नामाष्टमोऽध्यायः—आश्विन-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

वसिष्ठ उवाच

आश्विने वरदात्री या चतुर्थी शुक्लपक्षगा।
तां श‍ृणुष्व महाभाग सव्रतां सर्वदायिनीम्॥१॥
इतिहासं प्रवक्ष्यामि पुरातनभवं नृप।
व्रतसंयुक्तमाहात्म्यं भवेत् सर्वार्थसाधकम्॥२॥
रैवतान्तरगो राजा कीर्तिमांश्च बभूव ह।
मतो नाम्ना धर्मधरः पूर्णशस्त्रास्त्रपारगः॥३॥
देवविप्रातिथिप्रेप्सुः पञ्चयज्ञपरायणः।
नीतिज्ञः पुत्रवल्लोकान् पालयन् स्वहिते रतः॥४॥
भार्या तस्याऽभवत् साऽपि पातिव्रत्यगुणान्विता।
सर्वलक्षणसंयुक्ता विप्रदेवातिथिप्रिया॥५॥
गजानां च हयानां वै पदातीनां महीपतेः।
रथानां नैव सङ्ख्याऽस्ति धानुष्काणां विशेषतः॥६॥
सप्तद्वीपवतीं पृथ्वीं पालयन् स नराधिपः।
देवादीनां च सङ्ग्रामे ह्यजेयः परवीरहा॥७॥
तस्य वन्ध्यत्वदोषेण नृप पुत्रो बभूव नो।
नानायत्नपरो राजा पुत्रार्थे प्रबभूव ह॥८॥
तीर्थयात्रादिकं सर्वं चकार विधिवन्नृपः।
अनुष्ठानव्रतादीनि देवानां पूजनं तथा॥९॥
एवं नानाविधैः पुण्यैर्न बभूव सुतस्ततः।
राज्यं त्यक्त्वा वने राजा सस्त्रीकः स जगाम ह॥१०॥
तत्र भ्रमणयुक्तः स ददर्श ह महावनम्।
सिंहव्यालादिसंयुक्तं भयदं सर्वजन्मिनाम्॥११॥
दुःखयुक्तः स राजर्षिः प्रवेशं स चकार ह।
वने तत्र मुनिश्रेष्ठं सौभरिं सन्ददर्श च॥१२॥
तं प्रणम्य महाभागः सस्त्रीकः पुरतो मुनेः।
कृताञ्जलिपुटो भूत्वा तस्थौ स नृपसम्मुखः॥१३॥
ततः सौभरिणा सोऽपि सत्कृतो वचनेन च।
निषसादासने तत्र मुनिना दर्शिते नृपः॥१४॥
तमुवाच महाभागं राजानं मुनिसत्तमः।
कोऽसि त्वं वन उग्रे मेऽत्र किमर्थं समागतः॥१५॥
इति पृष्टो महीपालस्तमुवाच सुहर्षितः।
कीर्तिमान् सर्वधर्मज्ञः कृत्वा करपुटं वचः॥१६॥

कीर्तिमानुवाच

द्राविडे वसतिर्मेऽस्ति नगरे सुरसत्तमे।
राज्यं करोमि तत्राऽहं सार्वभौमो महामुने॥१७॥
अपुत्रो दैवयोगेन जातोऽहं मुनिसत्तम।
पुत्रार्थे व्रततीर्थादीन् नानाधर्मान् करोमि वै॥१८॥
राज्यं त्यक्त्वा वने योगिन्नागतः पुत्रकाम्यया।
तत्र ते दर्शनं प्राप्तं सर्वसिद्धिप्रदं प्रभो॥१९॥
तव दर्शनमात्रेण सफलो मे भवो भवेत्।
मातृपित्रादिकं सर्वं धन्यं जातं न संशयः॥२०॥
अधुना ब्रूहि मे नाथ पुत्रप्राप्त्यर्थमादरात्।
उपायं तं चरिष्यामि त्वदाज्ञावशगो मुने॥२१॥
इह जन्मनि भो विप्र न कृतं पापमुल्बणम्।
मया राज्यं कृतं भूमेर्भययुक्तेन चेतसा॥२२॥
तथाऽपि वन्ध्यजो दोषो मया प्राप्तो महामुने।
पूर्वजन्मकृतं पापं ज्ञायते नैव चेतसा॥२३॥
कथयस्व महोग्रं मे पापं सर्वविदां वर।
योगीन्द्रोऽसि महातेजाः साक्षाद्ब्रह्मतनोर्धरः॥२४॥

