नामैकादशोऽध्यायः—पौष-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

श्रुतं यन् मार्गशुक्लस्थचतुर्थी संज्ञितं मया।
व्रतं तेन महाभाग सन्तृप्तो गुरुसत्तम॥१॥
अधुना पौषमासे या चतुर्थी वरदायिनी।
तस्या माहात्म्यमेवं मे ब्रूहि त्वं मुनिसत्तम॥२॥

वसिष्ठ उवाच

श‍ृणु राजंश्च माहात्म्यं सङ्क्षेपेण वदाम्यहम्।
विस्तरेण तु को वक्तुं समर्थः प्रभवेद् भुवि॥३॥
अवन्तीनगरीमध्येऽवसत्तु ब्राह्मणोत्तमः।
सुदन्त इति विख्यातः सर्वशास्त्रविशारदः॥४॥
राज्ञः पुरोहितः श्रेष्ठः सदा नीतिपरायणः।
धर्मशास्त्रानुसारेण राजानमप्यबोधयत्॥५॥
राजा बृहद्रथो नाम तदाज्ञावशगोऽभवत्।
पालयामास भूमिं स नानाधर्मकरः परः॥६॥
सुदन्तस्याऽभवद् भार्या नाम्ना ख्याता विलासिनी।
बभूव कर्मदोषेण वन्ध्या सा वै पतिव्रता॥७॥
अपत्यं सुषुवे सा यज्जातमात्रं मृतं भवेत्।
तदर्थं व्रतदानादिधर्मं चक्रे च स द्विजः॥८॥
नाऽभवत्तस्य तदपि पुत्रः परमसौख्यदः।
विप्रोऽतिदुःखितः सस्त्रीको जगाम वनं ततः॥९॥
बभ्राम भ्रान्तचित्तोऽसौ यत्र तत्र महामतिः।
मरणे निश्चयं कृत्वा तपोयुक्तो बभूव ह॥१०॥
तत्राऽऽजगाम योगीन्द्रो वामदेवः प्रतापवान्।
यदृच्छाविचरंस्तेन दृष्टः सन्नमितोऽभवत्॥११॥
पूजयित्वा महात्मानं वामदेवं कृताञ्जलिः।
जगाद खेदसंयुक्तः सुदन्तो योगिसत्तमम्॥१२॥

सुदन्त उवाच

वामदेव च मे धन्यं दुःखितस्य तपो वयः।
ज्ञानादिकं विशेषेण त्वत्पादपद्मदर्शनात्॥१३॥
वन्ध्योऽहं मुनिशार्दूल का गतिर्मे भविष्यति।
मृतस्य स्वर्गहीनस्य वद योगीन्द्रसत्तम॥१४॥

वामदेव उवाच

शुणु द्विज महाभाग त्वं सदा धर्मसंयुतः।
तथाऽपि पापचारी त्वं येन जातः श‍ृणुष्व तत्॥१५॥
अवन्तीपुरपालस्य आदरात्त्वं पुरोहितः।
राज्ञा कृतं महत्पापं यत्तदेव त्वया कृतम्॥१६॥
चतुर्थीव्रतलोपश्च बभूवे भूमिमण्डले।
चतुर्वर्गफलैर्हीना जाता भूवासिनो जनाः॥१७॥
धर्मस्याऽऽचरणं पूर्णं कृतं राज्ञा तथा त्वया।
निष्फलं व्रतलोपेन तेन त्वं दुःखितोऽधुना॥१८॥
एवं श्रुत्वा वचो रम्यं वामदेवस्य धीमतः।
विस्मितस्तं सुदन्तोऽसौ जगाद विनयान्वितः॥१९॥

सुदन्त उवाच

कीदृशं तद्व्रतं तात वद मे हितकारकम्।
चतुर्णां पुरुषार्थानां साधकं कथमाभवत्॥२०॥
तेन हीनो नरो यस्तु स कथं फलहीनकः।
कर्मणस्तत् समाचक्ष्व दयासागर मानद॥२१॥

वसिष्ठ उवाच

एवं पृष्टो महायोगी तज्जगाद सविस्तरम्।
माहात्म्यं सकलं तस्मै स श्रुत्वा विस्मितोऽभवत्॥२२॥
पुनः पप्रच्छ तं विप्रो हर्षयुक्तेन चेतसा।
गणेशज्ञानबोधार्थं गाणपत्यं महामुनिम्॥२३॥

सुदन्त उवाच

कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम्।
ज्ञात्वा तं प्रभजिष्यामि नित्यं भक्तिसमन्वितः॥२४॥
एवं पृष्टो महायोगी वामदेवस्तमब्रवीत्।
गणेशबोधदाने स कुशलः सर्वपारगः॥२५॥

