सप्तमोऽध्यायः—भाद्रपद-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्

॥श्रीगणेशाय नमः॥

दशरथ उवाच

श्रुतं मया महाख्यानं त्वत्तो वेदविदांवर।
चतुर्थ्योरुभयोः सारं माहात्म्येन समन्वितम्॥१॥
तथाऽपि वद मे ब्रह्मन् पृथक् व्रतसमुद्भवम्।
चरित्रं विस्तरेणैव केन केन कृतं पुरा॥२॥
कीदृशी चाभवत् सिद्धिः केन प्राप्तो गजाननः।
श्रुत्वा व्रतस्य माहात्म्यं यामि नो तृप्तिमादरात्॥३॥

मुद्गल उवाच

एवं पृष्टो महायोगी वसिष्ठः परमार्थवित्।
जगाद तं प्रजानाथ श‍ृणु तत् सुखदं परम्॥४॥

वसिष्ठ उवाच

आदौ शम्भ्वादिभिश्चैतत् कृतं व्रतमनुत्तमम्।
कृष्णशुक्लचतुर्थ्यां यदुपोषणपरायणैः॥५॥
ततः स्वायम्भुवाद्यैश्च कृतं सर्वार्थसिद्धिदम्।
ततो मुनिगणैः सर्वैरन्यैर्वर्णस्थजन्तुभिः॥६॥
अधुनाऽहं पृथक्त्वेन कथयामि व्रतोद्भवम्।
माहात्म्यं सर्वदं पुण्यं सङ्क्षेपेण श‍ृणुष्व तत्॥७॥
पुरा दौष्यन्तिको नाम भरतः सम्बभूव ह।
तेजस्वी वीरमुख्येशः शस्त्रास्त्रज्ञः प्रतापवान्॥८॥
जित्वा भूमण्डलं सर्वं सार्वभौमो बभूव ह।
सप्तद्वीपवतीं पृथ्वीमपालद्धर्मसंयुतः॥९॥
तद्देशे दैवयोगेन ह्यनावृष्टिः सुदारुणा।
बभूव सर्वलोकास्ते भयभीता बभूविरे॥१०॥
चराचरं व्यथायुक्तं दृष्ट्वा राजा महायशाः।
कण्वं मुनिवरं शान्तं ययौ शरणमादरात्॥११॥
तं प्रणम्य महात्मानं पूजयामास भक्तितः।
कृत्वा करपुटं तस्याऽग्रे स्थितो भरतोऽभवत्॥१२॥
तमुवाच महायोगी गाणपत्यप्रियः सदा।
कण्वो वेदार्थसन्निष्ठो भरतं राजसत्तमम्॥१३॥

कण्व उवाच

किमर्थमागतो राजन् कुशलं ते महामते।
अस्ति देशादिभावेषु तिष्ठ त्वं चासनोत्तमे॥१४॥
कण्वस्य वचनं श्रुत्वा हर्षयुक्तो महीपतिः।
मुनिदत्ते विवेशासावासने स कृताञ्जलिः॥१५॥
उवाच तं महात्मानं कण्वं वेदविदां वरम्।
भरतो राजनीतिज्ञो भक्तियुक्तो विशेषतः॥१६॥

भरत उवाच

त्वत्प्रसादेन योगीन्द्र कुशलं मे प्रवर्तते।
दैवयोगेन तदपि दुःखितोऽहं समागतः॥१७॥
नित्यं स्वधर्मयुक्तेन मया सम्पालिता मही।
देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तम॥१८॥
वर्णाश्रमाचारयुता जनाः सर्वे भवन्ति च।
तथाऽपि पापजं दुःखं सम्प्राप्तं तन्न वेद्म्यहम्॥१९॥
अनावृष्टिश्च सम्भूता प्रभो सर्वत्र दुःखदा।
चराचरं भयोद्विग्नं बभूव रसहीनतः॥२०॥
तदर्थं त्वां महायोगिन्नागतोऽहं विशेषतः।
त्वद्दर्शनजपुण्येन सफलो मे भवोऽभवत्॥२१॥
अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहम्।
येन वृष्टिर्भवेत् पूर्णा तथा कुरुष्व मानद॥२२॥
ततस्तं नृपशार्दूलमुवाच मुनिसत्तमः।
कण्वः श्रुत्वा च वृत्तान्तं दयायुक्तः स्वभावतः॥२३॥