वसिष्ठ उवाच

एवं विनययुक्तेन राज्ञा पृष्टो महामुनिः।
सौभरिस्तं जगादेदं वचनं गणपप्रियः॥२५॥

सौभरिरुवाच

कृतं त्वया महत्पापं महाराज विशेषतः।
पूर्वजन्मकृतं नैव पापं ते विद्यतेऽधम॥२६॥
तव राज्ये महामूर्ख चतुर्थीव्रतमुत्तमम्।
लयं प्राप्तं विशेषेण व्रतादौ फलदं मतम्॥२७॥
चतुर्थीव्रतमाद्यं यन्मानवेन नराधम।
न कृतं चेद्व्रतानीह निष्फलानि भवन्ति च॥२८॥
विशेषतस्त्वया कर्म नानापुण्यादिकं कृतम्।
चतुर्थीहीनभावेन निष्फलं तद्बभूव ह॥२९॥
चतुर्विधपदार्थानां दात्री सा वरदा मता।
चतुर्विधं तु सङ्कष्टं हरन्ती सङ्कटी मता॥३०॥
भुनक्ति राजा पापं राष्ट्रकृतं शास्त्रसम्मतम्।
जनानां व्रतहीनानां पापभागी भवान् मतः॥३१॥
अतः पापमयी मूर्तिस्त्वमेवात्र न संशयः।
तेन वन्ध्यत्वमापन्नो नराधम न बुद्ध्यसे॥३२॥
सौभरेर्वचनं श्रुत्वा कीर्तिमांस्तं जगाद ह।
विनयेन समायुक्तो भयभीतश्च पार्थिवः॥३३॥

कीर्तिमानुवाच

अज्ञानेन कृतं कर्म मया स्वामिन् सुपापिना।
कीदृशं तद्व्रतं विप्र मह्यं वद विधानतः॥३४॥
पुत्रप्राप्त्यर्थमेवं मे वदोपायं महामते।
येन पापविहीनोऽहं भवामि पुत्रवान् सुखी॥३५॥

सौभरिरुवाच

चतुर्थीव्रतमाद्यं त्वं कुरुष्व नृप नित्यदा।
जनैः सर्वैस्तदा सर्वपापहीनो भविष्यसि॥३६॥
अज्ञानेन करोषि स्म पापं ज्ञात्वाऽनुतापवान्।
व्रताचरणमात्रेण निष्पापः पुण्यभाग् भवेः॥३७॥
इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात्।
ततः सोऽपि महाबुद्धिः पप्रच्छ विनयान्वितः॥३८॥

कीर्तिमानुवाच

कीदृशोऽयं गणाधीशो व्रतं यस्य चतुःपदम्।
ब्रह्मभूयकरं प्रोक्तं भजिष्यामि विशेषतः॥३९॥
ततस्तं मुनिशार्दूलः सौभरिः पुनरब्रवीत्।
माहात्म्यं गणनाथस्य शान्तियोगपदप्रदम्॥४०॥

सौभरिरुवाच

पुराऽहं तपसा युक्तो नानाछन्दपरायणः।
अभवं तत्र देवा वै भयभीता बभूविरे॥४१॥
अहो तपःप्रभावेण जित्वा सर्वं द्विजोत्तमः।
किमिच्छति पदं श्रेष्ठं ज्ञायतेऽस्माभिरेव न॥४२॥
प्रेषयामास सस्त्रीकं ततः कामं सुराधिपः।
तपोभङ्गार्थमेवं मे कामस्तत्र समागतः॥४३॥
उर्वशीसहिताभिश्चाप्सरोभिर्मधुना तथा।
आत्तबाणः स्वयं कामः पीडयामास मां शरैः॥४४॥
अहं तपःप्रभावेण जित्वा कामं सह स्त्रिया।
मोहहीनस्तपस्तत्राऽतपं सुदृढनिश्चयः॥४५॥
ततो मे तपसोग्रेण दाहयुक्तो बभूव ह।
कामः पलाय्य सर्वैस्तं मघवन्तं जगाद सः॥४६॥
ततोऽहं योगमार्गेणाऽन्तर्निष्ठश्चाभवन्नृप।
जडोन्मत्तादिमार्गेषु संस्थितो योगकारणात्॥४७॥
ततः शुको महायोगी गाणपत्यः समागतः।
ममाश्रमे स मां दृष्ट्वा जगादेच्छसि किं मुने॥४८॥
ततस्तं प्रणतो भूत्वा कृताञ्जलिः पुरः प्रभोः।
स्थित्वाऽवदं सुवाक्यं तच्छृणु राजन् सुसिद्धिदम्॥४९॥
मम श्रेष्ठेन भाग्येन त्वं प्राप्तोऽसि महायशाः।
शान्तिं वद महायोगिन् यया शान्तो भवाम्यहम्॥५०॥