वामदेव उवाच

सुदन्त श‍ृणु विप्रर्षे गाणेशं ज्ञानमुत्तमम्।
गाणपत्यो येन भक्तिभावितो भविताऽसि भोः॥२६॥
अहं पुरा तपोनिष्ठस्त्वभवं यत्नसंयुतः।
तपसा मे महाभाग व्याप्तं सर्वं चराचरम्॥२७॥
ततो मया तपस्त्यक्तं योगार्थं ब्राह्मणोत्तम।
शमे दमे परेणान्तर्निष्ठेन मनसो जयात्॥२८॥
योगभूमिक्रमेणाऽहं कालेन महता द्विज।
सहजे संस्थितो भूत्वा यत्र तत्राऽचरं तु च॥२९॥
सहजं मोहहीनं यत् स्वाधीनत्वसमायुतम्।
दृष्ट्वा शान्त्यर्थमत्यन्तं तत् त्यक्तं च मया ततः॥३०॥
सन्धृतं मनसि ब्रह्म मनोवाणीविवर्जितम्।
कथं स्वाधीनता तत्र निर्मोहश्च प्रवर्तते॥३१॥
अधुना किं मया कार्यं विचार्य शरणं गतः।
शङ्करं योगिवन्द्यं तं शैवोऽहं प्रणतोऽभवम्॥३२॥
शैवमार्गे रतं नित्यं दृष्ट्वा हर्षसमन्वितः।
शम्भुः प्रोवाच मां विप्र स्थीयतां मुनिसत्तम॥३३॥
किमर्थमागतस्तात वामदेव महामते।
वद मे सकलं वृत्तं करिष्यामि प्रियं च ते॥३४॥
शिवस्य वचनं श्रुत्वा संस्थितोऽहं कृताञ्जलिः।
अवदं तं महादेवं भक्तवाञ्छासुरद्रुमम्॥३५॥
सहजं यत्परं ब्रह्म शैवं स्वेच्छामयं प्रभो।
तस्मात् परं न विद्येत तथाऽपि नुद संशयम्॥३६॥
ब्रह्मणि ब्रह्मभूतस्य स्वेच्छा तत्र कुतो भवेत्।
स्वाधीनता दोषयुक्तं सहजं न परं मतम्॥३७॥
अतः शान्त्यर्थमेव त्वामहं प्रष्टुं समागतः।
योगशान्तिप्रदं पूर्णं वद मां करुणानिधे॥३८॥

वसिष्ठ उवाच

वामदेववचः श्रुत्वा हर्षितः शङ्करोऽब्रवीत्।
तं पुनः सर्वयोगज्ञो गाणपत्यस्वभाववान्॥३९॥

श्रीशिव उवाच

योगशान्तिप्रदं पूर्णं गणेशं विद्धि भो मुने।
जानीहि न परं ब्रह्म सहजं योगसेवया॥४०॥
स्वानन्दाद्यत् समुत्पन्नमसत्यं सत्यरूपकम्।
समं च सहजं विद्धि चतुर्धाऽसौ विभज्यते॥४१॥
चतुर्णामत्र संयोगे स्वानन्दः परिकीर्तितः।
अयोगे नैव संयोगः केषाञ्चिद्ब्रह्मणां भवेत्॥४२॥
गकाराक्षरगं ज्ञानं विद्धि तन्निजबोधतः।
णकाराक्षरगं ज्ञानं निवृत्या लभ्यते जनैः॥४३॥
तयोः स्वामी गणेशानो योगरूपः प्रकीर्तितः।
शान्त्याऽसौ लभ्यते विप्र शान्तिभ्यः शान्तिदायकः॥४४॥
चित्तं पञ्चविधं विद्धि बुद्धिरूपं न संशयः।
चित्ते मोहात्मिका सिद्धिर्माये ते परिकीर्तिते॥४५॥
तयोर्बिबं गणेशश्च बिम्बिभावं त्यज प्रभो।
अधुना गणनाथस्त्वं भविष्यसि न संशयः॥४६॥
एवमुक्त्वा महादेवस्तस्मै मन्त्रं ददौ पुनः।
एकाक्षरं गणेशस्य सविधिं करुणायुतः॥४७॥
तं प्रणम्य महेशानं वने यातोऽहमादरात्।
तत्रैव गणनाथं तमभजं भक्तिसंयुतः॥४८॥
एकाक्षरविधानेन सन्तुष्टो गणनायकः।
योगशान्तिं ददौ पूर्णां भक्तवात्सल्यकारणात्॥४९॥
ततोऽहं योगिवन्द्यश्च जातः सर्वत्र सम्मतः।
तथाऽपि विघ्नदहनमभजं नित्यमादरात्॥५०॥
गतेषु दशवर्षेषु गणाधीशः समाययौ।
ममाश्रमं वरं दातुमुवाच घननिःस्वनः॥५१॥

गणेश उवाच

वामदेव महाभाग वरं वृणु हृदीप्सितम्।
तव दास्यामि भक्त्याऽहं सन्तुष्टो योगिसत्तम॥५२॥
गणेशस्य वचः श्रुत्वा त्यक्त्वा ध्यानं समुत्थितः।
प्रणम्य तं गणेशं सम्पूज्य स्तोतुं प्रचक्रमे॥५३॥

