षष्ठोऽध्यायः—चन्द्रदर्शन-दोष-हरण-चरित-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
अङ्गारकयुता स्वामिन् कथं श्रेष्ठा बभूव सा।
तन्मे ब्रूहि विशेषेण संशयोऽत्र महांश्च मे॥१॥
वसिष्ठ उवाच
भरद्वाजात् समुत्पन्नः पृथ्व्यां भौमो महामतिः।
गणानां त्वेतिमन्त्रेण पूजयामास विघ्नपम्॥२॥
तताप स तपो रम्यं ध्यात्वा देवं गजाननम्।
पारिनेराच्च नगरात् पश्चिमे वनसंस्थितः॥३॥
शतवर्षैर्गणाध्यक्षः प्रसन्नस्तं ययौ नृप।
वरं ब्रूहि महाभाग भूमिपुत्रेति सोऽब्रवीत्॥४॥
ततो भौमो गणाधीशं पूजयन् भक्तिभावतः।
स्तुत्वा तं स जगादेति वरं सर्वसुखप्रदम्॥५॥
नरदेहेन युक्तोऽहं तथाऽपि गणनायक।
इच्छामि चामृतं पातुं ग्रहं मां कुरु मानद॥६॥
तव भक्त्येकनिलयं नाम्ना मङ्गलसंज्ञकम्।
ऋणहर्तारमेवं मां प्रभो कुरु धनप्रदम्॥७॥
माघकृष्णचतुर्थ्यां यद्दर्शनं ते मया कृतम्।
मया युक्ता ततो देवी महापुण्यप्रदाऽस्तु सा॥८॥
तथेति गणनाथेन कृतं सर्वं नराधिप।
अतोऽन्गारयुता पुण्या चतुर्थी मुख्यतां गता॥९॥
अधुना चेतिहासं ते कथयामि विशेषतः।
भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यो निशाकरः॥१०॥
तत्र ते कारणं सर्वं कथयामि सविस्तरम्।
येन दोषविहीनस्त्वं गणेशं भजसे नृप॥११॥
एकदा देवसंयुक्तैर्मुनिभिश्चैव निश्चितम्।
गणेशांशसमुद्भूताः पञ्च देवा न संशयः॥१२॥
ते गणेशस्वरूपाद्वै कदा भिन्ना भवन्ति न।
तेषां स्मरणमात्रेण सन्तुष्टो गणनायकः॥१३॥
भविष्यति न सन्देहस्तस्मादादौ मुनीश्वराः।
शिवादीन् पूजयत च तेन सिद्धिमवाप्स्यथ॥१४॥
एवं ज्ञानबलेनाज्ञैः कृतं देवैः सहर्षिभिः।
पञ्चभिर्विष्णुमुख्यैस्तत्तथेति प्रतिपादितम्॥१५॥
ततः सर्वे मुनिगणाश्चक्रुस्ते तादृशीं क्रियाम्।
तया सिद्धिविहीनास्ते भ्रान्ताः सर्वे बभूविरे॥१६॥
समागता देवगणैः ब्रह्माणं तुष्टुवुर्नृप।
वृत्तान्तं कथयामासुः सोऽपि चिन्तातुरोऽभवत्॥१७॥
सस्मार शिवमुख्यांश्च ब्रह्माणं ते समाययुः।
विष्णुः शिवोऽर्यमा शक्तिस्तेऽपि श्रुत्वा सुविस्मिताः॥१८॥
एतस्मिन्नन्तरे तत्र शब्दः सर्वभयङ्करः।
बभूव तीव्रघोषेण युक्तः प्रलयसूचकः॥१९॥
शब्दं श्रुत्वा भयोद्विग्ना बभूवुः शम्भुमुख्यकाः।
ततोऽकस्मान् महाभीमः पुरुषः प्रकटोऽभवत्॥२०॥
विकरालं च तं दृष्ट्वा मुमूर्च्छुः शङ्करादयः।
मुनयो देवताः केऽपि पलायन्त च मूर्च्छिताः॥२१॥
मुहूर्तमात्रकाले वै गते ब्रह्मादयः सुराः।
सावधाना बभूवुस्तं ददृशुः पुरतः स्थितम्॥२२॥
ततोऽतिभयसंयुक्तास्तुष्टुवुर्गणनायकम्।
ध्यात्वा हृदि महद्रूपं गजवक्त्रादिचिह्नितम्॥२३॥
ब्रह्माद्या ऊचुः
नमस्ते गणनाथाय विघ्नानां पतये नमः।
अनाथानां सुनाथाय नमो विघ्ननिवारण॥२४॥
भक्तेभ्यः सर्वदात्रे ते निराकाराय साक्षिणे।
अमेयायाप्रतर्क्याय हेरम्बाय नमो नमः॥२५॥
गजाननाय देवाय शूर्पकर्णाय ते नमः।
महोदराय सर्वेषामादिपूज्याय वै नमः॥२६॥
सर्वादये महादात्रे सर्वपूज्याय वै नमः।
सर्वभावस्थितायैव ढुण्ढिराजाय ते नमः॥२७॥
स्वानन्दवासिने तुभ्यं योगशान्तिमयाय च।
योगिभ्यो योगदात्रे वै योगानां पतये नमः॥२८॥
सृष्टिकर्त्रे च पात्रे ते सृष्टिहर्त्रे नमो नमः।
गणेशाय गुणानां वै चालकाय नमो नमः॥२९॥