कण्व उवाच

श‍ृणु राजन् महत् पापं तव राज्ये प्रवर्तितम्।
तेनाऽवृष्टिभवं दुःखं प्रादुर्भूतं न संशयः॥२४॥
चतुःपदविहीनं ते राज्यं भवति निश्चितम्।
जनैः सर्वैः सुशीलैश्च पापं घोरं कृतं महत्॥२५॥
त्वं पापशीलभावेन वर्तसे जनवत्सल।
धर्मार्थकाममोक्षैश्च हीनोऽसि पुरुषाधम॥२६॥
चतुर्थीसम्भवं तात व्रतं सर्वार्थसिद्धिदम्।
कार्ष्णं शौक्लं सुविख्यातं भ्रष्टं राज्येऽभवन्नृप॥२७॥
चतुर्विधं जगत्सर्वं स्थूलसूक्ष्मादिभेदतः।
सङ्कष्टं यत्तदेव त्वं जानीहि नृपनायक॥२८॥
चतुर्विधं च सङ्कष्टं हरति व्रतकारिणः।
सा सङ्कष्टचतुर्थी वै कृष्णा ते कथिता मया॥२९॥
चतुर्विधं या ददाति सा शुक्ला वरदा मता।
सञ्चितं नास्ति चेद्राजन् व्रतकारिजनाय वै॥३०॥
चतुर्थीजं स माहात्म्यं कथयामास विस्तरात्।
कण्वस्तद् भरतायैव स्वशिष्याय विशेषतः॥३१॥
व्रतानि वै निष्फलानि चतुर्थीहीनकानि चेत्।
ज्ञात्वा प्रणम्य तं राजोवाच हर्षसमन्वितः॥३२॥

भरत उवाच

स्वामिन् वद गणेशस्य माहात्म्यं सर्वसिद्धिदम्।
एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा॥३३॥

कण्व उवाच

श‍ृणु राजन् गणेशस्य माहात्म्यं सर्वदं परम्।
क्रतुना कथितं मे यद्ब्रह्मपुत्रेण धीमता॥३४॥
एकदाऽहं तपोयुक्तस्तिष्ठामि स्वाश्रमे पुरा।
वायुमात्राशनो भूत्वा तपामि स्म तपो महत्॥३५॥
मदीयतपसा सर्वं व्याप्तमासीन्नराधिप।
तथाऽपि योगमास्थाय संस्थितोऽहं विशेषतः॥३६॥
ततः प्रजापतिः साक्षादाश्रमे मे समागतः।
क्रतुर्योगीन्द्रवन्द्यो यो गाणपत्यो महायशाः॥३७॥
तं प्रणम्य महात्मानं पूजयित्वा पुरः स्थितम्।
कृताञ्जलिं मामुवाच स तथा भक्तवत्सलः॥३८॥

क्रतुरुवाच

वत्स तिष्ठस्व मे दत्त आसने किं महामते।
इच्छा ते वद मां तात करिष्यामि हि तं च ते॥३९॥
तस्य तद्वचनं श्रुत्वा हर्षितोऽहं नराधिप।
आसने समुपावेश्यावदत्तं विनयान्वितः॥४०॥

कण्व उवाच

तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम्।
तथाऽपि शान्तिदं योगं वद पूर्णं दयानिधे॥४१॥

क्रतुरुवाच

सम्यक् पृष्टं त्वया वत्स श्रेष्ठाच्छ्रेष्ठतमं महत्।
कथयामि महाभाग ब्रह्मणः संश्रुतं मया॥४२॥
तपस्त्यक्त्वा पुरा तात योगमार्गपरायणः।
न शान्तिं प्रलभे तत्र योगभूमिं प्रसाधयन्॥४३॥
ततोऽहं पितरं गत्वा ब्रह्माणं सर्ववेदिनम्।
वन्द्यं तं योगशान्त्यर्थमपृच्छं विनयान्वितः॥४४॥
स्वामिन् शान्तिप्रदं ब्रह्म कीदृशं वद मे प्रभो।
केन योगेन लभ्यं तत् प्रभवेत् कृपयान्वितः॥४५॥

