नवमोऽध्यायः—कार्तिक-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

वसिष्ठ उवाच

कार्तिके मासि शुक्ला या चतुर्थी सर्वसिद्धिदा।
तां श‍ृणुष्व महाभाग इतिहाससमन्विताम्॥१॥
सूर्यवंशोद्भवो राजा सुधन्वा नीतिसंयुतः।
शस्त्रास्त्रबलसंयुक्तो बभूव परमद्युतिः॥२॥
धर्मशीलो वदान्यश्च सत्यवाक् साधुसम्मतः।
देवविप्रातिथिप्राज्ञपञ्चयज्ञपरायणः॥३॥
भार्या कलावती तस्य बभूवे रूपशालिनी।
पतिव्रता महोदारा धर्मशीला विशेषतः॥४॥
जित्वा भूमण्डलं सर्वं राजा तेजस्विनां वरः।
पालयामास पृथ्वीं स नित्यं धर्मपरायणः॥५॥
सामन्ता वशगा यस्य सैन्यं स्म गणनातिगम्।
सम्पच्च धनदेनैव तुल्या सर्वत्र सम्बभौ॥६॥
अर्धायुषा समायुक्तो बभूव नृपसत्तमः।
अकस्मात् कुष्ठसंयुक्तः कीटैः सम्पीडितोऽभवत्॥७॥
पूयशोणितघर्मौघैर्व्याप्तो दुर्गन्धिसंयुतः।
न चाऽलभत् सुखं किञ्चिच्छूलप्रोतो यथा नरः॥८॥
औषधानि विशेषेण सिषेवे यत्नसंयुतः।
नानामन्त्रप्रयोगादि कारयामास मानवैः॥९॥
अनुष्ठानं द्विजैः सोऽपि वेदमन्त्रैः सुखप्रदैः।
अकारयत्तथा तेभ्यो न फलं चाभवत् कदा॥१०॥
ततस्तीर्थानि बभ्राम स्नानदानपरायणः।
तथाऽपि रोगसंयुक्तोऽधिकं राजा बभूव ह॥११॥
ततो निवृत्तिमापन्नो जगाद सचिवान्नृपः।
राज्यं मे परिपाल्यं वै यावदागमनं पुनः॥१२॥
सान्त्वयित्वा स सस्त्रीकः सुहृदः सर्वनागरान्।
वनं ययौ नृपश्रेष्ठो बभ्राम यत्र तत्र च॥१३॥
ततो गणपतिं राजा सस्मार दुःखसंयुतः।
विघ्नहीनार्थमेवं स तत्र चित्रं बभूव ह॥१४॥
अकस्मान् मुनिशार्दूलः पुलस्त्यस्तत्र चाययौ।
तं दृष्ट्वा हर्षसंयुक्तो ननाम प्रियया सह॥१५॥
कृत्वा करपुटं राजोवाच तं मुनिनायकम्।
किं पुण्यं मे पुरा चीर्णं येन दृष्टो भवान् मुने॥१६॥
धन्यं जन्म तथा ज्ञानं जनको जननी च मे।
तपो धर्मादिकं सर्वं त्वदङ्घ्रियुगदर्शनात्॥१७॥
एवं विवदमानं तं जगाद मुनिसत्तमः।
किमर्थं राजनीतिज्ञ वने त्वं च समागतः॥१८॥
एवं पृष्ट्वा स राजानं वृक्षच्छायासमाश्रितः।
पुलस्त्य उपविश्याथ तमुपावेश्य सम्बभौ॥१९॥
ततो राज्ञा स्वकीयो वै वृत्तान्तः कथितोऽभवत्।
जगाद प्रणनामैवं पुनस्तं हर्षसंयुतः॥२०॥

सुधन्वोवाच

दयाकराश्च योगीन्द्राः पुराणेषु वदन्ति यत्।
तदेव सत्यमभवत् त्वां दृष्ट्वा दयया युतम्॥२१॥
दुःखितं मां विदित्वा त्वं संस्थितो मुनिसत्तम।
साक्षात् प्रजापतिः प्रोक्तः पुलस्त्यो ब्रह्मणः सुतः॥२२॥
सर्वज्ञस्त्वं महायोगिन् न्यायं मे वद मानद।
धर्मयुक्ततया राज्यं करोमि स्म निरन्तरम्॥२३॥
पूर्वजन्मकृतं मे किं महापापं समागतम्।
येनाऽहं कुष्ठसंयुक्तोऽभवं पश्य दयायुतः॥२४॥

वसिष्ठ उवाच

सुधन्वनो वचः श्रुत्वा तमुवाच महामुनिः।
अत्यन्तं पीडितं दृष्ट्वा करुणायुतचेतसा॥२५॥