आत्मनेऽनात्मने चैव कारणानां प्रकाशिने।
ब्रह्मेशाय सदानाथ देवपालकरूपिणे॥३०॥
निवारय महाविघ्नं सहसा समुपस्थितम्।
ग्रसिष्यति न चेदण्डमस्मान् वै नात्र संशयः॥३१॥
त्वदीयपादपद्मस्य वयं दासा गजानन।
मरिष्यामो यदा नाथ यशस्तव गतं तदा॥३२॥
अधुना रक्ष देवेश न वयं द्रष्टुमुग्रकम्।
क्षमा गच्छन्ति नः प्राणा रक्ष विघ्नेश रक्ष भोः॥३३॥
एवं संस्तुवतां तेषां पुरः सोऽपि महापुमान्।
गणेशाकाररूपेण बभूव नृपसत्तम॥३४॥
ततस्ते तं प्रणेमुश्च पूजयामासुरादरात्।
मानसीं स्वसुतां तस्मै ददुः सर्वे शिवादयः॥३५॥
सरस्वतीं ददौ ब्रह्मा विष्णुः पुष्टिं च मानसीम्।
योगिनीं शङ्करश्चैव मोहिनीं जगदम्बिका॥३६॥
सञ्जीवनीं ददौ तस्मै भानुः सर्वप्रियङ्करः।
एवं सम्पूज्य विघ्नेशं प्रणतास्ते महीपते॥३७॥
उवाच तान् स उत्थाप्य विघ्नेशो भक्तिभावतः।
विष्णुमुख्यान महेशांश्च मेघगम्भीरनिःस्वनः॥३८॥
श्रीगणेश उवाच
शम्भुमुख्याः शृणुत च देवेन्द्रा मुनिमुख्यकाः।
मदीयांशा भवन्तोऽपि गर्वं मा कुरुत प्रियाः॥३९॥
चराचरं मदीयांशं मद्रहितं न किञ्चन।
तेभ्यः सिद्धिप्रदानार्थं देहधारी भवाम्यहम्॥४०॥
यदि ज्ञानेन मां त्यक्त्वा पूजयेत् तृणरूपकम्।
तेनाऽहं किं महादेवाः पूजितो वदत प्रियाः॥४१॥
तत्रांशो वर्तते किञ्चिन् मदीयस्तत् समा च मे।
तृप्तिर्जाता न सन्देहः पूर्णस्तृप्तो भवामि न॥४२॥
भवन्तोऽपि तथा विप्रैः कलांशाः पूजिता यदि।
कलांशरूपा मे तृप्तिस्तेन जाता गुणात्मिका॥४३॥
ब्रह्माण्डे पूजिते पूर्णे न तृप्तोऽहं भवामि च।
अनन्तानि मदीयेषु ब्रह्माण्डानि स्वलोमसु॥४४॥
गजवक्त्रादिचिह्नेन चिह्नितोऽहं महेश्वरः।
जगद्ब्रह्ममयस्तत्र तिष्ठामि योगशान्तिदः॥४५॥
तस्य पूजनमात्रेण जगद्ब्रह्म सुपूजितम्।
अहं तयोश्च योगे वै पूर्णः सम्पूजितो मतः॥४६॥
मां त्यक्त्वा ज्ञानमोहेन मोहिता मुनिदेवताः।
भवतां पूजनं चक्रुः सर्वादौ विघ्नसंयुताः॥४७॥
तत्रापि मदसंयुक्ता भवन्तस्तादृशात्मकाः।
सिद्धिहीनास्ततो जाताः पुनर्मा कुरुत त्विदम्॥४८॥
पूर्वस्मिंश्च भवद्भिर्वै सेवितो भक्तिसंयुतैः।
अतःसहामि देवेशा दत्तं वो दर्शनं मया॥४९॥
कलांशमात्रेण यदि सन्तुष्टोऽहं भवामि चेत्।
तदा देहधरः कस्मात् स्थास्यामि वदत प्रियाः॥५०॥
एवमुक्त्वा गणाधीशो विरराम महीपते।
तेऽपि प्रणम्य विघ्नेशं स्वदोषं प्रक्षमापयन्॥५१॥
एतस्मिन्नन्तरे तत्र चन्द्रः शङ्करभालगः।
जहास विवृतैर्दन्तैर्गणेशं रूपगर्वितः॥५२॥
उवाच मोहितोऽत्यन्तं प्रणम्य गणनायकम्।
गजवक्त्रयुतं रूपं किं धृतं विकटं प्रभो॥५३॥
पुनः पुनरुवाचेदं वाक्यं हास्यपरायणः।
ततस्तं कुपितो देवः शशाप शशलाञ्छनम्॥५४॥
ये त्वां विलोकयन्ते वै चन्द्र ते पापिनः सदा।
भवन्तु विघ्नसंयुक्ता मद्वाक्यान्नात्र संशयः॥५५॥
एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः।
भार्याभिः सहितो भूप चन्द्रश्च मलिनोऽभवत्॥५६॥
अहङ्कारविहीनास्ते जाताः शम्भ्वादयः सुराः।
तदारभ्य महाभाग गाणपत्या विशेषतः॥५७॥
वेदज्ञाऽहङ्कृतिः पूर्णा ब्रह्मणो हृदि संस्थिता।
तया मदयुतो ब्रह्मा भवत्येवं पुनः पुनः॥५८॥
सरस्वती सा दत्ता वै गणेशाय महात्मने।
तया युक्तः सदा रेमे ब्रह्मणो हृदि विघ्नपः॥५९॥
