पञ्चमोऽध्यायः—चतुर्थीविवेक-वर्णनम्
॥श्रीगणेशाय नमः॥
दशरथ उवाच
ब्रह्मादिभिः कथं विप्र चतुर्थीगं व्रतं कृतम्।
गणनाथप्रियं पूर्णं वद सर्वं प्रविस्तरात्॥१॥
दक्ष उवाच
वद मुद्गल माहात्म्यं चतुर्थ्यास्त्वं प्रविस्तरात्।
श्रुत्वा कथां महारम्यां न तृप्यामि मुनीश्वर॥२॥
दक्षस्य भक्तिसंयुक्तं वाक्यं श्रुत्वा महामुनिः।
जगाद तं विशेषज्ञो मुद्गलः शृणु शौनक॥३॥
वचनं नृपवर्यस्य श्रुत्वा दशरथस्य च।
जगाद तं मुनिश्रेष्ठो वसिष्ठः सर्ववित् प्रभुः॥४॥
वसिष्ठ उवाच
कदाचित् प्रलये वृत्ते नष्टं स्थावरजङ्गमम्।
पञ्चभूतमयं सर्वं व्यवस्थासंयुतं पुरा॥५॥
शून्यवत् सर्वभावैस्तद्धीनं ब्रह्ममयं बभौ।
योगनिद्रा गणेशस्य सैव वेदे प्रकथ्यते॥६॥
पुनः स कस्मिंश्चित्काले वेदवाग्भिः प्रबोधितः।
गणेशो निर्ममे सर्वं तत्त्वैस्तत्त्वप्रधारकः॥७॥
त्रिगुणेभ्यः समुत्पन्ना देवाः पञ्च नृपेश्वर।
ब्रह्मा विष्णुः शिवः शक्तिः सूर्यः सर्वधरा बभुः॥८॥
तैस्तपश्चरितं घोरमेकाक्षरविधानतः।
तपसा गणनाथस्तु प्रसन्नः प्रबभूव ह॥९॥
हृदये दर्शयामास स्वात्मानं सर्वदं परम्।
तेन ज्ञानयुता जाता देवाः पञ्च नरेश्वर॥१०॥
तैश्च सम्प्रार्थितो योगी भृशुण्डी सर्वपारगः।
तेन सम्प्रेषिता देवा आययुर्नगरे निजे॥११॥
कर्मभूमौ गणेशस्य क्षेत्रं स्वानन्दवाचकम्।
वेदैः सन्दर्शितं स्थापयामासुस्तत्र विघ्नपम्॥१२॥
यस्मिन् काले च देवेशैः स्थापिता मूर्तिरादरात्।
तस्मिन् काले चतुर्थी सा भाद्री शुक्ला बभूव ह॥१३॥
मध्याह्नसमये संस्था सा मुख्या प्रबभूव ह।
तत आराधितस्तैः स गणराजो विशेषतः॥१४॥
माघमासे सिते पक्षे चतुर्थ्यां राजसत्तम।
प्रकटोऽभूत् पुरस्तेषां वरदाता गजाननः॥१५॥
वरप्रसादेन तस्य निर्मितं सकलं जगत्।
देवेशैः सा तिथिर्मुख्या बभूव वरदायिनी॥१६॥
ब्रह्मादिभिश्च सर्वेभ्य उपदिष्टा चतुर्थिका।
आदौ काले तथा तत्र ज्येष्ठी मुख्या बभूव सा॥१७॥
ज्येष्ठशुद्धचतुर्थ्यां तद्व्रतदानं कृतं पुरा।
तस्मिन् काले धृता सर्वैः सद्यः सा वरदायिनी॥१८॥
अतो मुख्यत्वमापन्ना ज्येष्ठी माघी च भाद्रिका।
चतुर्थी नृपशार्दूल शुक्लपक्षेषु सर्वदा॥१९॥
तत्र भाद्रपदे मासे चतुर्थी या महामते।
शुक्ला साऽत्यन्तभावेन मुख्या जाताऽद्य भावतः॥२०॥
चतुर्थी समभावेन न किञ्चिद् वर्तते व्रतम्।
अतः किं वर्णनीयं वै तदौपम्यं तदेव च॥२१॥
भाद्रे चतुर्थी या शुक्ला साधिता सा नरेण चेत्।
स द्वादशचतुर्थीसम्भवं पुण्यं समाप्नुयात्॥२२॥
अङ्गारकयुता भूप सा नरेण कृता भवेत्।