पुलस्त्य उवाच

इहजन्मकृतं पापं बुद्ध्यसे न नराधम।
तेन कुष्ठयुतो जातः श‍ृणु तत्ते वदाम्यहम्॥२६॥
तव राज्ये नृपश्रेष्ठ व्रतं गाणेश्वरं महत्।
नष्टं चतुर्थीसंज्ञं यत् सर्वसिद्धिप्रदं परम्॥२७॥
चतुर्णां पुरुषार्थानां साधनं सर्वसम्मतम्।
तेन प्रोक्ता चतुर्थी सा वरदा सङ्कटा मता॥२८॥
सर्वादौ न कृतं चेद्वै भवेत् सर्वं सुनिष्फलम्।
कृतं कर्म नरेणाऽपि चतुर्वर्गविहीनकम्॥२९॥
वर्णैः सर्वैः कृतं पापं राजानमुपतिष्ठति।
तेन त्वं कुष्ठसंयुक्तोऽधुना जातो नराधम॥३०॥
मरिष्यसि यदा राजंस्तदा ते नरके गतिः।
भविष्यति न सन्देहश्चतुर्वर्गविहीनता॥३१॥
पुलस्त्यवचनं श्रुत्वा दुःखयुक्तो महीपतिः।
उवाच तं महाप्राज्ञं कृताञ्जलिपुटोऽभवत्॥३२॥

सुधन्वोवाच

भगवन् सर्वतत्त्वज्ञ त्वया यत् कथितं वचः।
तदेव सत्यरूपं वै मया ज्ञातं न संशयः॥३३॥
अधुना तद्व्रतं ब्रूहि कीदृशं कस्य पूजनम्।
कस्मिन् काले प्रकर्तव्यं सर्वसिद्धिप्रदायकम्॥३४॥
कुष्ठनाशार्थमेवं मे वदोपायं महाप्रभो।
प्रायश्चित्तं करिष्यामि व्रतलोपप्रदोषहृत्॥३५॥
एवं पृष्टो महायोगी पुलस्त्यो हर्षसंयुतः।
तं जगाद गणेशाय नम इत्युपसंस्मरन्॥३६॥

पुलस्त्य उवाच

अज्ञानेन कृतं दोषं प्रायश्चित्तेन हन्ति तम्।
नरस्तस्मात्त्वमेवाशु व्रतं कुरु जनैः सह॥३७॥
तेन कुष्ठविहीनस्त्वं सुरूपः प्रभविष्यसि।
अनुतापाच्च ते राजन् पापं नष्टं न संशयः॥३८॥
इत्युक्त्वा तं ततो योगी जगाद व्रतसम्भवाम्।
कथां सर्वां स संश्रुत्य हर्षयुक्तो नृपोऽभवत्॥३९॥
उवाच तं मुनिश्रेष्ठं प्रणम्य च पुनः पुनः।
धन्यं मे जन्म भो नाथ श्रुतं येन महद्व्रतम्॥४०॥
नानेन सदृशं किञ्चिन् मया ज्ञातं महामते।
त्वत्तो वद महाप्राज्ञ गणेशस्य स्वरूपकम्॥४१॥
तज् ज्ञात्वा सर्वभावेन भजिष्यामि महामुने।
नित्यं भक्तिसमायुक्तो देवदेवेशमादरात्॥४२॥
एवं पृष्टः स राजानं वचनं प्रजगाद ह।
पुलस्त्यः सर्वभावज्ञो गाणपत्यो महायशाः॥४३॥

पुलस्त्य उवाच

सुधन्वञ्छृणु मे वाक्यं गणेशज्ञानकारकम्।
ब्रह्मभूयमयं पूर्णं योगाकारं विशेषतः॥४४॥
पुराऽहं योगशान्त्यर्थं नानायोगपरायणः।
असाधयञ्छमेनैव दमेन मनसो जयात्॥४५॥
तथाऽपि शान्तिहीनोऽहं शरणं शङ्करं गतः।
तं प्रणम्य महात्मानमपृच्छं योगमुत्तमम्॥४६॥
ततस्तेन समाख्यातं तच्छृणुष्व नराधिप।
येन त्वं गाणपत्यश्च साधनेन भविष्यसि॥४७॥