हृदि स्थिते गणेशे स कथं मोहयुतो भवेत्।
सदा तं भजते भक्त्या गाणपत्यस्वभावतः॥६०॥
सर्वपोषणता तद्वद्विष्णोर्हृदि समास्थिता।
तत् सामर्थ्यविमोहेन गर्वं गच्छति केशवः॥६१॥
तां ददौ विघ्नराजाय पुष्टिं विश्वस्य पोषिणीम्।
तया युक्तो गणेशानो रेमे विष्णोः सदा हृदि॥६२॥
सोऽपि तं भजते नित्यं गाणपत्यविचारवित्।
हृदिस्थे स कथं मोहं प्राप्नोति नृप विघ्नपे॥६३॥
योगेन मोहहीनत्वं सदा शम्भोर्हृदि प्रभो।
तेनाहङ्कारभावेन मन्यते किं न शङ्करः॥६४॥
तामेव योगिनीं देवीं हृदिस्थां प्रददौ शिवः।
गणेशस्तु तया युक्तो रेमे शम्भोर्हृदि स्थितः॥६५॥
गणेशे हृदि संस्थे स मोहं नैव प्रपद्यते।
सदा गाणेशको भूत्वा भजते गणनायकम्॥६६॥
वृष्ट्या दानप्रदाने वै करोति स दिवाकरः।
सर्वेषां जीवनं तेन धृतं कर्ममयं नृप॥६७॥
तदेव हृदये तस्य वर्ततेऽहंस्वभावतः।
तां सञ्जीवनिकां सूर्यो ददौ विघ्नेश्वराय च॥६८॥
तया युक्तो गणाधीशः सदा हृदि स खेलति।
भानोस्तेन रविस्तं स भजतेऽनन्यचेतसा॥६९॥
शक्तिर्हृदयगां देवीं मोहिनीं सर्वमोहिनीम्।
ददौ विघ्नेश्वरायैव शक्तिभावसमन्विताम्॥७०॥
तया युक्तो गणेशानस्तस्या हृदि विशेषतः।
तेन खेलति सा देवी भजते गणनायकम्॥७१॥
इत्यहङ्कारनिर्मुक्ता देवेन्द्रास्ते बभूविरे।
गाणपत्यप्रिया जाता भजन्ते विघ्ननायकम्॥७२॥
चित्ते चिन्तामणिः स्थित्वा प्रकृत्या खेलति प्रभुः।
मिथ्याहङ्कारभावेन बन्धनं प्रतिपद्यते॥७३॥
कर्ता कारयिता देवो गणेशो नात्र संशयः।
हृदिस्थं तं समर्प्यैव स्वात्मानं सुखिनोऽभवन्॥७४॥
मुद्गल उवाच
श्रुत्वा दशरथो राजा जगाद मुनिसत्तमम्।
चन्द्रस्य का गतिर्जाता तां मे वद महामुने॥७५॥
वसिष्ठ उवाच
गणेशशापसंयुक्तश्चन्द्रः स स्वगृहे गतः।
एकान्ते दुःखसंयुक्तो विचारमकरोद्धृदि॥७६॥
सम्प्रज्ञातस्वरूपश्च देहो गणपतेः स्मृतः।
असम्प्रज्ञातरूपं वै शिरस्तस्य महात्मनः॥७७॥
तयोर्योगे गणेशोऽयं भक्तानुग्रहकारणात्।
देहधारी स्वयं साक्षाद्बभूवात्र न संशयः॥७८॥
वेदेषु कथितं ते यद्रूपं परमयोगदम्।
तन्न ज्ञातं मया देव मोहेनैव गजानन॥७९॥
अपराधं दयासिन्धो क्षम त्वं चित्तगं प्रभो।
एवं क्षमाप्य विघ्नेशं ध्यात्वा लीनो बभूव ह॥८०॥
गङ्गातीरे समागम्य तताप तप उत्तमम्।
अष्टादशाक्षरेणैव तोषयामास विघ्नपम्॥८१॥
चन्द्रे लीने जगत् सर्वं दुःखयुक्तं बभूव ह।
सूर्यस्य तेजसा दग्धं रसहीनं चराचरम्॥८२॥
ततो देवगणैः सर्वैर्भयभीतैः समन्ततः।
शम्भुविष्णुमुखास्तत्र तपस्तेपुः सहेश्वराः॥८३॥
षडक्षरविधानेन ध्यात्वा हृदि गजाननम्।
भक्तियुक्ता नृपश्रेष्ठ तोषयामासुरादरात्॥८४॥
वर्षाणां शतके तत्र गते चन्द्रं गणाधिपः।
आययौ वरदानार्थं तपो बद्धो नृपोत्तम॥८५॥
वर्षेणैकेन देवेशान् ययौ विघ्नाधिपो विभुः।
समकाले च देवेशाश्चन्द्रस्तं तुष्टुवुर्विभुम्॥८६॥
अथर्वशिरसा ढुण्ढिं तोषयामासुरादरात्।
सन्तुष्टस्तानुवाचेदं गणेशो ब्रह्मनायकः॥८७॥
श्रीगणेश उवाच
वरं वृणुत देवेशाः सन्तुष्टोऽहं ददामि तम्।
यं यमिच्छथ तं तं वै सफलं वः करोम्यहम्॥८८॥
गणेशवचनं श्रुत्वा देवास्तं प्रणिपत्य ते।
कृत्वा करपुटं सर्वे जगुः परमहर्षिताः॥८९॥
देवा ऊचुः
यदि प्रसन्नभावेन वरदोऽसि गजानन।