चतुर्थी षोडशभवं पुण्यं प्राप्तं न संशयः॥२३॥
नरेण धीमता सा चेद्यदि चन्द्रयुता कृता।
चतुर्थी विंशतिभवं फलं प्राप्तं महामते॥२४॥
यदि स्वातियुता भूप चन्द्रवारेण चेत्कृता।
प्राप्तं चतुर्विंशतिचतुर्थीजं किल पुण्यकम्॥२५॥
माघे शुक्लचतुर्थी सा कृता चेन्नात्र संशयः।
अष्टानां च चतुर्थीनां फलं प्राप्तं नरेण तत्॥२६॥
अङ्गारकयुता चेद्वै साधिता सा नरेण च।
द्वादशानां चतुर्थीनां पुण्यं प्राप्तं व्रतोद्भवम्॥२७॥
ज्येष्ठे शुक्लचतुर्थीं यः करोति व्रतधारकः।
चतुश्चतुर्थीजं पुण्यं लभते स नराधिप॥२८॥
अङ्गारकयुता चेद् द्वादशभिः समतां व्रजेत्।
नरेण सा प्रयत्नेन कर्तव्या सर्वदायिका॥२९॥
अन्येषु श्रावणाद्येषु चतुर्थी वरदा कृता।
धर्मार्थकाममोक्षाणां दात्री शास्त्रेषु सम्मतम्॥३०॥
तत्र श्रावणमासे या चतुर्थी वरदा मता।
द्विचतुर्थीभवं पुण्यं ददाति व्रतकारिणे॥३१॥
चतुर्थ्या महिमाऽनन्तोऽशक्यो वर्णयितुं भवेत्।
चतुःपदप्रदा प्रोक्ता सा कथं वर्ण्यते मया॥३२॥
अधुना शृणु राजेन्द्र कृष्णपक्षे समागताम्।
चतुर्थीं सर्वदां पुण्यां सङ्कष्टहरिणीं शुभाम्॥३३॥
चतुर्विधं च सङ्कष्टं प्राप्तं सर्वैर्नराधिप।
जन्ममृत्युव्यवस्थाख्यं चतुर्थं कर्मजं फलम्॥३४॥
इत्यादिबहवो भेदाः कथनं नैव शक्यते।
चतुर्विधं जगत् सर्वं पञ्चमं ब्रह्म उच्यते॥३५॥
चतुर्विधं सुसङ्कष्टं व्रतमात्रेण हन्ति या।
सङ्कष्टहरिणी प्रोक्ता चतुर्थी कृष्णपक्षगा॥३६॥
तस्यापि महिमानं कः क्षमो वर्णयितुं भवेत्।
सर्वसिद्धिप्रदायास्तु व्रताचरणमात्रतः॥३७॥
माघमासे कृताऽऽदौ च ब्रह्मणा विश्वयोनिना।
अतः सा मुख्यतां प्राप्ताऽष्टचतुर्थीव्रतैः समा॥३८॥
अङ्गारकयुता तत्र विंशत्या समतां व्रजेत्।
साधिता व्रतभावेन चेन्नरेण नराधिप॥३९॥
श्रावणे या समाख्याता चतुर्थी कृष्णपक्षगा।
चतुश्चतुर्थीतुल्या सा भवत्यत्र न संशयः॥४०॥
ब्रह्मणा चोपदिष्टा वै श्रावणे सा ततोऽधिका।
आदौ देवमुनीन्द्रेभ्यः सर्वसङ्कष्टहारिणी॥४१॥
भाद्रमासे नराधीश चतुर्थी कृष्णपक्षगा।
चतुश्चतुर्थीतुल्या सा शृणु कारणमत्र वै॥४२॥
देवानां गणनाथश्च वरदः सम्बभूव ह।
व्रतमात्रेण तस्मात् सा मुख्या जाता न संशयः॥४३॥
अङ्गारकयुता कुत्र सम्प्राप्ता चेत् सुसिद्धिदा।
द्वादशव्रतजं पुण्यं ददाति व्रतकारिणे॥४४॥
शुक्ला कृष्णा सदा कार्या चतुःपदसुसिद्धये।
अन्यथा सिद्धिहीनानि प्रभवन्ति व्रतानि च॥४५॥
॥ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थीविवेकवर्णनं नाम पञ्चमोऽध्यायः॥४-५॥