ब्रह्मोवाच

योगशान्तिप्रदं ब्रह्म गाणेशं विद्धि पुत्रक।
मनोवाणीमयं सर्वं त्यज योगस्य सेवया॥४६॥
मनोवाणीविहीनं यदेव तत्तादृशं मतम्।
गणेशोऽहं न भिन्नश्च ब्रह्मणां नायकः स्मृतः॥४७॥
मनोवाणीमयः प्रोक्तो गकारो वेदवादतः।
मनोवाणीविहीनश्च णकारः सर्वसम्मतः॥४८॥
तयोः स्वामी गणेशानो नाम्ना गणपतेर्यदा।
गकारस्य णकारस्य योगो वेदप्रमाणतः॥४९॥
समाधिना लभ्यते यच्चित्तेन च महामते।
गकाराक्षरगं ज्ञानं ज्ञातव्यं वेदवादतः॥५०॥
चित्तेन यन्न लभ्येत णकारं विद्धि मानद।
ज्ञानाज्ञानमयं चित्तं त्यक्त्वा शान्तिमवाप्स्यसि॥५१॥
एतदेव परं गुह्यं शान्तिदं कथितं मया।
तदर्थं गणराजं त्वं भजस्व भावसंयुतः॥५२॥
एकाक्षरं महामन्त्रं गृहाण त्वं महामते।
ध्यानयोगेन विघ्नेशं प्राप्स्यसि त्वं न संशयः॥५३॥
एवमुक्त्वा महामन्त्रं ददौ मह्यं विधानतः।
तं प्रणम्य वने तात गतोऽहं योगकारणात्॥५४॥
क्रमेण चित्तभूमीनां योगं त्यक्त्वा मया परम्।
चित्तं चिन्तामणौ पुत्र क्षिप्तं तद्रूपभावतः॥५५॥
ततो योगीन्द्रवन्द्योऽहं जातस्तदपि नित्यदा।
गणेशध्यानसंयुक्तोऽभवं तद्भक्तिकाम्यया॥५६॥
ततो विघ्नपतिः साक्षाद्दर्शनं मे ददौ मया।
स्तुतः सम्पूजितः सोऽपि ददौ स्वभक्तिमुत्तमाम्॥५७॥
तदादिगाणपत्योऽहं जातः सर्वैश्च वन्दितः।
भजस्व गणराजं तमतस्त्वं योगकाम्यया॥५८॥

कण्व उवाच

एवमुक्त्वा महायोगी मह्यं मन्त्रं ददौ ततः।
एकाक्षरं यथान्यायमन्तर्धानं चकार ह॥५९॥
अहं तथा गणेशानं साधयित्वा विशेषतः।
शान्तिं प्राप्तस्तं तथाऽपि भजाम्यनन्यचेतसा॥६०॥
अतस्त्वमपि राजेन्द्र भज विघ्नपतिं सदा।
चतुर्थीव्रतसंयुक्तो ब्रह्मभूतो भविष्यसि॥६१॥
तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः।
कण्वं प्रणम्य राजर्षिर्ययौ स्वनगरे तदा॥६२॥
तस्मिन् काले चतुर्थी सा शुक्ला भाद्री समागता।
कृता तेन सुभक्त्या वै नगरस्थजनैः सह॥६३॥
ततः सर्वत्र सङ्घोषः कृतस्तेन महीभृता।
शुक्लां कृष्णां चतुर्थीं ये नाऽऽचरिष्यन्ति नित्यदा॥६४॥
ते दण्डैः पीडनीया वै ततः सर्वेऽभवन् जनाः।
व्रतकारिण एतस्मात् पुण्यात् वृष्टिर्बभूव ह॥६५॥
हृष्टपुष्टजनाः सर्वे तया जाता नृपात्मज।
रोगादिदोषहीनास्ते भजंस्तं गणनायकम्॥६६॥
भरतः स्म महाराजोऽभजत्सोऽनन्य चेतसा।
गणेशं भक्तिसंयुक्तो गाणपत्यप्रियोऽभवत्॥६७॥
स पुत्रे राज्यमुग्रं तन्निक्षिप्य वनगोऽभवत्।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह॥६८॥
क्रमेण भूमिसंस्था येऽभवन् स्वानन्दगा जनाः।
चतुर्थी पुण्ययोगेन यथा योगपरायणाः॥६९॥
स्पर्शेन भरतस्यैव जनाः कीटादिका नृप।
पुण्यरूपा बभूवुस्तेऽथान्ते स्वानन्दगामिनः॥७०॥
एतादृशेन भूपेन पुण्यशालिजनाः कृताः।
यज्ञैः सर्वा धरा येन चित्रिता पुण्यकारिणा॥७१॥
भरतेन समो राजन् न कश्चित् प्रबभूव ह।
ज्ञानेन स्वबलेनाऽपि यशसा धर्मशालिना॥७२॥
भाद्रशुक्लचतुर्थ्यास्तु महिमा कथितो मया।
चतुर्वर्गफलैर्युक्तो ब्रह्मभूयपदप्रदः॥७३॥
भाद्रशुक्लचतुर्थ्यां तु माहात्म्यं यः श‍ृणोति चेत्।
पठेद् वा तस्य राजेन्द्र सर्वदं प्रभवेद् ध्रुवम्॥७४॥
भाद्रशुक्लचतुर्थ्यां वै शङ्करस्य हृदि प्रभुः।
प्रादुर्बभूव मध्याह्ने ध्यानजः स सुतोऽभवत्॥७५॥
तदादि सा तिथिर्मुख्या बभूव जन्मधारिणी।
गणेशस्य न सन्देहो ब्रह्मभूयपदप्रदा॥७६॥
सृष्ट्यादौ पञ्च देवेशैः स्थापिता मूर्तिरुत्तमा।
मयूरे गणनाथस्य मध्याह्ने भाद्रगे तिथौ॥७७॥
मयूरेशावतारो भाद्रपदेयो बभूव सः।
मध्याह्ने शङ्करगृहे चतुर्थ्यां शुक्लपक्षके॥७८॥
तस्यां ये मृन्मयीं मूर्तिं पूजयन्ति नरादयः।
देवाः शङ्करमुख्याश्च महोत्सवपरायणाः॥७९॥
ते सर्वे विघ्नहीनाश्च भवन्ति सुखभोगिनः।
अन्ते स्वानन्दगा भूप ब्रह्मभूता भवन्ति च॥८०॥
मध्याह्ने पूजनं प्रोक्तं गणेशस्य विशेषतः।
उपोषणसमायुक्तैश्चतुर्थ्यां व्रतकारिभिः॥८१॥
पञ्चम्यां पारणं कृत्वा द्विजैः सह महामते।
मूर्तिं तां मृन्मयीं पूज्यां विसृज्य निनयेज्जलम्॥८२॥
चतुर्थ्यां मृन्मयीं मूर्तिं भाद्रे ये नार्चयन्ति चेत्।
तेषां निष्फलरूपं वै कर्म सर्वं भविष्यति॥८३॥
न तेषां दर्शनं कार्यं नरैरात्महितेप्सुभिः।
पतितास्ते मताः शास्त्रे नारकाश्च भवन्त्यतः॥८४॥
इह विघ्नसमायुक्ता नानारोगप्रपीडिताः।
दारिद्र्यादिसमायुक्ता महापापा मता नृप॥८५॥
चतुर्थ्यां सर्ववर्णस्थैर्भाद्रे पूज्यो गजाननः।
मृन्मयो विघ्नहीनास्ते भवन्ति सफलक्रियाः॥८६॥
इयं भाद्रपदे मासि चतुर्थी शुक्लरूपिणी।
तस्याश्चरितमाद्यं ते कथितं स्वल्पभावतः॥८७॥
अत्र ते वर्णयिष्येऽहं इतिहासं पुरातनम्।
तच्छृणुष्व महाभाग चतुर्थीव्रतजं महत्॥८८॥
द्राविडे नगरे राजंश्चाण्डालः कोऽपि पापकृत्।
कुष्ठरोगयुतः पूर्णः परस्त्रीलम्पटोऽभवत्॥८९॥
चतुर्थ्यां भाद्रमासे स ज्वरयुक्तो बभूव ह।
ज्वरस्य पीडयाऽत्यन्तं पीडितो राजसत्तम॥९०॥
अन्नेन स जलेनाऽपि हीनोऽभूद्दैवयोगतः।
पञ्चम्यां मरणे प्राप्ते विमानेन जगाम ह॥९१॥
तस्याङ्गस्पर्शतो वायुर्यमलोके जगाम ह।
तेन स्पृष्टा नरास्तत्र नरकस्थाः समन्ततः॥९२॥
ते सर्वे यानगा भूत्वा गताः स्वानन्दके पुरे।
दृष्ट्वा गणपतिं तैः स ब्रह्मभूतो बभूव ह॥९३॥
व्रतमज्ञानतश्चैवं फलप्रदमिदं मतम्।
यथाविधि कृतं येन तत्र चित्रं किमप्यहो॥९४॥
चतुर्थ्या महिमाऽयं कथयितुं न प्रशक्यते।
पुरुषार्थाश्च चत्वारः प्राप्यन्ते व्रतमात्रतः॥९५॥