तदा चन्द्रं सुनिर्दोषं कुरु नाथ नमोऽस्तु ते॥९०॥
स तानुवाच सर्वात्मा भक्त्या सन्तोषितः प्रभुः।
भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यः सुधाकरः॥९१॥
हास्यं कृतं मदीयं वै तद् दिने तेन देवपाः।
दोषयुक्तो विधुस्तस्मान्नान्यथा मे वचो भवेत्॥९२॥
ततोऽतिहर्षिता देवास्तथेति प्रतिपाद्य ते।
ययुश्चन्द्रं तु सन्द्रष्टुं गणेशेऽन्तर्हिते नृप॥९३॥
चन्द्रो गणपतिं दृष्ट्वा ननाम दण्डवत् क्षितौ।
पूजयामास तं देवं तुष्टाव स कृताञ्जलिः॥९४॥
चन्द्र उवाच
नमस्ते विघ्नपालाय गणेशाय परात्मने।
ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते॥९५॥
अनामयाय सर्वादिपूज्याय तु नमो नमः।
शिवात्मजाय देवाय विष्णुपुत्राय ते नमः॥९६॥
ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे।
शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः॥९७॥
सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः।
सर्वेशाय परेशाय परात्परतराय ते॥९८॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रचालक।
हेरम्बाय महेशानां महेशाय नमो नमः॥९९॥
स्रष्टे पात्रे च संहर्त्रे परमात्मस्वरूपिणे।
सर्वेभ्यो वरदात्रे तेऽनादिसिद्धाय भो नमः॥१००॥
क्षमापराधं देवेश त्वन्मायामोहधारिणः।
शरणं ते प्रसन्नस्य रक्ष मां महतो भयात्॥१०१॥
मां दृष्ट्वा हर्षसम्पन्ना अभवन् देवतादयः।
अधुना मां निरीक्ष्यैव दोषयुक्ता भयातुराः॥१०२॥
अतो मां नैव पश्यन्ति पापिनां पापरूपिणम्।
निर्दोषं कुरु विघ्नेश करुणालय ते नमः॥१०३॥
सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण।
तेनाऽहं कृतकृत्यश्च भवेयं योगिसम्मतः॥१०४॥
ततोऽतिभक्तिसंयुक्तं नृत्यन्तं देवसन्निधौ।
रोमाञ्चाश्रुसमायुक्तं दृष्ट्वा ढुण्ढिर्जगाद तम्॥१०५॥
श्रीगणेश उवाच
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम्।
अपराधाननन्तांश्च सहे तेऽनेन निश्चितम्॥१०६॥
सर्वसिद्धिप्रदं पूर्णं भविष्यति विशेषतः।
पठतां शृण्वतां चैव नानासुखकारकं भवेत्॥१०७॥
यथापूर्वं स्थितश्चन्द्र तादृशो भव नित्यदा।
यस्मिन् दिने कृतं हास्यं तत्र दोषयुतो भवेः॥१०८॥
ललाटे भूषणं मे त्वं भव सेवापरायणः।
चतुर्थ्यां कृष्णपक्षस्य व्रते ते पूजनं भवेत्॥१०९॥
मां पूजयित्वा तारेश अर्घ्यं यस्ते प्रदास्यति।
तस्य सिद्धिर्भवेत् पूर्णा व्रतजा नान्यथा क्वचित्॥११०॥
द्वितीयायां च सायाह्ने त्वया प्राप्तोऽहमादरात्।
अतः शुक्लद्वितीयायां नमस्यो मानवैर्भव॥१११॥
द्वितीयायां प्रयत्नेन त्वां नमस्यन्ति मानवाः।
मासगं दुःखमुत्सृज्य क्वचित् तिष्ठति नान्यथा॥११२॥
एवमुक्त्वाऽन्तर्दधेऽसौ गणेशश्चन्द्रपूजितः।
तस्मिन् काले च देवेशा देवास्तत्र समाययुः॥११३॥
मानयामास सम्पूज्य चन्द्रस्तांस्तैः समन्वितः।
गणेशं ब्राह्मणैः सार्धं संस्थाप्यापूजयत् प्रभुम्॥११४॥
गणेशभालसंस्थानं प्राप्तं चन्द्रेण यत्र वै।
भालचन्द्रं गणेशानं वदन्ति तत्र संस्थितम्॥११५॥
देवैः सम्पूजितस्तत्र ब्राह्मणैर्गणनायकः।
प्रगृह्य चन्द्रं निर्दोषं ततः स्वर्गं ययुः सुराः॥११६॥
चन्द्रः स्वांशस्वरूपेण स्वर्गे तिष्ठति भूमिप।
