द्वादशोऽध्यायः—माघ-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

चतुर्थ्या महिमानं च श्रुत्वा हर्षः प्रवर्धते।
न तृप्यामि महायोगिन्नमृतादधिकं मतम्॥१॥
माघे शुक्लचतुर्थी या तस्या माहात्म्यमुत्तमम्।
वद येन जनाः सर्वे भवन्ति सुखभोगिनः॥२॥

वसिष्ठ उवाच

माघी शुक्ला चतुर्थी या तस्यां जातो विनायकः।
कश्यपस्य गृहे साक्षादङ्गारकयुता नृप॥३॥

मुद्गल उवाच

एवमुक्त्वा वसिष्ठस्तं विनायकचरित्रकम्।
कथयामास भो दक्ष देवान्तकवधाश्रितम्॥४॥
श्रुत्वा सोऽपि मुदा युक्तो बभूवाजस्य नन्दनः।
पुनस्तं प्रेरयामास व्रतार्थं मुनिमादरात॥५॥
तस्यादरं स विज्ञाय वसिष्ठस्तमुवाच ह।
हर्षेण महता युक्तो गाणपत्येन्द्रसत्तमः॥६॥

वसिष्ठ उवाच

अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम्।
श्रुतश्चेत् सर्वदः पूर्णो भविष्यति नरोत्तम॥७॥
कर्णाटे भानुपुर्यां च राजा परमधार्मिकः।
देवविप्रातिथिप्रेप्सुर्नीत्या राज्यं चकार सः॥८॥
शस्त्रास्त्रज्ञो विशेषेण नाम्ना सोमश्च वीर्यवान्।
जित्वा भूमण्डलं सर्वं चक्रे सौराज्यमुत्तमम्॥९॥
भार्या यशोवती तस्य नाम्ना पूर्णपतिव्रता।
धर्मशीला रता दाने बभूवे रूपशालिनी॥१०॥
तस्याऽपि दीर्घकालेन कुर्वतो राज्यमुत्तमम्।
अनावृष्टिभवं दुःखं प्राप्तं परमदारुणम्॥११॥
स तु शौनकनामानं मुनिं सर्वार्थकोविदम्।
ययौ दुःखनिवृत्त्यर्थं गाणपत्यं वने पुरात्॥१२॥
महावनं समासाद्य तं ननाम महामुनिम्।
साष्टाङ्गं च पुरस्तस्य कृताञ्जलिपुटोऽभवत्॥१३॥
उवाच तं मुनिश्रेष्ठं सोमो विनयसंयुतः।
धन्यं मे जन्म कर्माद्यं येन दृष्टो भवान् मुने॥१४॥
वदन्तमेवं राजानमुवाच शौनको मुनिः।
सर्वशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः॥१५॥

शौनक उवाच

पुरा राजन् महाभाग वद मां सकलं तव।
चेष्टितं यद्वने कस्मादागतो दुर्गमे च मे॥१६॥
एवं पृष्टो मुनीन्द्रेण सोमस्तं प्रत्युवाच ह।
हर्षयुक्तेन चित्तेन मुनिं वेदज्ञमुत्तमम्॥१७॥

सोम उवाच

कर्णाटे भानुपुर्यां मे वसतिर्धर्ममिच्छतः।
अनावृष्टिभवं दुःखं प्राप्तं तत्र महामुने॥१८॥
धर्मेण नीतियुक्तेन मया राज्यं प्रपालितम्।
तथाऽपि पापयोगेन दुःखं प्राप्तं जनैः सह॥१९॥
तत्रोपायं वदस्व त्वं साक्षाद्योगीश्वरो भवान्।
राज्यं त्यक्त्वा वने तेऽद्य शरणं चागतो नृपः॥२०॥
श्रुत्वा तस्य वचो रम्यं तं जगाद महीपतिम्।
शौनको मुनिशार्दूलो विनयेन समन्वितम्॥२१॥

