दशमोऽध्यायः—मार्गशीर्ष-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते।
मार्गशीर्षे च या शुक्ला तां मे वद मुने यतः॥१॥
वसिष्ठ उवाच
अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम्।
मार्गशीर्षे चतुर्थ्यां यः शुक्लायामभवन्नृप॥२॥
काशीपतिः पुरा राजा पुण्यकीर्तिर्बभूव ह।
अजातशत्रुको नाम सर्वशास्त्रविशारदः॥३॥
देवद्विजातिथिप्रेप्सुर्नानाधर्मपरायणः।
प्रजानां पालने सक्तो यथाशास्त्रेण मानदः॥४॥
तत्रैव नारदोऽकस्मान्नृपं द्रष्टुं समागतः।
तं प्रणम्य महात्मानं पूजयामास भक्तितः॥५॥
स्वयं पादस्य संवाहं चकार नृपसत्तमः।
उवाच तं प्रहर्षेण नारदं सर्वगं परम्॥६॥
अजातशत्रुरुवाच
धन्यं मे जन्म पुत्रादि राज्यं निहतकण्टकम्।
धन्यौ च जनकौ ज्ञानं त्वदङ्घ्रियुगदर्शनात्॥७॥
सर्वसारं वदस्व त्वं योगशान्तिप्रदायकम्।
येन संसारदुःखेभ्यो मुच्यते मानवः क्षणात्॥८॥
ततस्तं नारदो योगी गाणपत्याग्रणीर्नृप।
जगाद हर्षसंयुक्तो वाक्यं सारमयं हसन्॥९॥
नारद उवाच
सम्यक् पृष्टं त्वया राजन् सर्वेभ्यो ब्रह्मदं परम्।
शृणु ते कथयिष्यामि योगं शान्तिप्रदायकम्॥१०॥
ब्रह्म नानाविधं वेदे वर्णितं पात्रभेदतः।
न मुख्यं ब्रह्मभूतत्वं तदेव भवति प्रभो॥११॥
ब्रह्मणस्पतिनामानं गणेशं भज भावतः।
चित्तवृत्तिनिरोधेन चिन्तामणिर्भविष्यसि॥१२॥
गणेशोऽहं न सन्देहो मम तत्र कथं भवेत्।
संयोगायोगकं राजन् तेन शान्तिमवाप्स्यसि॥१३॥
तस्य व्रतं महाभाग चतुर्थीसंज्ञकं महत्।
राज्ये नष्टे च तेन त्वं नारकी प्रभविष्यसि॥१४॥
धर्मार्थकाममोक्षाणां प्रदं पूर्णं प्रकीर्तितम्।
चतुर्थीसंज्ञकं राजन् वरदं सङ्कटं मतम्॥१५॥
नानाकर्माणि कुर्वन्ति नराः सर्वार्थसिद्धये।
चतुर्थीव्रतहीनाश्चेन्निष्फलाः प्रभवन्ति ते॥१६॥
इत्युक्त्वा तं महायोगी नारदः करुणायुतः।
माहात्म्यं कथयामास चतुर्थीसम्भवं नृप॥१७॥
ततस्तं नृपवर्यः स प्रणम्य भावसंयुतः।
पप्रच्छ सर्वमार्गज्ञं गणेशोपासनं पुनः॥१८॥
अजातशत्रुरुवाच
ब्रह्मणस्पतिमाहात्म्यं श्रुतं मया महामते।
तस्योपासनमार्गं मे वद सर्वज्ञ ते नमः॥१९॥
नारद उवाच
एकाक्षरविधानेन भज ढुण्ढिं विनायकम्।
तेन साध्यो गणेशस्ते प्रत्यक्षश्च भविष्यति॥२०॥
तस्मै स विधिना सर्वं गणेशोपासनं ददौ।
मन्त्रमेकाक्षरं साङ्गं ततश्चान्तर्हितोऽभवत्॥२१॥
तत्राऽऽदौ मार्गशीर्षस्था सम्प्राप्ता शुक्लगा नृप।
चतुर्थी सा कृता तेनोपोषणेन यथाविधि॥२२॥
जनैः सर्वैस्तथा राजन् कृता सर्वप्रदायिनी।
ततस्तेन च सर्वत्र प्रशस्ता सुकृताऽभवत्॥२३॥
शुक्लां कृष्णां चतुर्थीं ये न कुर्वन्ति नराधमाः।
स्त्रियश्चेत्ताडनीयास्ते महापापिन एव च॥२४॥
ढुण्ढिराजं नृपाध्यक्षो नित्यं सम्पूज्य यत्नतः।
भक्त्याऽभजत् सम्बभूव योगीन्द्रो योगिसम्मतः॥२५॥
ततो बहुगते काले प्रत्यक्षः स गजाननः।
बभूव तस्य भूपस्य वरं ब्रूहि तमब्रवीत्॥२६॥
स्तुतः सम्पूजितस्तेन ढुण्ढिराजस्तुतोष ह।
गाणपत्यं चकाराऽसौ नृपं चाजातशत्रुकम्॥२७॥
ईप्सितं तं वरं दत्त्वा तत्रैवान्तरधीयत।
ढुण्ढिराजं तमभजत् राजेन्द्रोऽनन्यचेतसा॥२८॥
अन्ते नागरसंयुक्तो जगाम गणपं नृपः।
सर्वैर्बभूव च ब्रह्मभूतो वै योगिसम्मतः॥२९॥
एवं शुक्लचतुर्थ्यां ते मार्गशीर्षेऽभवन् महत्।
माहात्म्यं कथितं राजन् सङ्क्षेपेण न संशयः॥३०॥
अन्यत् कथान्तरं भूप शृणु सर्वभयापहम्।
वेश्याया व्रतसंयोगाद्ब्रह्मभूयकरं महत्॥३१॥
मिथिलायां कदाचित् का वेश्या नरविमोहिनी।
आगता तां निरीक्ष्यैव मोहिताः सकला नराः॥३२॥
राज्ञा सम्मानिताऽत्यन्तं तत्र वासमरोचयत्।
कदाचित्तीर्थगा सा वै सन्दृष्टा रक्षसा पुरः॥३३॥
तां सङ्गृह्य ययौ रक्षः स्ववासं हर्षसंयुतः।
सा तं दृष्ट्वा भयोद्विग्ना विललाप भृशातुरा॥३४॥
रक्षसा सान्त्विता तत्र न शोकं साऽत्यजत् कदा।
तस्मिन् काले चतुर्थी वै शुक्ला मार्गे समागता॥३५॥
अतिशोकतया राजन्न बभक्ष जलादिकम्।
पञ्चम्यां सा मृता तत्र भययुक्तेन चेतसा॥३६॥
ततो गणेशदूतेन नीता स्वानन्दके पुरे।
ब्रह्मभूता च सा जाता व्रतपुण्यप्रभावतः॥३७॥
अज्ञानेन कृतं चैतत् वरदाख्यं व्रतं महत्।
ब्रह्मसायुज्यदं प्रोक्तं किं पुनर्ज्ञानभावतः॥३८॥
मार्गशीर्षगतायाश्च शुक्लायाः कुरुते नरः।
चतुर्थ्या लभते सोऽपि सर्वार्थं संशृणोति यः॥३९॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मार्गशीर्षशुक्लचतुर्थीवर्णनं नाम दशमोऽध्यायः॥४-१०॥