पूर्णरूपेण विघ्नेशं सेवते नित्यमादरात्॥११७॥
गङ्गातीरे निवासं स चकारात्रिसमुद्भवः।
विधुश्च भालचन्द्रं तं सेवते भक्तितत्परः॥११८॥
अथ कस्मिंश्च समये देवैः सम्प्रार्थितो हरिः।
यादवेषु समुत्पन्नो वासुदेवो बभूव ह॥११९॥
अज्ञानेन विधोस्तेन दर्शनं प्रकृतं नृप।
भाद्रशुक्लचतुर्थ्यां तु सदोषः स बभूव ह॥१२०॥
अन्तर्ज्ञानं गतं तस्य नरतुल्यो बभूव सः।
तथाऽपि विघ्नसंयुक्तो हरिस्तच्छृणु भूमिप॥१२१॥
सत्राजिन्नाम राजर्षिर्यादवेषु बभूव वै।
तेन सूर्यतपस्तप्तं दारुणं शतवत्सरम्॥१२२॥
सूर्येण स्वगले संस्थो मणिर्दत्तः स्यमन्तकः।
सत्राजिते स तद्रत्नं गले भक्त्या बबन्ध ह॥१२३॥
नित्यं सुवर्णभाराणामष्टौ स्रवति सन्मणिः।
सूर्यतेजःसमानश्चाऽशोभयद्यदुनन्दनम्॥१२४॥
द्वारकायां स्थितं तं स सूर्यभक्तिपरायणम्।
शुचिभावेन रत्नं सोऽपूजयत्तान्नरन्तरम्॥१२५॥
ततो बहुगते काले कृष्णो दोषयुतोऽभवत्।
तस्य बुद्धिः समुत्पन्ना मणेः सङ्ग्रहणे नृप॥१२६॥
सभायां संस्थितः कृष्णः स सत्राजितमाह्वयत्।
आगतं तमुवाचाऽसौ विनयेन समन्वितः॥१२७॥
श्रीकृष्ण उवाच
उग्रसेनश्च सर्वेषां यादवानां महामते।
राजाऽस्माभिः कृतस्तं ते यादवाः पूजयन्ति भोः॥१२८॥
अस्माभिर्दिग्जये प्राप्तमुग्रसेनाय यादव।
दत्तं श्रेष्ठं तथा त्वं तं मणिं देहि स्यमन्तकम्॥१२९॥
सुवर्णं मणिसम्भूतं गृहाण त्वं तु नित्यदा।
शोभार्थं कण्ठगं तात मणिं कुरु नृपस्य तम्॥१३०॥
एवमुक्तः स सत्राजित्तमुवाच समन्युना।
प्रसेनाय मया दत्तः स मे नैव ददाति तम्॥१३१॥
एवमुक्त्वा गृहं गत्वा स्वानुजाय ददौ मणिम्।
प्रसेनाय स्ववृत्तान्तं कथयामास विस्तरात्॥१३२॥
ततः कदाचित् कृष्णेन सहिता यदुनन्दनाः।
मृगयार्थं वने राजन् जग्मुर्हर्षसमन्विताः॥१३३॥
तत्राशुचिस्वभावेन प्रसेनस्तं मणिं परम्।
बबन्ध स्वगले सोऽपि तैः सह प्रययौ वनम्॥१३४॥
अशुचित्वस्य दोषेण सिंहकस्तं प्रसेनकम्।
साश्वं हत्वाऽऽगृह्य मणिं ययौ स्थानं स्वकं महान्॥१३५॥
ततस्तं जाम्बवान् हत्वा गृह्य सिंहं मणिं ययौ।
स्थानं पुत्र्या मणिं हस्ते तं ददौ स महाबलः॥१३६॥
तव भर्ता सुते यो वै भविष्यति मणिं परम्।
तस्मै दास्यामि भावेन त्वदीयोऽयं मणिः स्मृतः॥१३७॥
सायाह्ने यादवाः सर्वे आगताः स्वस्वमन्दिरे।
प्रसेनेन विहीनास्ते सत्राजित् क्रोधमादधे॥१३८॥
अहो कृष्णेन मे भ्राता संहतो नात्र संशयः।
मणिलोभवशेनाऽपि पापिना पापचेतसा॥१३९॥
ततो लोकाः पुरे संस्थाः सत्यमामानयंस्तु ते।
उग्रसेनादयः सर्वे कृष्णं न्यभर्त्सयन्नृप॥१४०॥
ततः कृष्णश्च दुःखार्तः स ध्यानेनावलोकयन्।
नरवन्न बुबोधाऽपि स दोषो वसुदेवजः॥१४१॥
ततोऽतिदुःखितो भूत्वा विचारं देवकीसुतः।
चकारान्तरजं ज्ञानं क्व गतं मम साम्प्रतम्॥१४२॥
नरतुल्यः कथं जातः कारणं नात्र वेद्मि वै।
देहत्यागं करिष्यामि वृथा लाञ्छनकारणात्॥१४३॥
ततः सभां समागम्याऽऽगृह्य यादवमुख्यकान्।
वनं ययौ प्रसेनस्य निश्चयार्थं महाद्युतिः॥१४४॥
पादमार्गं प्रसेनस्य ते सङ्गृह्य महावने।
गतास्तत्र मृतं साश्वं प्रसेनं ददृशुर्नराः॥१४५॥
सिंहेन संहतं दृष्ट्वा मणिहीनं तु यादवाः।
पुरतस्ते ययुः सर्वे सिंहमार्गप्रधारिणः॥१४६॥
ततो महावने सिंहमृक्षेण प्रहतं पुनः।