शौनक उवाच

श‍ृणु राजन् महत् पापं तव राज्ये बभूव ह।
तेन रोगयुता लोका वन्ध्यतादोषसंयुताः॥२२॥
तत्रापि यन् महद् दुःखमनावृष्टिसमुद्भवम्।
सम्प्राप्तं कारणं तत्र वदामि त्वां नृपाधम॥२३॥
चतुर्थीसंज्ञकं राजन् व्रतं नष्टं विशेषतः।
शौक्लं कार्ष्णं तदर्थं त्वं यत्नयुक्तो भवाधुना॥२४॥
नो चेद् वर्षसहस्रैस्त्वं सुखं न लभसे कदा।
अतः सर्वत्र विख्यातं तद्व्रतं कुरु मानद॥२५॥
इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात्।
नृपाय सोऽपि संश्रुत्य विस्मितो मानसेऽभवत्॥२६॥
पुनः पप्रच्छ भावेन शौनकं मुनिसत्तमम्।
वद ब्रह्मन् गणेशस्य स्वरूपं शान्तिदं परम्॥२७॥

शौनक उवाच

पुराऽहं तपसा युक्तो नृपाऽतिष्ठं स्वाश्रमे।
अन्तर्निष्ठस्वभावेन ब्रह्मचिन्तनतत्परः॥२८॥
ततोऽकस्मान् महायोगी भृगुरस्माकमेव सः।
बीजभूतः समायात आश्रमेऽनुग्रहाय मे॥२९॥
तं दृष्ट्वा सहसोत्थाय प्रणतोऽहं महामुनिम्।
आसने समुपावेश्याऽपूजयं च स्वभक्तितः॥३०॥
कृताञ्जलिपुटं नम्रं पुरस्तस्य महात्मनः।
संस्थितं मां ततो दृष्ट्वा सुविनीतमुवाच सः॥३१॥

भृगुरुवाच

तात किं योगनिष्ठस्त्वं शान्तिं प्राप्तो वदस्व माम्।
किमिच्छसि महाभाग वद तेऽहं ददामि तत्॥३२॥
अस्मत्कुले महाभाग भवान् साधुगुणान्वितः।
तेनाऽहं तृप्तिमायातः पूरयिष्यामि वाञ्छितम्॥३३॥
एवं ब्रुवन्तमाद्यं तं मुनिमानम्य शौनकः।
जगाद हर्षसंयुक्तो भृगुं योगतपोनिधिम्॥३४॥

शौनक उवाच

योगशान्तिप्रदं पूर्णं ब्रूहि योगं महामुने।
तेनाऽहं तृप्तिमत्यन्तं यास्यामि त्वदनुग्रहात्॥३५॥

भृगुरुवाच

योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकम्।
तं भजस्व विधानेन तेन शान्तो भविष्यसि॥३६॥
चित्तं पञ्चविधं तात तत्र चिन्तामणिः स्थितः।
तं ज्ञात्वा ब्रह्मभूताश्चाभवन् ब्रह्मादयः सुत॥३७॥
चित्तेन ज्ञायते यद्वै तत्र मोहः प्रवर्तते।
मोहं चित्तं परित्यज्य भव चिन्तामणिः स्वयम्॥३८॥
मनोवाणीमयं चित्तं मनोवाणीविवर्जितम्।
चित्तं जानीहि पुत्र त्वं तत्त्यक्त्वा च सुखी भव॥३९॥
एवमुक्त्वा गणेशस्य गणानां त्वा मनुं ददौ।
शौनकाय महायोगी भृगुश्चान्तर्हितोऽभवत्॥४०॥

