर्वत्र कृतो घोषो जनैर्नृप।
शौक्लं कार्ष्णं व्रतं भूमौ क्रियतां भावसंयुतैः॥५३॥
ततः शुलव्यथाहीनो बभूवे राजसत्तमः।
दुःखहीना जनाः सर्वे जाता व्रतप्रभावतः॥५४॥
पुत्रपौत्रादिसंयुक्ता रोगाद्यभिविवर्जिताः।
धनधान्यादिभिः सर्वे मुमुदुर्भूमिमण्डले॥५५॥
ततो हेमाङ्गदो राजा भक्त्या विघ्नेशमुत्तमैः।
उपचारैः प्रपूज्याऽपि सिषेवे नित्यमादरात्॥५६॥
पुत्रं राज्ये निधायाऽसौ सस्त्रीकः शान्तिसंयुतः।
गणेशं सर्वभावेनान्ते च तन्मयतामयात्॥५७॥
क्रमेण भूमिसंस्था ये नराः स्वानन्दगा बभुः।
भुक्त्वा भोगान् विशेषेण व्रतपुण्यप्रभावतः॥५८॥
अधुना शृणु चान्यत्त्वं माहात्म्यं व्रतसंश्रितम्।
भाकरे नगरे विप्रो वसद्वै जातिदूषणः॥५९॥
बाल्यात्प्रभृति तेनैव कृतं कर्म सुदुःखदम्।
हिंसादिसंयुतं राजन् चौर्यं क्लेशविवर्धनम्॥६०॥
परस्त्रीलम्पटो नित्यं यौवने सोऽतिदारुणः।
पतिव्रता हठेनैव व्रतभ्रष्टाश्चकार ह॥६१॥
शस्त्रधारी वने गत्वा जन्तून् जघ्ने स नित्यशः।
द्विजादीन् द्रव्यलुब्धश्च मानवान् मनुजप्रिय॥६२॥
एवं पापसमाचारो वने कस्मिन् दिने स्थितः।
वैश्यं दृष्ट्वा च तं हन्तुमधावत् स वधप्रियः॥६३॥
पलता वैश्यपुत्रेण नादस्तत्र कृतो महान्।
तं श्रुत्वा मार्गसंस्थाश्च चत्वारः पुरुषाऽऽययुः॥६४॥
ते धृत्वा राजदूतास्तं ताडयामासुरुल्बणम्।
राजानं दर्शयामासुश्चौरं बद्धं जनास्ततः॥६५॥
राज्ञाऽऽज्ञप्ताश्च तं तत्राताडयंस्ते द्विजाधमम्।
नाविदन् ब्राह्मणं राजंश्चिक्षिपुर्निगडे द्विजम्॥६६॥
ततः फाल्गुनसंस्था या चतुर्थी शुक्लगाऽऽगता।
बद्धस्तत्र निराहारो बभूवे स नराधमः॥६७॥
पञ्चम्यां तं मृतं ज्ञात्वा ततो गाणेशकाऽऽययुः।
दूता नेतुं द्विजं तत्र व्रतपुण्यप्रभावतः॥६८॥
स स्वानन्दपुरे नीतो गाणपत्यैर्नृपात्मज।
तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह॥६९॥
एवं नाना जनाश्चैव ब्रह्मभूता बभूविरे।
तेषां चरित्रकं सर्वं वक्तुं ते न प्रशक्यते॥७०॥
फाल्गुने वरदायास्तु चरित्रं यः शृणोति चेत्।
पठेद् वा तस्य विघ्नेशः सर्वान् कामान् ददाति हि॥७१॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनशुक्लचतुर्थीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः॥४-१३॥