ददृशुर्न मणिं तत्र लेभिरे भयसङ्कुलाः॥१४७॥
ऋक्षपादं तथाऽऽगृह्य ययुर्यादवमुख्यकाः।
महावने बिले घोरे गतमृक्षमलोकयन्॥१४८॥
ततस्तांस्तत्र संस्थाप्य कृष्णः परपुरञ्जयः।
बिले सम्प्रविवेशाऽथ लाञ्छनस्यापनोदनात्॥१४९॥
बिले योजनमात्रं स गत्वा तत्र ददर्श ह।
प्रकाशयुक्तं संस्थानं शोभमानं सुविस्तरम्॥१५०॥
दोलायां संस्थितं वीक्ष्य मणिं कृष्णो जहर्ष च।
तत्र सुप्तं शिशुं दृष्ट्वा शनैरागात् स यादवः॥१५१॥
ततोऽकस्माज्जाम्बवतो बहिः पुत्री समाययौ।
अपूर्वं पुरुषं दृष्ट्वा चुक्रोश भयसङ्कुला॥१५२॥
ततो जाम्बवता राजन् श्रुतं पुत्र्याः प्ररोदनम्।
आययौ च स तं दृष्ट्वा युयुधे विष्णुना स्वयम्॥१५३॥
गतास्तयोरेकविंशतिघस्रास्तु प्रयुध्यतोः।
यादवा जग्मिरे सर्वे बहिःस्था अष्टमे दिने॥१५४॥
द्वारकायां स्ववृत्तान्तं कथयन्ति स्म विह्वलाः।
दिवसाः सप्त तत्रैव किलास्माकं गता बहिः॥१५५॥
तथाऽपि विवरात् कृष्णो न बहिश्च समागतः।
मृतो वा जीवितो वा स ज्ञायते किं न यादवः॥१५६॥
वसुदेवादयः श्रुत्वा सस्त्रीका नृप दुःखिताः।
उग्रसेनादयः सर्वे रुरुदुर्दुःखकर्शिताः॥१५७॥
परेऽस्माकं विशेषेण शत्रवः संस्थिता अहो।
जरासन्धादयश्चान्ये किं भविष्यति यादवाः॥१५८॥
हीनाः कृष्णेन सञ्जाता अधुना नात्र संशयः।
द्विषद्भिः संहताः सर्वे मरिष्यामः सपक्षकाः॥१५९॥
ततो रामेण ते सर्वे सान्त्विता बहुलोक्तिभिः।
निःश्वस्य संस्थिता भूप दुःखयुक्ता भयाऽऽतुराः॥१६०॥
सत्राजितं निनिन्दुस्ते व्यर्थलाञ्छनदं तदा।
सोऽपि दुःखसमायुक्तो बभूव भयसङ्कुलः॥१६१॥
अथ तं जाम्बवान् कृष्णमुवाच घननिःस्वनः।
कस्त्वं वीर महातेजा योधयन्नसि मां वद॥१६२॥
ततस्तं प्रत्युवाचेदं कृष्णो वचनमुत्तमम्।
यदुवंशभवं कृष्णं मां जानीहि महामते॥१६३॥
श्रुत्वा खेदसमायुक्तो जाम्बवांस्तं ननाम वै।
रामेणोक्तं वचो रम्यं स त्वं विष्णुः समागतः॥१६४॥
अहं दासस्त्वदीयो वै क्षमस्व करुणानिधे।
अज्ञानाच्छक्तिगर्वेणापराधं युद्धजं च मे॥१६५॥
स्तुतः सम्पूजितस्तेन कृष्णो वृत्तान्तमादरात्।
अगदत्तं ततः श्रुत्वा कन्यायुक्तं मणिं ददौ॥१६६॥
गृहीत्वा सस्त्रियं कृष्णो द्वारकायां समागतः।
आगतं कृष्णमालोक्य हर्षयुक्ता बभूविरे॥१६७॥
यादवैश्च ततः कृष्णः समानाय्य महामणिम्।
सत्राजिते ददौ तत्र सर्वेषां पश्यतां नृप॥१६८॥
सत्राजिन् मनसाऽत्यन्तं निन्दयामास तां तनुम्।
भयभीतः स कृष्णस्य विरोधेन महायशाः॥१६९॥
सत्यभामां ददौ तस्मै मणियुक्तां महात्मने।
कृष्णाय स उवाचेदं श्वशुरो विनयान्वितः॥१७०॥
सूर्यभक्तियुतस्त्वं वै मणिं रक्ष महामते।
दौहित्रास्ते भविष्यन्ति ग्रहीष्यन्ति मणिं च ते॥१७१॥
तथेति यादवेनैव कृतं सत्राजिता नृप।
एतस्मिन्नन्तरे तत्र वृत्तान्तो यादवैः श्रुतः॥१७२॥
लाक्षागृहेषु सन्दग्धाः कुन्त्या युक्ताश्च पाण्डवाः।
पुरोचनेन तज् ज्ञात्वा रुरुदुर्यादवा बहु॥१७३॥
रामेण हस्तिनापुर्यां कृष्णः सद्यो जगाम ह।
धृतराष्ट्रादिभिः सोऽपि रुरोद शोकसङ्कुलः॥१७४॥
शतधन्वा ततोऽक्रूरः कृतवर्मा च यादवः।
मिलिताः क्रोधसंयुक्ता विचारं चक्रुरादरात्॥१७५॥
सत्राजिता वयं सर्वे कन्यार्थं संवृताः पुरा।
अस्मान् सन्त्यज्य कृष्णाय ददौ कन्यां सुरूपिणीम्॥१७६॥