शौनक उवाच

भृगुणैवमहं राजन् उपदिष्टोऽभजं परम्।
गणेशं योगभावेन चित्तनिग्रहणे रतः॥४१॥
क्रमेण योगिवन्द्योऽहं जातस्तस्य महात्मनः।
कृपया गणराजस्य तथाऽपि स्म भजामि तम्॥४२॥
ततो मे वरदो जातो गणेशो भक्तवत्सलः।
गाणपत्यं चकाराऽसौ तदहात् गणपोऽभवम्॥४३॥
एवमुक्त्वा स राजेन्द्रं गणानां त्वा मनुं ददौ।
शौनको मुनिशार्दूलो विधियुक्तं विधानवित्॥४४॥
शौनकं प्रणनामाऽऽज्ञां गृहीत्वा राजसत्तमः।
आययौ स्वगृहे तत्र प्रधानैरभिनन्दितः॥४५॥
नागरैः सह सोमश्च माघे शुक्लचतुर्थिका।
सम्प्राप्ता साऽऽदिकाले स चकार व्रतमुत्तमम्॥४६॥
ततस्तेन प्रविख्यातं कृतं भूमितले नृप।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि॥४७॥
व्रताचरणपुण्येन वृष्टिस्तत्र बभूव च।
सर्वे हर्षयुता लोका गणेशभजने रताः॥४८॥
गणेशभजनं सोमश्चकार प्रेमसंयुतः।
गणेशप्रीतये तत्राऽकरोद् देवालयं तथा॥४९॥
महामौल्यं नृपाध्यक्षः स्थापयामास विघ्नपम्।
गणेशं वरदाख्यं सोऽपूजयन्नित्यमादरात्॥५०॥
पुत्रपौत्रयुतो राजा स चक्रे राज्यमुत्तमम्।
लोकाः सर्वे सुखे मग्ना रोगवन्ध्यत्ववर्जिताः॥५१॥
स्वधर्मनिरता नित्यमभजन् गणनायकम्।
न गणेशसमं किञ्चिद्धारयामासुरादरात्॥५२॥
सोमश्चान्ते गणेशानं ययौ लोकसमन्वितः।
स्वानन्दे तं प्रणम्याऽसौ ब्रह्मभूतो बभूव ह॥५३॥
एतत्ते कथितं भूप तथाऽन्यच्छृणु सुन्दरम्।
चरित्रं व्रतसम्भूतं सर्वपापप्रणाशनम्॥५४॥
कोऽप्यन्त्यजो विदर्भे वै कौण्डिन्ये नगरेऽवसत्।
भानुनामा महापापी दुष्टकर्मपरायणः॥५५॥
परस्त्रीलम्पटोऽत्यन्तं मद्यद्यूतरतः सदा।
मार्गे जनान् जघानाऽसौ द्रव्यलोभी विशेषतः॥५६॥
जीवं दृष्ट्वा दुष्टकर्मा जघान स च भूमिप।
कार्यहीनतया पापी ब्राह्मणानां वधे रतः॥५७॥
इत्यादिदोषबाहुल्ययुक्तः परमदारुणः।
कदाचिद्दैवयोगेन वने बभ्राम सोऽन्त्यजः॥५८॥
तस्मिन् दिने समायाता माघी शौक्ली चतुर्थिका।
तत्रान्नजलहीनोऽयं पर्वतान्तरगोऽभवत्॥५९॥
न प्राप्तवान् वने किञ्चिद् दुष्टस्तेन सुदुःखितः।
क्षुधार्तस्तृष्णया युक्तस्तत्रैव निशि संस्थितः॥६०॥
प्रभाते विमले सद्यः समुत्थाय गृहागतः।
तृषितः स जलं तत्र पपावत्यन्तमादरात्॥६१॥
ततोऽकस्मात् सुदुःखेन वमित्वा तज्जलं नृप।
ममार तं गृहीत्वा ते गाणेशा गणपं ययुः॥६२॥
गणेशदर्शनेनैव निष्पापो ज्ञानसंयुतः।
सायुज्यं गणनाथस्य लेभे वै तत्प्रभावतः॥६३॥
अज्ञानव्रतजेनैव पुण्येनान्त्यजजातिजः।
ब्रह्मभूतो महापापी बभूवे सूर्यवंशज॥६४॥
एतादृशी महापुण्या चतुर्थी शुक्लगा मता।
माघी तस्याश्च माहात्म्यं कथितुं न क्षमो भवेत्॥६५॥
एवं नाना जना भूप ब्रह्मभूता बभूविरे।
कथितुं न प्रशक्यं यच्चरित्रं तत्समुद्भवम्॥६६॥
माघे शुक्लचतुर्थ्यां यो महिमानं श‍ृणोति चेत्।
पठेद् वा तस्य भो राजन् सिद्धिदं सुभविष्यति॥६७॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते माघशुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः॥४-१२॥