श्रीशुक उवाच

चित्तं पञ्चविधं त्यक्त्वा चित्तं कृत्वा च तन्मयम्।
निरोधेनैव भूमीनां शान्तिं प्राप्स्यसि निश्चितम्॥५१॥
चिन्तामणिं भजस्व त्वं मन्त्रेणैकाक्षरेण च।
तेन चिन्तामणौ विप्र सञ्चित्तः सुभविष्यसि॥५२॥
त्यक्त्वा जडादिकं मार्गं शमदमपरायणः।
गणनाथं महाभाग भज यत्नेन नित्यदा॥५३॥
एवमुक्त्वा शुको योगी ययौ स्वेच्छापरायणः।
गणेशनाम सङ्कीर्त्य जपंश्चैव विशेषतः॥५४॥
अहं गणपतिं भक्त्याऽभजं सम्भक्तिसंयुतः।
एकाक्षरविधानेनाऽऽस्थाप्य मूर्तिं पुरो नृप॥५५॥
ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमादरात्।
तथाऽपि पूजने सक्तोऽभजं तं गणनायकम्॥५६॥
दशवर्षे गते काले विघ्नेशो मां समागतः।
मया सम्पूजितो राजन् स्तुतश्च विविधैः स्तवैः॥५७॥
गाणपत्यपदं दत्त्वा गतः स्वानन्दके पुरे।
तदादि गाणपत्योऽहं भजामि ब्रह्मनायकम्॥५८॥
एवमुक्त्वा स राजानं ददौ मन्त्रं विधानतः।
षडक्षरं स राजर्षिस्तं प्रणम्य ययौ पुरम्॥५९॥
स आश्विन्यां द्वितीयायां शुक्लायां तु गृहे गतः।
तस्मिन् मासे चतुर्थ्यां च शुक्लायां व्रतमारभत्॥६०॥
जनैः सर्वैः समायुक्त उपोषणपरायणः।
मध्याह्ने गणपं तत्र प्रपूज्य विधिवन्नृपः॥६१॥
रात्रौ जागरणं चक्रे बालवृद्धसमन्वितः।
नरैः स्त्रीभिस्तद्व्रतं च कृतं सर्वैर्यथातथम्॥६२॥
शुक्लां कृष्णां चतुर्थीं ये न कुर्वन्ति नराधमाः।
ताडनीयाः प्रयत्नेन पृथिव्यां यत्र तत्र सः॥६३॥
घोषेण घोषयामास ततः सर्वे तथाऽभवन्।
व्रतं ततो वै बभूव प्रशस्तं भूमिमण्डले॥६४॥
एवं भूमण्डले राज्यं कृत्वा पुत्रे निवेद्य सः।
वने गत्वा गणेशानं सस्त्रीको नृप आभजन्॥६५॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह।
तस्य राज्ये स्थिता लोकाः सर्वे स्वानन्दगा बभुः॥६६॥
एवमन्यं दशरथ श‍ृणुष्व त्वं व्रतोद्भवम्।
इतिहासं प्रवक्ष्यामि चाश्विन्यां परमाद्भुतम्॥६७॥
भीमो नाम महाव्याधः पापकर्मपरायणः।
मार्गे जनान् निहत्वाऽगृह्य धनं स तुतोष ह॥६८॥
एकदा वनमध्ये स ब्राह्मणं हन्तुमुद्यतः।
पलायत द्विजस्तत्र वने भयसमाकुलः॥६९॥
एतस्मिन्नन्तरे तत्राश्वगः शस्त्रधरः पुमान्।
धावंश्च ब्राह्मणं दृष्ट्वा भीमं धृत्वा गतः पुरे॥७०॥
ततो द्विजः सुखेनैव स्वाश्रमं प्रजगाम ह।
पुरुषो भीमव्याधं तं राज्ञे दुष्टं न्यवेदयत्॥७१॥
तत्र सोऽपि क्षुधाविष्टो व्याधः संस्थापितोऽभवत्।
राज्ञाऽऽश्विन्यां चतुर्थ्यां वै शुक्लायां दैवयोगतः॥७२॥
पञ्चम्यां तं जघानैव ततो व्याधं गजाननः।
चतुर्थ्यां क्षुधितत्वात् स ब्रह्मभूतं चकार ह॥७३॥
एवं नानाजना राजन् चतुर्थीव्रतयोगतः।
स्वानन्दस्था भवन्तीह मया वक्तुं न शक्यते॥७४॥
चतुर्थीजमिदं चित्रं चरितं कथितं मया।
शुक्लाऽऽश्विन्यां समुद्भूतं श्रवणात् सर्वसिद्धिदम्॥७५॥
श‍ृणुयाद्यः पठेद् वाऽपि भुक्तिं मुक्तिं लभेन्नरः।
पुत्रपौत्रादिसंयुक्तः सुहृद्भिर्नृपसत्तम॥७६॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शुक्लाऽऽश्विनी चतुर्थी व्रतवर्णनं नामाष्टमोऽध्यायः॥४-८॥