श्रीशिव उवाच

योगशान्तिमयं विद्धि गणेशं भज भावतः।
मनोवाणीविहीनं तं मनोवाणीमयं न च॥४८॥
मनोवाणीमयं सर्वं सम्प्रज्ञातसमुद्भवम्।
गकाराक्षरगं विद्धि पश्य वेदे महामते॥४९॥
मनोवाणीविहीनं यदसम्प्रज्ञातगं मतम्।
णकाराक्षरसम्भूतं नाम्नो गणपतेर्यदि॥५०॥
तयोः स्वामी गणेशानः शान्त्या योगेन लभ्यते।
चित्तभूमिनिरोधेन तं भजस्व विनायकम्॥५१॥
एवमुक्त्वा महादेवो विरराम विशेषवित्।
तं प्रणम्य वनं गत्वाऽसाधयं तं सुयत्नतः॥५२॥
अष्टाक्षरेण मन्त्रेण ध्यात्वा गणपतिं नृप।
अतोषयं विशेषेण चित्तनिग्रहभावतः॥५३॥
ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमात्मनि।
तथाऽपि मन्त्रराजं तमजपं पूजने रतः॥५४॥
एकविंशतिवर्षेषु गतेषु स विनायकः।
आययौ मे वरं दातुं भक्तानुग्रहकारकः॥५५॥
तं दृष्ट्वा प्रणतो भूत्वाऽपूजयं तु यथाविधि।
स्तौमि नामाष्टकेन स्म कौथुमेन महाप्रभुम्॥५६॥
गाणपत्यं स मां कृत्वा ययौ स्वानन्दके पुरे।
तदारभ्याहमत्यन्तं भजामि गणनायकम्॥५७॥
एवमुक्त्वा महीपालं तथा दशरथ स्वयम्।
मन्त्रमष्टाक्षरं तस्मै ददौ विधिसमन्वितम्॥५८॥
तेन स्तुतो महायोगी पुलस्त्योऽन्तर्दधे प्रभुः।
राजा स्वनगरे गत्वा कार्तिके हर्षितोऽभवत्॥५९॥
जनैः सर्वैर्महाभागश्चकार व्रतमुत्तमम्।
कार्तिके शुक्लपक्षस्य चतुर्थ्यां गणपं स्मरन्॥६०॥
पञ्चम्यां पारणं चक्रे राजाऽसौ जनसंयुतः।
ब्राह्मणेभ्यो ददौ दानं सर्वान् अन्नैस्त्वतोषयत्॥६१॥
ततः कुष्ठविहीनश्च बभूव स जनाधिपः।
सुरूपः कामदेवेन समः शोभाधरो बभौ॥६२॥
लोका वन्ध्यत्वदोषेण रोगादिभिः प्रपीडिताः।
ते सर्वे दुःखहीनाश्च बभूवुर्व्रतसेवनात्॥६३॥
ततस्तेन नृपेणाऽथ सर्वत्र भूमिमण्डले।
प्रकाशितं प्रयत्नेन व्रतं गाणेश्वरं नृप॥६४॥
ततः शुक्लां तथा कृष्णां चतुर्थीं चक्रिरे जनाः।
तेनाऽऽनन्दसमायुक्ता बुभुजुर्विविधं सुखम्॥६५॥
ततः सुधन्वा स्थाप्य स्वं पुत्रं राज्ये महामतिः।
एकान्ते संस्थितो भूत्वाऽभजत्तं गणपं सदा॥६६॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह।
तथा जनाश्च सर्वे ते स्वानन्दस्था बभूविरे॥६७॥
एवं ते कथितं राजन्नथो श‍ृणु महामते।
महिमानं व्रतस्यैव सर्वसिद्धिकरस्य ह॥६८॥
माहिष्मत्यां च चाण्डालो वसन् कः पापकारकः।
प्राप्य कार्तिकगां शुक्लां चतुर्थीं स वने गतः॥६९॥
तत्र व्याघ्रेण सन्दृष्टः पलायन् वृक्षमारुहत्।
व्याघ्रो वृक्षतले तत्र संस्थितस्तं प्रतीक्षयन्॥७०॥
तत्र रात्रिर्गता तस्य चाण्डालस्य प्रजागरः।
सम्पूर्णश्चाभवद् भूप पुनश्चित्रं बभूव ह॥७१॥
समागतो महासर्पो वनस्थो वृक्षमारुहत्।
पपात भयभीतः स तं दृष्ट्वा कम्पवेगतः॥७२॥
व्याघ्रेण सङ्गृहीतः स पञ्चम्यां भक्षितोऽभवत्।
स विमानं समारुह्य ययौ स्वानन्दकं पुरम्॥७३॥
अज्ञातव्रतजेनैव पुण्येन गणपं गतः।
दृष्ट्वा योगपरो भूत्वा ब्रह्मभूतो बभूव सः॥७४॥
एवं नृप अपारा वै चतुर्वर्गफलैर्युताः।
ब्रह्मभूताश्च सञ्जाताश्चतुर्थीव्रतकारकाः॥७५॥
कार्तिके शुक्लपक्षस्य चतुर्थ्या महिमा मया।
कथितो लेशतो भूप श्रोतुमिच्छसि किं पुनः॥७६॥
श‍ृणुयाद्यः पठेद् वाऽपि स वै सर्वार्थसिद्धिभाक्।
पुत्रपौत्रादिसंयुक्तः प्रभवेद्गणपप्रियः॥७७॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते कार्तिकशुक्लचतुर्थीवर्णनं नाम नवमोऽध्यायः॥४-९॥