मुद्गल उवाच

वसिष्ठवचनं श्रुत्वा दशरथस्तमब्रवीत्।
श‍ृणु दक्ष महाभाग तां कथां पावनीं प्रभो॥९६॥

दशरथ उवाच

चाण्डालो गणनाथस्य पुपूज स न मृन्मयीम्।
मूर्तिं दोषी कथं स्वामिन् ब्रह्मभूतो बभूव ह॥९७॥

वसिष्ठ उवाच

सम्यक् पृष्टं त्वया राजन् श‍ृणु संशयनाशनम्।
ज्ञानं ते कथयिष्यामि भवेल्लोकोपकारदम्॥९८॥
चाण्डालस्य चतुर्थ्यास्तु ज्ञानं नाऽभूद् दुरात्मनः।
पूजनं च तथा तस्योल्लङ्घनं न ततोऽभवत्॥९९॥
अतोऽयं दोषहीनश्च स्वानन्दस्थो बभूव ह।
पूजनोल्लङ्घनाभ्यां स वर्जितो ज्ञानभावतः॥१००॥
एवं नानाजनाश्चेह भुक्त्वा तु विविधं सुखम्।
अन्ते स्वानन्दगा राजन् बभूवुर्व्रतमात्रतः॥१०१॥
तत्रैकं कथितं प्रोक्तुं नालं वर्षायुतैरपि।
पूर्णं भवति माहात्म्यं सङ्क्षेपेण निरूपितम्॥१०२॥

॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः॥४-७॥