कृष्णः पाण्डवशोकार्तोऽभवत् तत्रैव संस्थितः।
स रामो निश्यतः कार्यं कर्तव्यं तत् त्रिभिः किल॥१७७॥
हत्वा सत्राजितं सुप्तं मणिर्ग्राह्यो न संशयः।
एवं निश्चित्य रात्रौ तं शतधन्वा जगाम ह॥१७८॥
सत्राजितं स हत्वा वै मणिं जग्राह दारुणः।
संस्थाप्य तैलद्रोण्यां तं कृष्णं सत्याययो ततः॥१७९॥
श्वशुरं स हतं श्रुत्वा रामेण सहसा गतम्।
कृष्णं ज्ञात्वा रोषितं शतधन्वाऽक्रूरमाययौ॥१८०॥
अक्रूरेण समात्यक्तः कृतवर्माणमाययौ।
तेनापि न धृतः पक्षः पुनः सोऽक्रूरमाययौ॥१८१॥
मणिं तत्रैव निक्षिप्य पपाल भयसङ्कुलः।
शतयोजनगाऽश्विन्यां समारुह्य नृपात्मज॥१८२॥
पलायमानं विज्ञाय कृष्णः सङ्कर्षणान्वितः।
रथमारुह्य वेगेन तमनु प्रययौ तदा॥१८३॥
योजनानां शतं गत्वा ममार ह पुरोऽश्विनी।
शतधन्वा भयैर्युक्तः पलायत पदा ततः॥१८४॥
पदातिनं च तं ज्ञात्वा कृष्णोऽधावत् सुसत्वरः।
पदातिर्बलभद्रे स रथं त्यक्त्वा महाद्युतिः॥१८५॥
ततश्चक्रेण कृष्णेन हतस्तत्र पपात ह।
शतधन्वा तेन तस्मिन् न दृष्टो मणिरुत्तमः॥१८६॥
ततः शोकसमायुक्तो बलभद्रमुवाच ह।
शतधन्वा हतो हीनो मणिना तत्र मानद॥१८७॥
उवाच कोपयुक्तस्तं स ततो रोहिणीसुतः।
मणिस्त्वया सुसङ्गुप्तो मिथ्या वाक् त्वं महाखल॥१८८॥
अग्रजाय प्रदातव्यस्तदर्थं मणिरादरात्।
कृतं त्वया महालोभिन् कर्म साधु जुगुप्सितम्॥१८९॥
ततस्तं विनयेनैव सान्त्वयामास केशवः।
द्विजदेवगवां ते मे शपथो न कृतं मया॥१९०॥
तं तिरस्कृत्य वेगेन त्यक्त्वा रामो जगाम ह।
विदर्भ राजनीतिज्ञं स्वमित्रं नृपतिं तदा॥१९१॥
ततोऽतिदुःखसंयुक्तः कृष्णः परमदारुणम्।
रुरोद बलभद्रं स स्मृत्वा स्मृत्वा विशेषतः॥१९२॥
ज्ञानदृष्ट्या स कृष्णेन मणिर्नाप्तो महीपते।
ततोऽतिदुःखितो भूत्वा रुरोद च पुनः पुनः॥१९३॥
अहो ज्ञानं मदीयं यद्गतं कुत्र विशेषतः।
नरतुल्यः कृतः केन धिङ् मे जीवितकं किल॥१९४॥
रथसंस्थः समायातो द्वारकायां महायशाः।
लोकवृत्तान्तमुग्रं स कथयामास विस्तरात्॥१९५॥
ततो यादवमुख्यैः स भर्त्सितोऽतिविशेषतः।
कृष्णः सत्राजितः कर्म चकारोत्तरकं नृप॥१९६॥
देशे देशे नृपाद्याश्च जनाः कृष्णं विशेषतः।
निनिन्दुः कर्म कृष्णेन किं कृतं दुष्टबुद्धिना॥१९७॥
समर्थं बलभद्रं योऽत्यजज्ज्येष्ठं सुदुर्मतिः।
मणिलोभी महापापी विश्वास्यो नैव केनचित्॥१९८॥
द्वारकायां जनाः सर्वे तं कृष्णं न प्रमेनिरे।
त्यक्तः सर्वैस्तथा कृष्णः शुशोच परमव्यथः॥१९९॥
अस्थित्वचासमायुक्तं सदा स्वगृहसंस्थितम्।
नारदस्तं समालोच्याययौ दृष्ट्वा सुविस्मितः॥२००॥
तं प्रणम्य महात्मानं कृष्णः परमदुःखितः।
उवाच भावभक्त्या वै कृताञ्जलिपुटः शनैः॥२०१॥
श्रीकृष्ण उवाच
सर्वैः सन्त्याजितो दुःखी गृहे नित्यं वसाम्यहम्।
तत्र ते दर्शनं स्वामिन्नभवत् भाग्ययोगतः॥२०२॥
ततस्तं नारदः प्राह किमर्थं त्यज्यसे वद।
एवं पृष्टः पुनः प्राह वृत्तान्तं सर्वमञ्जसा॥२०३॥
श्रुत्वा वृत्तान्तमुग्रं वै ध्यानेनालोक्य नारदः।
देहत्यागे समुद्योगं कुर्वन्तं तमुवाच ह॥२०४॥
नारद उवाच
भाद्रशुक्लचतुर्थ्यां च त्वया चन्द्रो विलोकितः।
शप्तोऽसौ विघ्नराजेन तेन सन्दुःखितो भवान्॥२०५॥
देहत्यागं महाबुद्धे मा कुरुष्व विशेषतः।