वामदेव उवाच

गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने।
सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः॥५४॥
मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक।
ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः॥५५॥
आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते।
आदिमध्यान्तरूपाय शङ्करप्रियसूनवे॥५६॥
नानामायाधरायैव मायिभ्यो मोहदायिने।
मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः॥५७॥
विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते।
ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः॥५८॥
सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते।
महोदराय देवेन्द्रपाय ज्येष्ठाय वै नमः॥५९॥
महोग्राय महेशाय विष्णवे प्रभविष्णवे।
अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे॥६०॥
पुरुषाय प्रकृतये गुणेशाय गुणात्मने।
एकानेकात्मकायैव विघ्नकर्त्रे नमो नमः॥६१॥
भक्तेभ्यः सर्वदात्रे ते ब्रह्मणां पतये नमः।
योगाय योगनाथाय योगिनां पतये नमः॥६२॥
स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम्।
मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते॥६३॥
सहसैवं संस्तुवतस्तस्य भक्तिरसेन च।
रोमोद्गमः प्रादुरासीत् कण्ठरोधो बभूव ह॥६४॥
उवाच वामदेवं स नृत्यन्तं विघ्ननायकः।
वरं वृणु महाभाग यत्ते चित्ते स्थितं परम्॥६५॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम्।
श‍ृणोति यः पठति चेत्तस्मै योगप्रदं तथा॥६६॥
भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम्।
धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम्॥६७॥
गणेशवचनं श्रुत्वा तं जगाद महामुनिः।
वामदेवः प्रसन्नात्मा ब्रह्मेशं ब्रह्मभावितः॥६८॥
भक्तिं देहि गणाधीश गाणपत्यां विशेषतः।
नान्यं याचे वरं देव यदि तुष्टोऽसि विघ्नप॥६९॥
तथेति तमुवाचैव गणेशोऽन्तर्दधे स्वयम्।
वामदेवः प्रसन्नात्मा गाणपत्यो बभूव ह॥७०॥
तदादि शान्तिमापन्नस्त्वहं विप्र महामते।
अतस्त्वं गणराजं तं भज शान्तिमवाप्स्यसि॥७१॥
एकाक्षरं महामन्त्रं सुदन्ताय ददौ ततः।
सविधिं वामदेवः सोऽन्तर्धानमकरोन् मुनिः॥७२॥
सुदन्तो विस्मितो भूत्वा ययौ स्वस्थानमुत्तमम्।
राज्ञा सम्मानितः सोप्यभजत्तं गणनायकम्॥७३॥
बृहद्रथाय वृत्तान्तं कथयामास भो नृप।
तदाज्ञया नृपः सद्यो घोषयामास तद्व्रतम्॥७४॥
तत्रादौ पौषमासे या चतुर्थी शुक्लगाऽऽगता।
तां चकार द्विजः सद्यो जनै राज्ञा पुरः स्थितैः॥७५॥
व्रताचरणमात्रेण गर्भयुक्ता बभूव ह।
मुनिपत्नी सुतं लेभे ज्ञानयुक्तं चिरायुषम्॥७६॥
ततो भूमितले सर्वे चक्रुर्व्रतमनुत्तमम्।
शौक्लं कार्ष्णं विशेषेण चतुर्थीसंज्ञितं नृप॥७७॥
सर्वे रोगादिभिर्हीना जाताः पुत्रादिसंयुताः।
धनधान्यादिभिर्युक्ता अन्ते स्वानन्दगा बभुः॥७८॥
सुदन्तो योगिवन्द्यश्च बभूवे योगसेवया।
राजाऽपि ज्ञानसंयुक्तो गाणपत्यो बभूव ह॥७९॥
पौषशुक्लचतुर्थीजमेतत्ते कथितं व्रतम्।
राजन् सर्वार्थदं पूर्णं पुनस्त्वं श‍ृणु मानद॥८०॥
वैश्यो मार्गे स्थितः सोऽपि श्रमयुक्तो धनप्रियः।
तत्र चोरैः समायातैर्लुण्ठितं तैर्धनं महत्॥८१॥
तेषां शस्त्राभिघातेन पपात धरणीतले।
वैश्यो वने दुःखितश्च विललाप भृशातुरः॥८२॥
दैवयोगेन सा देवी चतुर्थी शुक्लगा गता।
पौषी तस्यां जलाद्यैश्च हीनस्तत्र बभूव सः॥८३॥
रात्रौ जागरणं तस्य सञ्जातं पीडया तदा।
पञ्चम्यां स मृतः पापी धनलुब्धो महामते॥८४॥
अज्ञातव्रतजेनैव महिम्ना सोऽपि भूपते।
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह॥८५॥
एवं जना व्रतेनैव मुक्ताः संसारसागरात्।
इह भुक्त्वाऽखिलान् भोगान् वर्णितुं तन्न शक्यते॥८६॥
इदं पौषचतुर्थ्यास्तु माहात्म्यं यः श‍ृणोति चेत्।
पठेद्वै तस्य भो राजन् सर्वदं प्रभविष्यति॥८७॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः॥४-११॥