गणेशं भज भावेन सङ्कष्टीव्रतसंयुतम्॥२०६॥
मिथ्याऽपवादशून्यस्त्वं भविष्यसि न चान्यथा।
सज्ञानश्च समर्थेशस्तस्मात् तं शरणं व्रज॥२०७॥
एवमुक्त्वा महायोगी नारदः प्रययौ ततः।
गणेशगानसंयुक्तो वीणावादनलालसः॥२०८॥
ततः कृष्णः प्रहर्षेण युक्तो विघ्नेशमादरात्।
अभजद् ध्यानमार्गज्ञो ध्यानेनोग्रेण भूमिप॥२०९॥
एकाक्षरेण मन्त्रेणापूजयन्नित्यमेव तम्।
व्रतं चकार स ततः सङ्कष्टीसंज्ञमुत्तमम्॥२१०॥
रात्रावेकान्तसंस्थं तं ध्याननिष्ठं जनार्दनम्।
निश्चलं गणराजः स ययौ भक्तं सुखप्रदः॥२११॥
बोधयामास तं कृष्णं गणेशो ब्रह्मनायकः।
तमुत्थाय ननामाऽसौ पूजयामास चादरात्॥२१२॥
पुनः प्रणम्य तुष्टाव विघ्नेशं सामगेन सः।
स्तोत्रेणाष्टकसंज्ञेन नाम्ना तं प्रननर्त ह॥२१३॥
सरोमाञ्चं गणेशानः कृष्णं दृष्ट्वा जगाद ह।
वरं वरय मत्तस्त्वं दास्यामि हृदि वाञ्छितम्॥२१४॥
गणेशवचनं श्रुत्वा तं जगाद महायशाः।
कृष्णो भक्त्या समायुक्तो वचनं खेदसंयुतः॥२१५॥
श्रीकृष्ण उवाच
यदि तुष्टोऽसि विघ्नेश वरदोऽसि विशेषतः।
तदा ते भक्तिमुग्रां मे देहि ह्यव्यभिचारिणीम्॥२१६॥
भाद्रशुक्लचतुर्थ्यां ये चन्द्रं पश्यति विघ्नप।
ते शापदुःखहीना वै भवन्तु कृपया च ते॥२१७॥
अहं चासन्नमरणजनवज्ज्ञानवर्जितः।
प्रकृतोऽन्यस्य का वार्ता प्रार्थयामि ततः प्रभो॥२१८॥
जगाद गणनाथः स ततस्तं भक्तिमोहितः।
मम भक्तिर्दृढा कृष्ण भविष्यति च तेऽनघ॥२१९॥
स्यमन्तकस्य माहात्म्यं त्वदीयं लाञ्छनप्रदम्।
वरदानं मदीयं च यः शृणोति जनार्दन॥२२०॥
पठेत्तु भावयुक्तश्चेन् मां धृत्वा हृदये हरे।
स एव दोषसंहीनो भवत्वत्र न संशयः॥२२१॥
एवमुक्त्वा गणेशानः कृष्णं भक्तिपरायणम्।
अन्तर्धानं चकाराऽसौ कृष्णस्तत्र समास्थितः॥२२२॥
सम्पूर्णं जागरं कृत्वा पञ्चम्यां नियतः प्रभुः।
पूजयित्वा गणेशानं ददौ दानं विशेषतः॥२२३॥
गणेशकृपया तस्याऽन्तर्ज्ञानं सम्बभूव ह।
ग्रहणं च मणेस्तेन ज्ञातमक्रूरकारितम्॥२२४॥
सभायां स समागम्याक्रूरं तत्राजुहाव च।
तं प्रणम्य महाभागमुवाच हास्यसंयुतः॥२२५॥
मणिश्च तात सन्त्यक्तो गेहे ते शतधन्वना।
बलभद्रार्थमद्य त्वं मणिं दर्शय मानद॥२२६॥
ततोऽक्रूरेण चानीतो मणिस्तत्र सुसंसदि।
दृष्ट्वोग्रसेनमुख्यास्ते प्रशशंसुर्जनार्दनम्॥२२७॥
अक्रूरश्च विदर्भं तं गत्वा हलधरं प्रभुम्।
मणिं दत्त्वा समानीय सभायां संस्थितोऽभवत्॥२२८॥
समागतं महावीरमनमत् केशवः पुनः।
सर्वे हर्षयुता जाता द्वारकावासिनस्ततः॥२२९॥
निर्दोषं वासुदेवं ते मानयामासुरादरात्।
राजानः सुहृदः सर्वे नानादेशनिवासिनः॥२३०॥
सर्वेषां हृदि संस्थोऽयं गणेशो बुद्धिनायकः।
तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम्॥२३१॥
अतो भाद्रचतुर्थ्यां वै न द्रष्टव्यः कदाचन।
चन्द्रः कदाचित् दृष्टश्चेदिदं श्रोतव्यमादरात्॥२३२॥
तेन दोषविहीनश्च जायते नात्र संशयः।
अन्यथा भ्रष्टभावेन नारकी स नरो भवेत्॥२३३॥
स्यमन्तकमणेश्चित्रं चरितं कथितं परम्।
चन्द्रदर्शनजं दोषं हरति श्रवणेन च॥२३४॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रशुक्लचतुर्थी चन्द्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः॥४-६॥